१७

(अथ पञ्चमाष्टके सप्तमप्रपाठके सप्तदशोऽनुवाकः)।
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हे स्थू॑रग॒दा स॒र्पान्गुदा॑–
भिऋ॒तून्पृ॒ष्ठीभि॒र्दिवं॑ पृ॒ष्ठेन॒ वसू॑नां प्रथ॒मा
कोक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒ती–

[[2549]]

प्रपा. ७ अनु. १९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्ताष्टमानुवाकोक्तमन्त्राभिधानम्)
याऽङ्गि॑रसां चतु॒र्थी सा॒ध्यानां॑ पञ्च॒मी वि–
श्वे॑षां दे॒वानां ष॒ष्ठी (१)॥
(पू॒ष्णश्चतुर्विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके सप्तदशोऽनुवाकः॥ १७॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके सप्तदशोऽनुवाकः)।
अथ सप्तामानुवाकमतान्मन्त्रानाह —
पूष्णो वनिष्ठुरिति। वनिष्ठुः प्रौढमन्त्रम्। स्थूरगुदा गुदकाण्डे स्थूलो भागः। गुदा गुदकाण्डस्य सूक्ष्मभागः। पृष्ट्यो गुदमीपवर्तिन्यः शिराः। पृष्ठमुपरिभागः। तत्समीपवर्तिनोऽस्थिविशेषाः कीकसाः। ताश्च षट्संख्याकाः क्रमेणवस्वादीनां भागाः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे–
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
सप्तदशोऽनुवाकः॥ १७॥
—–––