(अथ पञ्चमाष्टके सप्तमप्रपाठके एकविंशोऽनुवाकः)।
अ॒ग्नेः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षति॒ सोम॑स्य
तृ॒तीया॒ऽपां च॒तर्थोष॑धीनां पञ्च॒मी सं॑वत्स॒–
रस्य॑ ष॒ष्ठी म॒रुताँ॑ सप्त॒मी बृह॒स्पते॑रष्टमी
मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्रस्यैका–
द॒शी विश्वे॑षां दे॒वानां॑ द्वादशी द्यावा॑पृथि॒–
व्योः पा॒र्श्वं य॒मस्य॑ पाटू॒रः (१)॥
(अ॒ग्नेरेका॒न्नत्रिँ॒शत्)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके एकविंशोऽनुवाकः॥ २१॥
—––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके एकविंशोऽनुवाकः)।
अथैकादशानुवाकगतान्मन्त्रानाह —
अग्नेः पक्षतिरिति। दक्षिणस्य पार्श्वस्य मूले वर्तमाना येय वङक्रिः सा पक्षतिः। तदनन्तरभाविनी वङक्रिर्निपक्षतिः। एवं तत्तदनन्तरभाविन्यो वङक्रयोद्वितीयादिशब्दैरुच्यन्ते। एता वङक्रयो यस्मिन्पृष्ठभागगतेऽस्थिपार्श्वविशेषे संबन्ध्यन्ते सोऽयं पाटूरः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय– तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
एकविंशोऽनुवाकः॥ २१॥
—––