(अथ पञ्चमाष्टके सप्तमप्रपाठकेऽष्टादशोऽनुवाकः)।
ओजो॑ ग्री॒वाभि॒र्निऋतिम॒स्थभि॒रिन्द्रँ॒ स्व–
प॑सा॒ वहे॑न रुद्रस्य॑ विच॒लः स्क॒न्धो॑ऽहोरा॒
त्रयो॑र्द्वि॒तीयो॑ऽर्धमा॒सानां॑ तृ॒तीयो॑ मा॒सां च॑–
तु॒र्थ ऋ॑तू॒नां प॑ञ्च॒मः सं॑वत्स॒रस्य॑ ष॒ष्ठः (१)॥
(ओजो॑ विँश॒तिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठकेऽष्टादशोऽनुवाकः॥ १८॥
—––
[[2550]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पूर्वोक्तकाष्टामानुवाकोक्तमन्त्राभिधानम्)
(अथ पञ्चमकाण्डे सप्तमप्रपाठकेऽष्टादशोऽनुवाकः)।
अथाष्टमानुवाकगतान्मन्त्रानाह —
ओजो ग्रीवाभिरिति। ग्रीवास्तदवयवाः अस्थीनि तत्रत्यानि। योऽयं वहो वहनयोग्यः प्रदेशः स्वपाः शोभनकर्मा वहनेऽत्यन्तस्वपाः सोऽयमिन्द्रस्यभागः। स्कन्धोऽवयवभेदेन षोढा भिन्नस्तत्रात्यन्तचञ्चलोऽवयवो रुद्रस्य। तत्तदनन्तरभाविनोऽहोरात्रादीनाम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे–
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठकेऽ
ष्टदशोऽनुवाकः॥ १८॥
—–––