( तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः ) ।
ह॒रिः॒ ॐ ।
*प्राचीन॑वँशं करोति देवमनु॒ष्या दिशो॒ व्य॑भ-
जन्त॒ प्राचीं॑ दे॒वा द॑क्षि॒णा पि॒तरः॑ प्रतीचीं॑ मनु॒ष्या॑
उदी॑चीँ रू॒द्रा यत्प्राचीन॑वँशँ क॒रोति॑ देवलोकमेव
तद्यज॑मान उ॒पाव॑र्तते॒ परि॑ श्रयत्य॒न्तर्हि॑तो॒ हि दे॑व-
लो॒को म॑नुष्यलो॒कान्नास्माल्लो॒कात्स्वे॑तव्यमि॒वेत्या॑हुः॒
को हि तद्वेद॒ यद्य॒मुष्मिल्ँ॑ लो॒केऽस्ति॑ वा॒ न वेति॑
दि॒क्ष्व॑तीका॒शान्क॑रोति (1) उ॒भयो॑र्लोकयो॑रमि-
जि॑त्यै केशश्म॒श्रु व॑पते न॒खानि॒ नि कृ॑न्तते मृ॒ता
वा ए॒षा त्वग॑मे॒ध्या यत्के॑शश्म॒श्रु मृ॒तामे॒व त्वच॑-
ममे॒ध्याम॑प॒हत्य॑ य॒ज्ञियो॑ भ्॒ मेद्य॒मपैत्यङ्गि॑रसः
सु॒पर्गं लो॒कं यन्तो॒ऽप्सु॑ दी॑क्षात॒पसी॒ प्रोव॑शयन्न॒प्सु
स्त्रा॑ति सा॒क्षादे॒व दी॑क्षात॒पसी॒ अव॑ रून्धे ती॑र्थे
स्त्रा॑ति ती॑र्थे हि ते तां प्रावे॑शपन्ती॒र्थे स्त्रा॑ति ( 2 )
ती॒र्थमे॒व स॑मा॒नानां॑ भवत्य॒पो॑ऽश्रात्यन्तर॒त ए॒व
मेध्यो॑ भवति॒ वास॑सा दीक्षयति सौ॒म्यं वै क्षौमं॑
दे॒वत॑या॒ सोम॑मे॒ष दे॒वता॒मु यो दीक्ष॑ते॒ सोम॑स्य
त॒नँर॑सि त॒नवं॑ मे पा॒हीत्या॑ह॒ स्वाश्रे॒व दे॒वतामुपै॒-
- एतत्काण्डव्यारव्यानं भाष्यकृता प्रथमकाण्डव्यारव्यानेन सहैव कृतमिति तत्तत्रेव द्रष्टव्यम् । तत्रैतदनु वाकस्य भाध्यम् 195 पृष्ठे द्रष्टव्यम् ।
298-1
Page no.2378-1
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (6 षष्ठकाण्डे-
(क्षुरकर्मादिसंस्कृतस्य प्रार्ग्वशप्रवेशाभिधानम्)
त्यथो॑ आ॒शिष॑मेवैतामा शा॑स्तेऽग्नेस्तू॑षा॒धानं॑
वा॒योर्वा॑त॒पांन॑ पितृ॒णां नीविरोप॑धीनां प्रद्या॒तः
( 3 ) आ॒दि॒त्यानां॑ प्राचीनता॒नो विश्वे॑पां
दे॒वाना॒मोतु॒र्नक्ष॑त्राणामतीका॒शास्तव्दा ए॒तत्स॑र्व॑दे-
व॒त्यं॑ यद्वासो यद्वास॑सा दी॒क्षया॑ति॒ सर्वा॑भिरेवैनं॑
दे॒वता॑भिर्दीक्षयति बा॒हिःप्रा॑णो॒ वै म॑नु॒ष्य॑स्तस्या-
श॑नं प्राणो॑ऽश्राति॒ सप्रा॑ण ए॒व दी॑क्षत॒ आशि॑तो
भवति॒ यावा॑ने॒वास्य॑ प्रा॒णस्तेन॑ स॒ह मेध॒मुपै॑ति
घृ॒तं ( 4 ) ए॒तस्य॑र्वदेव॒त्यं॑ यन्नव॑नीतं॒ यन्नव॑नीतेना
भ्य॒ङ् क्त सर्वा॑ ए॒व दे॒वतः॑ प्रीणाति॒ प्रच्यँ॑तो॒ वा
ए॒षो॑ऽस्माल्लोकादग॑तो देवलो॒कं यो दी॑क्षि॒तो॑ऽ–
न्त॒रेव॒ नव॑नीतं तस्मा॒न्नव॑नीतेना॒म्यङ् क्तेऽनुलो॒मं
यजँ॑षा॒ व्यावृ॑ऱ्त्या॒ इन्द्रो॑ वृत्रम॑ह॒न्तस्य॑ क॒नीनि॑का॒
