(अथ पञ्चमाष्टके सप्तप्रपाठके विंशोऽनुवाकः।
अह॑र्माँ॒सेन॒ रात्रिं॒ पीव॑सा॒ऽपो यू॒पेण॑
घृ॒तँ रसे॑न॒ श्यां वस॑या दू॒षीका॑भिर्ह्रा॒दुनि॒
मश्रु॑भिः॒ पृष्वां॒ दिवँ॑ रू॒पेण॒ नक्ष॑त्राणि॒ प्रति॑
रूपेण पृथि॒वीं चर्म॑णा छ॒वीं छ॒व्यो॑पाकृ॑ता॒य
स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हुताय॒ स्वाहा॑
(१)॥
(अह॑र॒ष्टाविँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके विंशोऽनुवाकः॥ २०॥
—––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके विंशोऽनुवाकः।
अथ दशमानुवाकगतान्मन्त्रानाह —
अहर्माँसेनेति। पावोयू रसवसाशब्दास्तत्रत्यद्रवाणां विशेषाः। दूषीकानेत्रयोर्मलम्। अश्रूणि नेत्रजलानि। रूपं नेत्रगोलकम्। प्रतिरूपं तत्रत्यं प्रतिबिम्बम्। चर्म पक्ष्मपटलम्। छवी नेत्रगता कान्तिः। योऽयमुपाकृतमश्वमभिमन्यमानो देवस्तस्मा इदं स्वाहा हुतमस्तु। तथैवाऽऽलब्धमभिमन्यमानाय हुतमभिमन्यमानाय च देवाय तत्तदवस्थापन्नमिदं हुतमस्तु॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय– तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
विंशोऽनुवाकः॥ २०॥
—–––
[[2552]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पूर्वोक्तकाष्टामानुवाकोक्तमन्त्राभिधानम्)