(अथ षष्ठाष्ठके प्रथमप्रपाठके द्वितीयोऽनुवादकः) ।
याव॑न्तो॒ वै दे॒वा य॒ज्ञायापु॑नत॒ त ए॒वाभ॑वन्ध
ए॒व॑ वि॒व्दान्यज्ञाय॑ पुनी॒ते भव॑त्ये॒व ब॒हिः प॑वयि॒-
त्वाऽन्तः प्र पा॑दयति मनुष्यलो॒क ए॒वैनं॑ पवयि॒त्वा
पू॒तं दे॑वलो॒कं प्र ण॑य॒त्यदी॑क्षित॒ एक॒याऽऽहु॒त्येत्या॑हुः
स्त्रु॒वेण॒ चत॑स्त्रो जुहोति दीक्षित॒त्वाय॑ स्त्रु॒चा प॑ञ्च॒मीं
पञ्चा॑क्षरा प॒ङ् क्तिः प॒ङ् क्तो॑ य॒ज्ञो य॒ज्ञमेबाव॑ रून्ध॒
आकूंत्यै प्र॒युजे॒ऽग्नये॑ (1) स्वाहेत्याहाऽऽकू॑त्या॒ हि
पुरू॑षो य॒ज्ञम॒भि प्र॑य॒ङ् क्ते यजे॒येति॑ मे॒घायै॒ मन॑-
से॒ऽग्नये॒ स्वाहेत्या॑ह मे॒घया॒ हि मन॑सा पुरू॑षो
य॒ज्ञभ॑मि॒गच्छ॑ति॒ सर॑स्वत्यै पू॒ष्णे॑ऽग्नये॒ स्वाहे-
त्या॑ह॒ वाग्वै सर॑स्वती पृथि॒वी पू॒षा वा॒चैव
पृ॑थि॒ब्या य॒ज्ञं प्र यु॑ङ् क्त॒ आपो॑ देवीर्बृहतीर्विश्र्वशंभु ॒
इत्या॑ह॒ या वै वर्ष्यास्ताः (2) आपो॑ दे॒वीर्बृ॑ह॒ती-
र्वि॒श्वशै॑भुवो॒ यदे॒तद्यजु॒र्न ब्रू॒याद्यि॒व्या आपोऽशा॑ता
इ॒मं लो॒कमाग॑च्छेयु॒रापो॑ देवीर्बृहतीर्विश्वशंभुव॒ इत्या॑-
हा॒स्मा ए॒वैना॑ लो॒काय॑ शमयति॒ तस्मा॑च्छा॒न्ता इ॒मं
लो॒कमा ग॑च्छन्ति द्यावा॑दृथि॒वी इत्या॑ह॒ द्यावा॑पृथि॒-
व्योर्हि य॒ज्ञ उ॒र्व॑न्तरि॑क्ष॒मित्या॑हा॒न्तरि॑क्षे॒ हि य॒ज्ञो
बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु (3) इत्या॑ह॒ ब्रह्म॒ वै
दे॒वानां बृह॒स्पति॒र्ब्रह्म॑णै॒वास्मै॑ य॒ज्ञमव॑ रून्धे॒ यद् ब्रू॒या-
द्वि॑धे॒रिति॑ यज्ञस्थाणुमृ॑च्छेद् वृधा॒त्वित्या॑ह यज्ञस्था॒णुमेव
परि॑ बृणक्ति प्र॒जाप॑तिर्य॒ज्ञम॑सृजत॒ सो॑ऽस्मात्सू॒ष्टः परा॑-
[[2381]]
प्रपा 01 अनु 02) कृष्णयजुर्वेदीयतेत्तिरीयसंहिता ।
(दीक्षाहुत्याभिधानम्)
ङै॒त्स प्र यजु॒रब्ली॑ना॒त्प्र साम॒ तमृगुद॑यच्छ॒द्यद्दगु॒दय॑
च्छ॒त्तदौ॑द् ग्रहणस्यौ॑द् ग्रहण॒त्वमृ॒चा (4॒)जु॒हो॒ति॒ य॒ज्ञ-
स्पोद्य॑त्या अनुष्टुप्छन्द॑सा॒मुद॑यच्छदित्या॑हुस्तस्मा॑द॒नु-
ष्ट॒मा॑ जुहोति य॒ज्ञस्योद्य॑त्यै॒ द्वाद॑श वात्सब॒न्धान्युद॑-
यच्छ॒न्नित्या॑हुस्तस्मा॑द् द्वाद॒शभि॑र्वात्सबन्ध॒विदो॑ दीक्ष-
यन्ति॒ सा वा ए॒षर्ग॑नु॒ष्टुग्वाग॑नुष्टुग्यदे॒तय॒र्चा दी॒क्ष-
य॑ति वा॒चैवैनँ सर्व॑या दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तु-
रित्या॑ह सावि॒त्र्ये॑तेन॒ मर्तो॑ वृणीत स॒ख्यम्(5)इत्या॑ह
पितृदेव॒त्यै॑तेन॒ विश्वे॑ रा॒य इ॑षुध्य॒सीत्या॑ह वैश्वदे॒व्ये॑तेन॑
द्युम्नं वृ॑णीत पु॒ष्यस॒ इत्या॑ह पौ॒ष्ण्ये॑तेन सा॒ वा ए॒ष-
र्क्स॑र्वदेव॒त्या॑ यदे॒तय॒र्चा दीक्षय॑ति सर्वा॑भिरे॒वैनं॑ दे॒वता॑-
भिर्दीक्षयति स॒प्ताक्ष॑रं प्रथ॒मं प॒दम॒ष्टाक्ष॑राणि॒ त्रीणि॒
यानि॒ त्रीणि॒ तान्यष्टावुप॑यन्ति॒ यानि॑ च॒त्वारि॒
तान्य॒ष्टौ यद॒ष्टा॑क्ष॑रा॒ तेन॑ (6) गा॒य॒त्री यदेका॑दशा-
क्षरा॒ तेन॑ त्रि॒ष्ष्टुग्यद् वाद॑शाक्षरा॒ तेन॒ जग॑ती॒ सा
वा ए॒षर्क्सर्वा॑णि॒ छन्दाँसि॒ यदे॒तय॒र्चा दी॒क्षया॑ति॒
सर्वेभिरे॒वैनं॒ छन्दो॑भिर्दीक्षयति स॒प्ताक्षटर प्रथ॒मं प॒दँ
स॒प्तपदा॒ शक्व॑री प॒शवः॒ शक्व॑री प॒शूने॒दाव॑ रून्ध॒
एक॑स्माद॒क्षरा॒दना॑प्तं प्रथ॒मं प॒दं तस्मा॒द्यद्वा॒चोऽना॑प्तं॒
तन्म॑नुष्या॑ उप॑ जीवन्ति पू॒र्णया जुहोति पू॒र्ण इ॑च॒
हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑-
ना॒द्वि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्टयै॑ (7) ।।
(अ॒ग्नये॒ ता वृ॑धात्वृचा सख्यं तेन॑
जुहोति॒ पञ्च॑दश च ) ।। 2 ।।
[[2382]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (6 षष्ठकाण्डै-
(कृष्णाजिनादिभिर्दी॑क्षाकरणाभिधानम्)
इतु कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके
प्रथमप्रपाठके द्वितीयोऽनुवाकः ।।2।।