( अथ षष्ठाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः ) ।
क॒द्रूश्व॒ वै खु॑प॒र्णी चा॑ऽऽत्मरष्पयो॑रस्पर्धेता॒शं सा
क॒द्रूः सु॑प॒र्णीम॑जश॒त्साऽब्र॑वीत्ततीय॑स्वामि॒तो वंदो॒वि
सोम॒स्तमा ह॑र॒ तेनाऽऽत्मानं॒ निष्क्री॑णीष्व॑ती॒यं वै
क॒दू॒रसौ सु॑पर्णी छन्दाँ॑सि सोपर्णेयाः साऽब्रंवीद॒-
स्मै वै पि॒तरौ॑ पुत्रान्बि॑भृतस्तृ॒तीय॑स्यामि॒तो दि॒वि सो-
म॒स्तमा ह॑र॒ तेना॒ऽऽत्मानं॒ निष्की॑णीष्व ( 1 ) इति॑
[[2389]]
प्रपा॰ ८ अनु॰ २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
( अरुणया सोमक्रयाभिधानम्)
मा क॒द्रूर॑वोच॒दिति॒ जग॒त्युद॑पत॒च्चतु॑र्धशाक्षरा सती॒
साऽप्रा॑प्य॒ न्य॑वर्तत॒ तस्यै॒ द्वे अ॒क्षरे॑ अमीयेताँ॒ सा
प॒शुभि॑श्च द॒क्षिया॒ चाऽग॑च्छ॒त्तस्मा॒ज्जग॑ती॒ छन्द॑सां
पश॒व्य॑तमा॒ तस्मा॑त्पशुमन्तं॑ दी॒क्षोप॑ नमति त्रि॒ष्टुगुद॑-
पत॒त्त्रयोंदशाक्षरा स॒ती साऽप्रा॑प्य॒ न्य॑वर्तत॒ तस्यै॒द्दे
अ॒क्षरे॑ अमीयेताँ सा दक्षि॑णाभिश्व (२) तप॑सा॒
चाऽग॑च्छ॒त्तस्मा॑त्त्रि॒ष्टुभो॑ लो॒के माध्यं॑दिने॒ सव॑ने॒
दक्षि॑णा नीयन्त ए॒तत्खलु॒ वाव तप॒ इत्या॑हुर्यः स्वं
ददा॒तीति॑ गायत्र्यद॑पत॒च्चतु॑रक्षरा स॒त्य॑जया॒ ज्योति॑षा॒
तम॑स्या अ॒जाऽभ्य॑रुन्ध॒ तद॒जाया॑ अ॒जाऽत्वँ सा सोमं॒
चाऽह॑रच्च॒त्वारि॑ चा॒क्षरा॑णि॒ सा॒ऽष्टाक्ष॑रा॒ सम॑प-
द्यत ब्रह्मवा॒दिनो॑ वदन्ति (३) कस्मा॑त्स॒त्याद्गा॑यत्री
कन॑ष्ठा॒ छन्द॑साँ स॒ती य॑ज्ञमु॒खं परी॑या॒येति॒ यदे॒-
वादः साम॒माऽह॑र॒त्तस्मा॑द्यज्ञमुखं॒ पर्यै॒त्तस्मा॑त्तेज॒स्वि-
नी॑तमा प॒द्भ्यां द्वे सव॑ने स॒मगृ॑ह्णा॒न्मुखे॒नैकं॒ यन्मु-
खे॑न स॒मगृ॑ह्णा॒त्तद॑धय॒त्तस्मा॒द्द्वे सव॑ने शुक्रव॑ती प्रा-
तःसव॒नं च॒ माध्यं॑दिनं च॒ तस्मा॑त्तृतीयसव॒न ऋ॑जी॒-
षम॒भि षु॑ण्वन्ति धी॒तमि॑वं॒ हि मन्यन्ते (४)आ॒शि-
र॒मव॑ नयति सशुक्र॒त्वायाथो॒ सं भ॑रत्ये॒वैन॒त्तँ सो-
म॑माह्रि॒यमा॑णं गन्ध॒र्वो वि॒श्वाव॑सुः॒ पर्य॑मुष्णा॒त्स
ति॒स्रो रात्रीः॒ परि॑मुषितोऽवस॒त्तस्मा॑त्ति॒स्रो रात्रीः॑
क्री॒तः सोमो॑ वसति॒ ते दे॒वा अ॑ब्रुव॒न्त्स्त्रीका॑मा॒ वै
ग॑न्ध॒र्वाः स्त्रि॒या निष्क्री॑णा॒मेति॒ ते वाचँ॒ स्त्रिय॒मे-
क॑हायनीं कृ॒त्वा तया॒ निर॑क्रीण॒न्त्सा रो॒हिद्रूपं
[[2390]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— [ ६ षष्ठकाण्डे—
( अरुणया सोमक्रयाभिधानम्)
कृ॒त्वा ग॑न्ध॒र्वेभ्यः (५) अ॒प॒क्रम्या॑तिष्ठ॒त्तद्रो॒हितो॒
जन्मा॒ ते दे॒वा अ॑ब्रुव॒न्नप॑ यु॒ष्मदक्र॑मी॒न्नास्मानु॒पाव॑-
र्तते॒ वि ह्व॑यामहा॒ इति॒ ब्रह्म॑ गन्ध॒र्वा अव॑द॒न्नगा॑य-
न्देवाः॒ सा दे॒वान्गाय॑त उ॒पाब॑र्तत॒ तस्मा॒द्गाय॑न्तँ॒
स्त्रियः॑ कामयन्ते कामु॑का एनँ स्त्रियो॑ भवन्ति॒ य
ए॒वं वेदाथो॒ य ए॒वं वि॒द्वानपि जन्ये॑षु भव॑ति॒ तस्मा॒देक॑-
ए॒व द॑दात्यु॒त यद्ब॒हुत॑याः (६) भ॒व॒न्त्येक॑हायन्या
क्रीणाति वा॒चैवैनँ॒ सर्व॑या क्रीणाति॒ तस्मा॒देक॑-
हायना मनुष्या॑ वाचं॑ वद॒न्त्यकू॑टयाऽक॑र्ण॒याऽका॑-
ण॒याऽश्लो॑णयाऽस॑प्तशफया क्रीणाति॒ सर्व॑यै॒वैनं॑
क्रीणाति॒ यच्छ्वेतया॑ क्रीणी॒याद्दु॒श्चर्मा॒ यज॑मानः
स्था॒द्यत्कृ॒ष्णया॑ऽस्तर॑णी स्यात्प्र॒मानु॑को॒ यजमानः
स्या॒द्यद्द्वि॑रू॒पया॒ वार्त्र॑घ्नी स्या॒त्स वा॒ऽन्यं जि॑नी॒-
यात्तं वाऽन्यो जि॑नीयादरु॒णया॑ पिङ्गाक्ष्या क्री॑णा-
त्ये॒तद्वै सोम॑स्य रू॒पँ स्वयै॒वैनं॑ दे॒वत॑या क्री-
णाति (७) ।।
( निष्क्री॑णीष्व॒ दक्षि॑णामिश्च वदन्ति॒ मन्य॑न्ते गन्ध॒र्वेभ्यो॑ बहुत॑याः
पिङ्गा॒क्ष्या दश॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्ठके प्रथमप्रपाठके षष्ठोऽनुवाकः समाप्त ।। ६।।