०४

वाग्वै दे॒वेभ्योऽपा॑क्रामद्य॒ज्ञायाति॑ष्ठमाना॒ सा वन॒-
स्पती॒न्प्रावि॑श॒त्सैषा वाग्वन॒स्पति॑षु वदति॒ या दु॑न्दुभौ
या तूण॑वे॒ या वीणा॑यां॒ यद्दी॑क्षितद॒ण्डं प्र॒यच्छ॑ति॒
वाच॑मे॒वाव॑ रून्ध औदु॑म्बरो भव॒त्यूर्ग्वा उ॑दु॒म्बर॒
ऊर्जमे॒वाव॑ रून्धे मुखे॑न॒ संमि॑तो भबति मुख॒त
ए॒वास्मा॒ ऊर्ज॑ दधाति॒ त्मा॑न्मुख॒त ऊ॒र्जा भु॑ञ्जते
( 1 ) क्री॒ते सोमे॑ मैत्रारू॒णाय॑ द॒ण्डं प्र य॑च्छति
मैत्रावरू॒णो हि पु॒रस्ता॑द्द॒त्विग्भ्यो॒ वाचं॑ वि॒भजा॑ति॒

[[2385]]

प्रपा. 1 अनु 04 ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
(दण्डादानादिकरणपूर्वक नियमानुष्ठानविधिः)
तामृ॒विजो॒ यर्जमाने॒ प्रति॑ष्ठापयन्ति॒ स्वाहा॑ य॒ज्ञं
मन॒त्तेत्यांह॒ मन॑सा॒ हि पुरू॑षो य॒ज्ञप्र॑भि॒गच्छ॑ति स्वाहा॒
द्यावा॑पृथिवीभ्यामित्या॑ह॒ द्यावा॑पृथिव्योर्हि य॒ज्ञः स्वा-
हो॒रोर॒न्तरि॑क्षा॒दित्या॑हा॒न्तरि॑क्ष॒ हि य॒ज्ञः स्वाहा॑ य॒ज्ञं
वाता॒दा र॑भ॒ इत्या॑हा॒यम् ( 2 ) वाव यः पव॑ते॒ स
य॒ज्ञस्तमे॒व सा॒क्षादा र॑भते मुष्टी क॑रोति॒ वाचं॑ य-
च्छति य॒ज्ञस्य॒ धत्या॒अदि॑क्षिष्टा॒यं ब्रा॑ह्मण इति॒
त्रिरू॑पाँ॒श्वा॑ह दे॒वेभ्य॑ ए॒वैनं प्राऽऽह॒ त्रिरू॒च्चैरू॒मयेंभ्य
ए॒वैनं॑ देवमनु॒ष्येभ्यः प्राऽऽह॒ न पुरा नक्ष॑त्रेभ्यो॒ वाचं॒
वि सृंजे॒द्यत्प॒रा नक्ष॑त्रेभ्यो॒ वाचं॑ विसृ॒जेद्य॒ज्ञं विच्छि॑-
न्द्यातू ( 3 ) उदि॑तेषु॒ नक्ष॑त्रेषु व्र॒तं कृ॑णु॒तेति वाचं॒ वि
सृ॑जति य॒ज्ञव्र॑तो वै दी॑क्षितो॒ य॒ज्ञमेवामि॒ वाचं॒ वि
सृ॑जतियदि॑ विसृ॒जेद्वै॑ष्ण॒वीमृच॒मनु॑ ब्रूयाद्य॒ज्ञो वै
विष्णु॑र्यज्ञेनैव य॒ज्ञँ सं त॑नोति॒ दैवीं धियं॑ मनामह॒
इत्या॑ह य॒ज्ञमे॒व तन्म्र॑दयति सु॒पारा नो॑ असद्वश॒
इत्या॑हव्यु॑ष्टिमे॒वाव॑ रून्धे ( 4 ) ब्र॒ह्म॒वा॒दिनो॑ बदन्ति
होत॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा3इ न हो॑त॒व्या3मिति॑
ह॒विर्वै दी॑क्षि॒तो यज्जु॑हुयाद्यज॑मानस्याव॒दाय॑ जुहुया-
द्यन्न जु॑हु॒याद्य॑ज्ञप॒रूर॒न्तरि॑याद्ये दे॒वा मनो॑जाता मनो॒-
युज॒ इत्या॑ह प्राणा वै दे॒वा मनो॑जाता मनो॒युज॒स्ते-
ष्वे॒व प॒रोक्षं॑ जुहोति॒ तन्नेव॑ हुतं॒ नेवाहु॑तुस्व॒पन्तं॒ वै
दी॑क्षि॒तँ रक्षाँसि जिघाँसन्त्या॒ग्निः ( 5 ) खलु॒ वै
र॑क्षो॒हाऽग्ने॒ त्वँसु जा॑गृहि व॒युसु म॑न्दिवीम॒हीत्या॑-
299

