(अथ षष्ठाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः) ।
ऋ॒क्सा॒मे वै दे॒वेभ्यो॑ य॒ज्ञायाऽति॑ष्ठमाने॒ कृष्णो॑
रू॒पं कृ॒त्वाऽप॒क्रम्या॑तिष्ठतां॒ ते॑ऽमन्यन्त॒ यं वा इ॒मे
उ॑पावर्त्स्यतः स इदं भ॑विष्य॒तीति॒ ते उपा॑मन्त्रयन्त॒
ते अ॑होरात्रयो॑र्महि॒मान॑मपनि॒धाय॑ दे॒वानु॒पाव॑र्ते-
तामे॒ष वा ऋ॒चो वर्णो॒ यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष
सान्मो यत्कृ॒ष्णमृ॑क्सा॒मयोः शिल्पे॑ स्थ॒ इत्या॑ह-
र्क्सा॒मे ए॒वाव॑ रून्ध ए॒षः (1) वा अह्र्नो॒ वर्णो॒
यच्छु॒क्लं कृ॑ष्णाजि॒नस्यै॒ष रात्रिया॒ यत्कृष्णं यदे॒-
वैन॑यो॒स्तत्र॒ न्य॑क्तं॒ तदे॒वाव॑ रून्धे कृष्णाजि॒नेन॑
दीक्षयति॒ ब्रह्म॑णो॒ वा ए॒तद्रु॒पं यत्कृ॑ष्णाजि॒नं ब्रह्म॑-
णे॒वैंन॑ दीक्षयती॒मां धियँ॒ शिक्ष॑माणस्य दे॒वेत्या॑ह
यथाय॒जुरेवैतद्रर्भो वा एष यद्दी॑क्षि॒त उल्बं॒ वासः॒
प्रोर्ण॑ते॒ तस्मा॑त् (2) गर्भाः॒ प्रवृ॑ता
जायन्ते॒ न पु॒रा सोम॑स्य क्र॒यादपो॑र्ण्वीत॒ यत्पु॒रा
सोम॑स्य क्र॒याद॑पोर्ण्वीत॒ गर्भः॑ प्र॒जानां परा॒पा-
तु॑काः स्युः क्री॒ते सोमेऽपो॑र्णुते॒ जाय॑त ए॒व तदथो॒
यथा॒ वसी॑याँसं प्रत्यपोर्णु॒ते ता॒द्दगे॒व तदङ्गि॑रसः
सुव॒र्ग॑ लो॒कं यन्त॒ ऊर्जं व्य॑भजन्त॒ ततो॒ यद॒त्य-
शि॑ष्यत॒ ते श॒रा अ॑भव॒न्नूर्ग्वै श॒रा यच्छ॑र॒मयी॑
(3) मेख॑ला॒ भव॒त्यूर्ज॑मे॒वाव॑ रून्धे मध्य॒मः सं
[[2383]]
प्रपा. 01 अनु 03 ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
(कृष्णाजिनादिभिर्दी॑क्षाकरणाभिधानम्)
न॑ह्यति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा॑न्म-
ध्य॒त ऊ॒र्जा भु॑ञ्जत ऊ॒र्ध्वं वै प॒रू॑षस्य॒ नाम्यै॒ मेध्य॑-
मवा॒चीन॑ममे॒ध्यं यन्म॑ध्य॒तः सं॒नह्य॑ति॒ मेध्यै चै॒-
वास्या॑मे॒ध्यं च॒ व्यावंर्तय॒तीन्द्रों वृ॒त्राय॒ वज्रं॒ प्राह॑-
र॒त्स त्रे॒घा व्य॑भव॒त्स्फ्यस्तृतींयँ र॒थस्तृतींय यूप॒-
स्तृती॑यम् (4) येंऽन्तः श॒रा अशी॑र्यन्त॒ ते श॒रा
अ॑भव॒न्तच्छ॒राणाँ॑ शर॒त्वं वज्रो॒ वै श॒राः क्षुत्खलु॒
