१६

(अथ पञ्चमाष्टके सप्तमप्रपाठके षोडशोऽनुवाकः)।
इन्द्र॑स्य क्रो॒डोऽदित्य पाज॒स्य॑ दि॒शा ज॒त्रवो
जी॒मूतान्ह्रदयौप॒शाभ्या॑म॒न्तरि॑क्षं पुरि॒तता॒

[[2548]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पूर्वोक्तकाष्टामानुवाकोक्तमन्त्राभिधानम्)
नभ॑ उद॒र्ये॑णेन्द्रा॒णीं प्ली॒हना व॒ल्मीका॑न्क्लो॒म्ना
गि॒रीन्प्ला॒शिमिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भ–
स्म॑ना (१)॥
(इन्द्र॑स्य॒ द्वाविँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके सप्तम–
प्रपाठके षोडशोऽनुवाकः॥ १६॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके षोडशोऽनुवाकः)।
अथ षष्ठानुवाकगतान्मन्त्रानाह —
इन्द्रस्य कोडोऽदित्या इति। कोडो गलभागः। पाजस्यं पादतलम्। जत्रवोंऽससमीपवर्तीन्यस्थीनि। ह्रदयं ह्रदयमध्यमष्टदलं मांसपद्मम्। औपशं तद्वेष्टनं मांसम्। पुरितदन्त्राणि। उदर्यमुदरगतं मांसम्। प्लीहक्लोमशब्दाभ्यामुदरपार्श्ववर्तिनी मांसखण्डे उच्येते। तत्समीपवर्तीनि मांसानि प्लाशीनि। उदरं प्रसिद्धम्। भस्म जीर्णतृणादि। यथा पूर्वानुवाके द्वितीयया देवतानिर्देश एवमिन्द्रस्येत्यादा षष्ठीचतुर्थीभ्यामपि देवतानिर्देशो द्रष्टव्यः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे–
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
षोडशोऽनुवाकः॥ १६॥