२५

(अथ पञ्चमाष्टके सप्तमप्रपाठके पञ्चविंशोऽनुवाकः)।
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒घस्थ॑मा॒त्माऽन्तरि॑–
क्षँ समु॒द्रो योनिः॒ सूर्य॑स्ते॒ चक्षु॒र्वातः॑ प्रा॒ण–
श्चन्द्रमाः॒ श्रोत्रं॒ मासा॑श्चार्धमा॒साश्च॒ पर्वा॑
ण्यृ॒तवोऽङ्गा॑नि संवत्स॒रो म॑हि॒मा (१)॥
(द्यौस्ते॒ पञ्च॑विंँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके सप्तम–
प्रपाठके पञ्चविंशोऽनुवाकः॥ २५॥
—––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके पञ्चविंशोऽनुवाकः)।
एवमाज्याहुतिसाधनभूताश्चतुर्दशानुवाकगता मन्त्रा उक्ताः।
अथ यद्विहितमश्वमेधब्राह्मणे—–“द्यौस्ते पृष्ठं पृथिवी सघस्थमित्यश्वमनुमन्त्रयते” इति, तं मन्त्रमास्मिन्पञ्चविंशानुवाके पठति —
द्यौस्ते पृष्ठमिति। हेऽश्व येयं द्यौः सा ते तव पृष्ठमुपरिभागः। या च पृथिवी सा यजमानादिभिः सह तवावस्थानहेतुः। यच्चान्तरिक्षं तत्तवाऽऽत्मोदरभागः। योऽयं समुद्रः स त्वदीययोनिः ‘अप्सुयोनिर्वा अश्वः’ इति श्रुत्यन्तरात्। यः सूर्यः स विराड्रूपस्य तव चक्षुः। यो वातः स तव प्राणः। यश्चन्द्रमाः स तव श्रोत्रम्। मासाः पक्षाश्च तव पर्वाणि। वसन्ताद्युतवस्तव हस्तपादाद्यङ्गानि। संवत्सरस्तव युद्धजयादिरूपो महिमा।

[[2556]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अश्वमेधब्राह्मणोक्ताग्नि, पशुरितिमन्त्राभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय– तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
पञ्चविंशोऽनुवाकः॥ २५॥
—––