(अथ पञ्चमाष्टके सप्तमप्रपाठके त्रयोविंशोऽनुवाकः)।
पन्था॑मनू॒वृग्भ्याँ संत॑तिँ स्नाव॒न्या॑भ्याँ॒
शुका॑न्पि॒त्तेन॑ हरि॒माणं॑ य॒क्ना हली॑क्ष्णान्पा–
पवा॒तेन कू॒श्माञ्छक॑भिः शव॒र्तानूव॑ध्येन॒
शुनो॑ वि॒शस॑नेन स॒र्पाल्लोँ॑हितग॒न्धेन॒ वयाँ॑सि
पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑ (१)॥
(पन्थां॒ द्वाविँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके त्रयोविंशोऽनुवाकः॥ २३॥
—––
[[2554]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अश्वमेधब्राह्मणोक्तद्यौस्त इतिमन्त्राभिधानम्)
(अथ पञ्चमकाण्डे षष्ठप्रपाठके त्रयोविंशोऽनुवाकः)।
अथ त्रयोदशानुवाकगतान्मन्त्रानाह—–
पन्थामनूवृग्भ्यामिति। अनूवृक्शब्देन पूर्वोक्तर्योर्वृक्ययोः समीपवर्तिनी मांसखण्डे उच्येते। स्नावन्यशब्देन सूक्ष्माणां स्नायुविशेषाणां मूले, ते पार्श्वद्वयवर्तिन्यौ द्वे शिरे उच्येते। पित्तं प्रसिद्धम्। यक्ना यकृच्छब्देन पित्तगतो वर्णविशेषः। पापवातोऽपानवायुः। शकानि शकृत्पिडान्। ऊवध्यमपक्वं शकृत्। विशसनं छिन्नस्थानम्। लोहितगन्धपक्वगन्धौ प्रसिद्धौ। प्रशादो विशसनकालपतितो मांसलेशविशेषः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
त्रयोविंशोऽनुवाकः॥ २३॥