वै म॑नुष्य॑स्य॒ भ्रातु॑व्यो॒ यच्छ॑र॒मयी॒ मेख॑ला॒ भव॑ति॒
वज्रे॑णैव सा॒क्षात्क्षुधं॒ भ्रातृ॑व्यं मध्य॒तोऽपं हते त्रि॒वृ-
द्भ॑वति त्रि॒वृद्वै प्राणस्त्रि॒वृत॑मेव प्रा॒णं म॑ध्य॒तो यज॑-
माने दधाति पृ॒थ्वी भ॑वति॒ रज्जू॑नां॒ व्यावृ॑त्त्यै
मेख॑लया॒ यज॑मानं दीक्षयति योक्त्रे॑ण॒ पत्नी॑
मिथुन॒त्वाय॑ (5) य॒ज्ञो दक्षि॑णाम॒भ्य॑ध्याय॒त्ताँ
सम॑भव॒त्तदिन्द्रो॑ऽचाय॒त्सो॑ऽमन्यत॒ यो वा इ॒तो
ज॑नि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तां प्रावि॑श॒त्तस्या॒
इन्द्र॑ ए॒वाजा॑यत॒ सो॑ऽमन्यत॒ यो वै मदि॒तोऽप॑रो
जनि॒ष्यते॒ स इ॒दं भ॑विष्य॒तीति॒ तस्या॑ अनु॒मृश्य॒
योनि॒माऽच्छि॑न॒त्सा सू॒तव॑शाऽभव॒त्तत्सू॒तवशायै॒
जन्म॑ (6) ताँ हस्ते॒ न्य॑वेष्टयत॒ तां मृगेषु
न्य॑दधात्सा कृ॑ष्णविषा॒णाऽभ॑व॒दिन्द॑स्य॒ योनि॑रसि॒
मा मा॑ हिँसी॒रिति॑ कृष्णवि॒षाणां प्र य॑च्छति॒
सयो॑निमे॒व यज्ञं॒ क॑रोति॒ सयो॑निं॒दक्षि॑णाँ॒
सयो॑नि॒मिन्द्रँ॑ सयोनि॒त्वाय॑ कृ॒ष्यै त्वा॑ सुस॒-
स्याया॒ इत्या॑ह॒ तस्मा॑दकृष्टप॒च्या ओष॑धयः पच्यन्ते
[[2384]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (6 षष्ठकाण्डै-
(दण्डादानादिकरणपूर्वक नियमानुष्ठानविधिः)
सुपिप्प॒लाभ्यस्त्वौप॑धीभ्य॒ इत्या॑ह तस्मा॒दोष॑धयः॒
फलं॑ गृह्नन्ति॒ यद्वस्ते॑न (7) क॒ण्डू॒येत॑ पाम-
नं॒भावु॑काः प्र॒जाः स्यु॒र्यत्स्मये॑त नग्नं॒भआउ॑काः कृष्ण-
विषा॒णया॑ कण्डूयतेऽपि॒गृह्म॑ स्मयते प्र॒जानां॑ गोपी॒-
य॒ न पु॒रा दक्षि॑णाम्यो॒ नेतोः॑ कृष्णविषा॒णामव॑
चृते॒द्यत्पु॒रा दक्षि॑णाभ्यो॒ नतोः॑ कृष्णविषा॒णाम॑व-
चृ॒तेद्योनिः॑ प्र॒जानां॑ परा॒पातु॑का स्यान्नी॒तासु॒ दक्षि॑-
णासु॒ चात्वा॑ले कृष्णाविषाणा॑ प्रास्य॑ति॒ योनि॒र्वै
य॒ज्ञस्य॒ चात्वा॑लं यनिः॑कृष्णवि॒षाणा योना॑वे॒व
योनिं॑दधाति य॒ज्ञस्य॑ सयोनि॒त्वाय॑ (8) ।।
(रू॒न्ध॒ ए॒ष तस्मा॑च्छ॒णई॒ ऊ॒फशअथऋथई॑यं मिथुन॒त्वाय॒
जन्म॒ हस्ते॑ना॒ष्टाच॑त्वारिँशच्च । )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिता षष्ठाष्टके प्रम-
प्रपाके तृतीयोऽनुवाकः ।। 3 ।।