२६

(अथ पञ्चमाष्टके सप्तमप्रपाठके षडविंशोऽनुवाकः)।
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तं लो॒क–
म॑जय॒द्यस्मि॑न्न॒ग्निः स ते॑ लो॒कस्तं जे॑ष्य॒स्य–
थाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स
ए॒तं लो॒कम॑जय॒ स्मि॑न्वा॒युः स ते॑ लो॒कस्त–
स्मा॑त्त्वा॒न्तरेष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः
प॒शुरा॑सी॒त्तेना॑यजन्त॒ स एतं लो॒कम॑जय॒द्य–
स्मि॑न्नादि॒त्यः स ते॑ लो॒कस्तं जे॑ष्यासि॒ यद्य॑–
व॒जिध्र॑सि (१)॥
(यस्मि॑न्न॒ष्टौ च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके षडविंशोऽनुवाकः॥ २६॥
—––
यो वा अयथादेवतं त्वामग्न इन्द्रस्य चित्तिं यथा वै वयो वै यदाकूताद्यास्ते अग्ने मयि गृह्णामि प्रजापतिः स्तेगान्वाजं कूर्मान्योक्त्रं मित्रावरुणाविन्द्रस्य पूष्ण ओज आनन्दमहरग्नेर्वायोः पन्थां क्रमैर्द्यौंस्तेऽग्निं पशुः षडविँशतिः॥ २६॥
यो वा एवाऽऽहुतिमभवन्पथिभिरवरुध्द्याऽऽनन्दमष्टा
पञ्चाशत्॥ ५८॥

[[2557]]

प्रपा० ७ अनु० २६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमाधब्राह्मणोक्ताग्निः पशुरितिमन्त्राभिधानम्)
हरि ओम।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमः प्रपाठकः॥ ७॥
इति कृष्णयजुर्वेदीयतैत्तिरीसंहितायां पञ्चमाष्टकः॥ ५॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके षड्विंशोऽनुवाकः)।
अथ यदुक्तमश्वमेधब्राह्मणे—–“अग्निः पशुरासीदित्यवघ्रापयेत्” इति, तमिमं मन्त्रमस्मिन्षड्विंशनुवाके पठति–––
अग्निं पशुरासीदिति। हेऽश्वायमग्निर्दैवः पुरा कस्मिंश्चिज्जन्मनि त्वमिवाश्वमेधयागहेतुरश्वाख्यः पशुरासीत्। तेनाग्निरूपेण पशुना केचिद्यजमाना अयजन्त। स च पशुरग्निर्देवो भूत्वा लोकमेतमजयत्। यस्मिल्लोँके सोऽग्निरिदानीं तिष्टति स एव तवापि लोको भविष्यति। त्वं च तं लोकं जेष्यसि। अथैवं सति त्वमुत्सुकः सन्निदमुदकमवजिघ्र। एवं वाय्वादित्यवाक्ययोरपि योज्यम्। वायुवाक्ये तु व्यतिरेकोपन्यासः। यद्युदकं नावजिव्रसि तर्हि तस्माद्वायुलोकात्त्वामन्तरेष्यामि त्वमन्तरितस्तस्माल्लोकाद्भ्रष्टो यथा भवसि तथा करिष्यामि। आदित्यवाक्ये त्वग्निवाक्यवदन्वयः। यद्युदकमवजिघ्रसि तर्हि तमादित्यलोकं जेष्यसि।
अत्रास्य प्रपाठकस्य विनियोगसंग्रहः–
मायत्र्यादिभिराग्नेयमन्त्रैः पञ्च चितीः स्पृशेत्।
अग्ने देवानिहेत्याद्या नचिकेतचितीरिताः॥ १॥
गायत्र्याद्याः पञ्च मन्त्रा इहाऽऽनेया यथाक्रमम्।
सौरी चित्रवती चित्रं देवानामित्यसौ भवेत्॥ २॥
त्वामग्ने वृषर्भ दध्यात्प्रत्येकं चितिपञ्चके।
संवत्सरस्येति दध्यात्प्राजापत्याभिहेष्टकाम्॥ ३॥

[[2558]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अश्वग्रेधब्राह्मणोक्ताग्निः पशुरीतिमन्त्राभिधानम्)
येन देवा उख्यमिन्धे दध्यादज्यानिसंज्ञिकाः।
शतायुधायेति पञ्चमन्त्रैः पञ्चेष्टका इमा॥ ४॥
इन्द्रस्य वज्रिणीर्दध्यादग्नाविष्णू घृताहुतिः।
चित्तिं जुहोमि चाग्ने तं सप्त ते त्रीज्जुहोति हि॥ ५॥
अग्ने यशेत्युपादध्याद्राष्ट्रभृत्संज्ञकेष्टकाः।
सुवर्नपञ्चभिर्हुत्वा तेजस्तिस्त्रो दधाति हि॥ ६॥
यास्ते तिस्त्रो जुहोत्येवं तत्त्वा यामीति होमकः।
यदाकूतादिति प्रोक्तैर्मन्त्रैराकूतिहोमकः॥ ७॥
यास्ते स्पर्शश्चस्त्रेति मन्त्रात्कूर्मं दधाति हि।
मयीत्यग्निग्रहो गायत्र्याद्याः पूर्वमुदीरिताः॥ ८॥
ताभिः पञ्चेष्टका दध्यादग्निकाण्डमितीरितम्।
स्तेगानित्यश्वमेधाङ्गमन्त्राः षोडशसु श्रुताः॥
अनुवाकेषु काण्डं यत्पञ्चमं य (त) द्धि सुस्थितम्॥ ९॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु–
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
षड्विंशोऽनुवाकः॥ २६॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥ १॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
पञ्चमकाण्डे सप्तमः प्रपाठकः॥ ७॥

[[2559]]

प्रपा० ७ अनु० २६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधब्राह्मणाक्ताग्नि पशुरितिमन्त्राभिधानम्)
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीभद्राजाधिरा–
जपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपाल
केन सायणाचार्येण विरचिते माधवीये वेदार्थ–
प्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
पञ्चमःकाण्ड॥ ५॥
मूलक्रमेण पञ्चमाष्टके — प्र.७ अ. १२.
भाष्यक्रमेण पञ्चमकाण्डे — प्र. ७ अ. १२.
मूलक्रमेणाऽऽदितः समष्ट्यङ्काः– अष्ट.५ प्र. ३ अ. ४६८
भाष्यक्रमेणाऽऽदितः समष्ट्यङ्काः– का. ५ प्र. ३३ अ. ४६३
समाप्तोयं श्रीमत्सायणाचार्यविरचितभाष्यसमे
तायाः कृष्णयजुर्वेदीयतैत्तिरीयसंहितायाः
पञ्चमः काण्डः॥ ५॥