(अथ पञ्चमाष्टके सप्तमप्रपाठके एकोनविंशोऽनुवाकः)।
आ॒न॒न्दं न॒न्दथु॑ना॒ कामं॑ प्रत्या॒साभ्यां॑ भ॒यँ
शि॑ती॒मभ्यां॑ प्र॒शि॑षं प्रशा॒साभ्यां॑ सूर्याचन्द्र॒–
मसौ॒ वृक्या॑भ्याँ श्यामशब॒लौ मत॑स्नाभ्यां॒
व्यु॑ष्टिँ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण (१)॥
(आ॒न॒न्दँ षोड॑श)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके एकोनविंशोऽनुवाकः॥ १९॥
—–––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके एकोनविंशोऽनुवाकः)।
अथ नवमानुवाकगतान्मन्त्रानाह–
आनन्दं नन्दथुनेति। नन्दथुर्गुह्येन्द्रियम्। प्रत्यासशितीमप्रशासशब्दैर्गुह्यसमीपवर्तीन्यवययवयुगलान्यभिधीयन्ते। वृक्यौ पार्श्वद्वयवर्तिन्यौ मांसग्रन्थी। तत्समीपवर्तिनी मतस्ने। रूपं समीचीन आकारस्तद्विपरीतमरूपम्॥
[[2551]]
प्रपा० ७ अनु० २०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्ताष्टमानुवाकोक्तमन्त्राभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
एकोनविंशोऽनुवाकः॥ १९॥
—–––