परा॑ऽपत॒त्तदाञ्ज॑न मभव॒द्यदा॒ङ् क्त चक्षु॑रेव भ्रातृ॑-
व्यस्य वृङक्ते॒ दक्षि॑णं॒ पूर्वमाऽङ् क्ते॑ ( 5 ) स॒व्य-
ँहि पूर्व॑ मनु॒ष्या॑ आ॒ञ्जते॒ न नि धा॑वते॒ नीव॒ हि
म॑नु॒ष्या॑ धाव॑न्ते॒ पञ्च॒ कृत्व॒ आऽङ् क्ते॒ पञ्चा॑क्षरा
प॒ङक्तिः पाङ् क्तो॑ यज्ञेः य॒ज्ञमे॒वाय॑ रून्धे॒ परि॑ –
मि॒तमाऽङ् क्ते प॑रिमितँ॒ हि म॑नु॒ष्या॑ आञ्जते॒
सतू॑ल॒याऽऽङ् क्तेऽप॑तूलया॒ हि म॑नु॒ष्या॑ आञ्जते॒
व्यावृ॑त्त्यै॒ यदप॑तूलयाऽऽञ्जोत वज्त्र॑ इव स्पा॒त्सतू॑-
ल॒याऽङ् क्ते॑ मित्र॒त्वाय॑ ( 6 ) इन्दो॑ वृ॒त्रम॑ह॒-
त्सो॑ऽ1पो॑1म्या॑म्रियत॒ तासां॒ यन्मेध्यं॑ य॒ज्ञिय॒ु
[[2379]]
प्रपा. 1 अनु 01 ) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता ।
(क्षुरकर्मादिसंस्कृतस्य प्रार्ग्वशप्रवेशाभिधानम्)
सदे॑व॒मासी॒त्तद॒पोद॑क्राम॒त्ते द॒र्भा अ॑भव॒न्यद्द॑र्भ॑पु-
ञ्जो॒लैः प॒वय॑ति या ए॒व मेध्या॑ य॒ज्ञियाः सदे॑वा॒
आप॒स्ताभि॑रे॒वैनं॑ पवयति॒ द्वाभ्यां॑ पवयत्यहोरा॒त्रा-
भ्या॑मे॒वैनं॑ पवयति त्रि॒भिः प॑वयति॒ त्रय॑ इ॒मे
लो॒का ए॒भिरे॒वैनं॑ लो॒केः प॑वयति प॒ञ्चभिः॑ ( 7 )
प॒व॒य॒ति॒ पञ्चा॑क्षरा प॒ङ् क्तिः पाङ् क्तो॑ य॒ज्ञो य॒ज्ञा-
यै॒वैनं॑ पवयति ष॒ड़्भिः प॑वयति॒ षड्वा ऋ॒तव॑ ऋ॒तु-
भि॑रे॒वैनं॑ पवयति स॒प्तभिः॑ पवयति स॒प्त छन्दाँसि॒
छन्दो॑भिरे॒वैनं॑ पवयति न॒वभिः॑ पवयति॒ नव॒ वै
पुरू॑षे प्रा॒णाः सप्रा॑णमे॒वैनं॑ पवय॒त्येक॑विँशत्या
पवयति॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॑
आ॒त्मैक॑विँ॒शो यावा॑ने॒व पुरू॑ष॒स्तमप॑रिवर्गम्
( 8 ) प॒व॒य॒ति॒ चि॒त्पति॑स्त्वा पुना॒त्वित्या॑ह॒
मनो॒ वै चि॒त्पति॒र्मन॑सै॒वैनं॑ पवयति वा॒क्पाति॑स्त्वा
पुना॒त्वित्या॑ह नवा॒चैवैनं॑ पवयति देवस्त्वा॑ सवि॒ता
पुना॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॑ पवयति॒ तस्य॑ ते
पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कं पु॒ने तच्छ॑केय॒मित्या॑
हा॒ऽऽशिष॑मे॒वैतामा शा॑स्ते ( 9 ) ।।
(अ॒ती॒का॒शान्क॑रो॒त्यवे॑शयन्तीर्थे स्ना॑ति प्रद्या॒तो म॑नु॒ष्या॑णां तद्वा आऽङ् क्ते॑
मित्र॒त्वाय॑ प॒ञ्चभि॒रप॑रिवर्गम॒ष्टाच॑त्वारिँशच्य ।। 1 ।। )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां षष्ठाष्टके प्रथम-
प्रपाठके प्रथमोऽनुवाकः ।। 1 ।।
[[2380]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (6 षष्ठकाण्डै-
(दीक्षा हुत्यमिधान्स)