[[2386]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (6 षष्ठकाण्डै-
(दण्डादानादिकरणपूर्वक नियमानुष्ठानविधिः)
हा॒ग्निमेवाधि॒पां कृत्वा स्व॑पिति॒ रक्ष॑सा॒मप॑हत्या अव्र॒-
त्यमि॑व॒ वा ए॒ष क॑रोति॒ यो दी॑क्षि॒तः स्वपि॑ति॒ त्वम॑ग्ने
व्रत॒पा अ॒सीत्या॑हा॒ग्निर्वै दे॒वानां॑ व्र॒तप॑तिः॒ स ए॒वैनं॑
व्र॒तमा ल॑म्भयति दे॒व आ मर्त्येष्वेत्या॑ह दे॒वः ( 3 )
ह्ये॑ष सन्मर्त्येष॒॑ त्वं य॒ज्ञेष्वीडय॒ इत्या॑है॒तँ हि य॒ज्ञे
ष्वीड॒तेऽप॒ वै दी॑क्षि॒तात्सु॑षु॒पुष॑ इन्द्रि॒यं दे॒वताः॑ क्राम-
न्ति॒ विश्वे॑ दे॒वा अ॒मि मामाऽव॑वृत्र॒न्नित्या॑होन्द्रि॒येणै॒-
वैनं॑ दे॒वता॑मि॒. सं न॑यति॒ यदे॒तद्यजु॒र्न ब्रूयाद्याव॑त ए॒व
प॒शूनभि दीक्षे॑त॒ ताव॑न्तोऽस्य प॒शवः॑ स्यू॒ रास्वेय॑तू
( 7, सो॒माऽऽभूयो॑ भ॒रेत्याहाप॑रिमिताने॒व प॒शूनव॑
रून्धे च॒न्द्रम॑सि॒ मम॒ भोगा॑य भ॒वेत्या॑ह यथादे-
व॒तमे॒वैनाः॒ प्रति॑ गृह्ऽाति वा॒यवे॑ त्वा॒ वरू॑णाय॒ त्वोति
यदे॒वमे॒ता नानु॑दिशेदय॑थादेवतं॒ दक्षि॑णा गमय॒दा
दे॒वता॑म्यो वृशच्येत॒ यदे॒वमे॒ता अ॑नु॒दिशति॑ यथादे॒-
तमे॒व दक्षि॑णा गमयति॒ न दे॒वता॑म्य॒ आ( 8 ) वृशच्य॒-
ते॒ देवीरापो अपां नपा॒दित्या॑ह॒ यद्वो॒ मेध्यं॑ य॒ज्ञियँ॒
सदे॑वं॒ तद्वो॒ माऽव॑ क्रमिष॒मिति॒ वावैतदा॒हाच्छि॑न्नं॒
तन्तुं॑ पृथि॒व्या अनु॑ गेष॒मित्या॑ह॒ सेतु॑मे॒व कृ॒त्वाऽ–
त्ये॑ति ( 9 ) ।।
भु॒ञ्जतेऽयं छि॑न्द्याद्रुन्धेऽग्निरा॑ह दे॒व इय॑द्देवता॑म्य॒ आ त्रय॑स्ञ्जिँशच्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
प्रथमप्रपाठके चतुर्थेऽनुवाकः ।। 4 ।।


[[2387]]

प्रपा. 1 अनु 05 ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
( प्रायणीयाविधानन् )