(अथ षष्ठाष्टके प्रथमप्रपाटके पञ्चमोऽनुवाकः ) ।
दे॒वा वै दे॑व॒यज॑नमध्यव॒साय॒ दिशो॒ न प्राजा॑न॒-
न्ते॑ऽन्यो॑न्यमुपा॑धाव॒न्त्वया॒ प्र जा॑नाम॒ त्वयेति॒
तेऽदि॑त्याँ॒ सम॑ध्रियन्त॒ त्वाया॒ प्र जा॑ना॒मेति साऽब्र॑-
वा॒द्वरै॑ वृणै॒ प्रत्प्रा॑यणा ए॒व वो॑ य॒ज्ञा मदु॑दयना
अस॒न्निति॒ तस्मा॑दादि॒त्यः प्र॑यणीयो॑ यज्ञाना॑मा-
दि॒त्य उ॑दयनीयः पञ्च॑ दे॒वता॑ यजति॒ पञ्च॒ दिशो॑
दिशां प्रज्ञा॑त्यै ( 1 ) अथो॒ पञ्चा॑क्षरा प॒ङ् क्तिः
पाङ् क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रून्धे॒ पथ्याँ स्व॒स्तिमं॑-
यज॒न्प्राची॑मे॒व तया॒ दिशं॒ प्राजा॑नन्न॒ग्निना॑ दक्षि॒णा
सोमे॑न प्र॒तीचीँ सवि॒त्रोदी॑ची॒मदि॑त्यो॒र्ध्वा॑ पथ्याँ
स्व॒स्तिं य॑जति॒ प्रची॑मे॒व तया॒ दिशं॒ प्रजा॑नाति॒
पथ्याँ स्व॒स्तिमि॒ष्टा॒ऽग्नीषोमौ॑ यजति॒ चक्षु॑षी॒ वा
ए॒ते य॒ज्ञस्य॒ यद॒ग्नीषोमौ॒ ताभ्या॑मे॒वानु॑ पश्यति
( 2 ) अ॒ग्नीषोमा॑वि॒ष्टा स॑वि॒तारै॑ यजति सवि॒तृप्र॑-
सूत ए॒वानु॑ पश्यति सवि॒तार॑मिष्टाऽदि॑तिं यजती॒यं
वा अदि॑तिर॒स्यामे॒व प्र॑ति॒ष्ठायानु॑ पश्य॒त्यदि॑तिमि॒ष्टा
मा॑रू॒तीमृचमन्वा॑ह म॒रूतो॒ वै दे॒वानां॒ विशो॑ देव-
वि॒शं खलु॒ वै कल्प॑मानं मनुष्यविशमनु॑ कल्पते॒
यन्मा॑रू॒तीमृच॑म॒न्वाह॑ वि॒शां क्लृप्त्यै॑ ब्रह्मवादि॒नों
वदन्ति प्रया॒जव॑दननूया॒जं प्रा॑य॒णीयं॑ कार्य॑मनूया॒-
जव॑त् ( 3 अ॒प्र॒या॒जमु॑दय॒नीय॒मिती॒मे वै प्र॑या॒जा
अ॒मी अ॑नूया॒जाः सैव सा य॒ज्ञम्य॒ संत॑ति॒स्तत्तथा॒
न का॒र्य॑मा॒त्मा वै प्र॑या॒जाः प्र॒ज्ञाऽनू॑या॒जा यत्प्र॑-
[[2388]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (6 षष्ठकाण्डै-
( अरूणया सोमक्रयाभिधानम् )
या॒जान॑न्तरि॒यादा॒त्मान॑म॒न्तरि॑या॒द्यद॑दूया॒जान॑न्त-
रि॒यात्प्र॒जाम॒न्तरि॑या॒द्यतः॒ खलु॒ वै य॒ज्ञस्य॒ वित॑-
तस्य॒ न क्रि॑यते॒ तदनु॑ य॒ज्ञः परा॑ भवति य॒ज्ञं
प॑रा॒भव॑न्तं॒ यज॑मा॒नोऽनु॑ ( 4 ) परा॑ भवति
प्रया॒जव॑दे॒वानृ॑या॒जव॑त्प्राय॒णीयं॑ का॒र्य॑ प्रया॒जव॑द-
नूया॒जव॑दुदय॒नीयं नाऽऽत्मान॑मन्त॒रेति न प्र॒जां न
य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानः प्राय॒णीय॑स्य
निष्का॒स उ॑दय॒नीय॑म॒भि निर्व॑पति॒ सैव सा य॒ज्ञस्य॒
संतति॒र्याः प्रा॑य॒णीय॑स्य या॒ज्या॑ यत्ता उ॑द॒यनीय॑स्य-
या॒ज्याः॑ क॒र्यात्परा॑ङ॒मुं लो॒कमा रो॑हेत्प्र॒मायु॑कः
स्या॒द्याः प्रा॑य॒णीय॑स्य पुरोनुवा॒क्या॑स्ता उ॑दय॒नी-
य॑स्य या॒ज्याः॑ करोत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति ( 5 ) ।।