२२

(अथ सप्तमप्रपाठके द्वाविंशोऽनुवाकः)।
वा॒योः प॑क्ष॒तिः सर॑स्वतो॒ निप॑क्षतिश्च॒न्द्र–
म॑सस्तृ॒तीया॒ नक्ष॑त्राणां चतु॒र्थी स॑वि॒तुः प॑–
ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणाँ॑ सप्त॒म्य॑र्य॒म्णो॑ऽ–

[[2553]]

प्रपा. ७ अनु. २३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्ताष्टमानुवाकोक्तमन्त्राभिधानम्)
ष्ट॒मी त्वष्टु॑र्नव॒मी धा॒र्तुद॑श॒मीन्द्रा॒ण्या ए॑का–
द॒श्यदि॒त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं
य॒स्यै॑ पाटू॒रः (१)॥
(वा॒योर॒ष्टाविँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके द्वाविंशोऽनुवाकः॥ २२॥
—–––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके द्वाविंशोऽनुवाकः)।
अथ द्वादशानुवाकगतान्मन्त्रानाह —
वायोः पक्षतिरिति। पूर्वोक्तदक्षिणपार्श्ववदुत्तरपार्श्वपरत्वेनेदं सर्वं व्याख्येवम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय– तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
द्वाविंशोऽनुवाकः॥ २२॥
—––