(अथ पञ्चमाष्टके सप्तमप्रपाठके चतुर्विशोऽनुवाकः)।
क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वै॑र्दे॒वैर्य॒ज्ञियैः॑ संवि
दा॒नः। स नो॑ नय सुकृ॒तस्य॑ लो॒कं तस्य॑
ते व॒यँ स्व॒धया॑ मदेम (१)
(क्रमै॑र॒ष्टाद॑श)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके चतुर्विंशोऽनुवाकः॥ २४॥
———-––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके चतुर्विंशोऽनुवाकः)
अथ चतुर्दशानुवाकोक्तं मन्त्रमाह—–
क्रमैरत्यक्रमीदिति। अयं वाजी पूर्वोक्तावयवसंपन्नोऽश्वौ यज्ञियैर्यज्ञार्हैर्विर्श्वैदवैः पूर्वोक्तैः स्तेगादिभिः पिपीविकान्तैः सर्वैर्दैवरैकैमत्यं गतः क्रमैः पादविन्यसैरत्यक्रमीदभूलोकमतिक्रम्य स्वर्गं गतवान्। हे वाजिन्स त्वं नोऽस्मान्सुकृतस्य
[[2555]]
प्रपा० ७ अनु० २३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधब्राह्मणोक्तद्यौस्त इतिमन्त्राभिधानम्)
फलभूतं लोकं नय प्रापय। तस्य ते तृप्त्यर्थं वयं स्वधाशब्दोपलक्षितेनाऽऽज्येन हविषा हर्षं जनयाम।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय– तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
चतुर्विंशोऽनुवाकः॥ २४॥
—–––