१५

(अथ पञ्चमाष्टके सप्तमप्रपाठके पञ्चदशोऽनुवाकः)।
मि॒त्रावरु॑णौ॒ श्रोणी॑भ्यामिन्द्रा॒ग्नी शि॑ख॒ —

[[2547]]

प्रपा. ७ अनु. १७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्तषष्टानुवाकगमन्त्राभिधानम्)
ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒वि —
ष्णू॑ अष्ठी॒वद्भ्याँ॑ सवि॒तारं॒ पुच्छे॑न गन्ध॒र्वा —
ञ्छेपे॑नाप्स॒रसो॑ मु॒ष्काभ्यां॒ पव॑मानं पा॒युनां
प॒वित्रं॒ पोत्रा॑भ्यामा॒क्रम॑णँ स्थू॒राभ्यां॑ प्रति॒ —
क्रम॑णं॒ कुष्ठा॑भ्याम् (१)॥
(मि॒त्रावरु॑णौ॒ द्वाविँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके पञ्चदशोऽनुवाकः॥ १५॥
———-–
(अथ पञ्चमकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः)।
अथ पञ्चमानुवाकगतान्मन्त्रानाह—––
मित्रावरूणा इति। श्रोणी जघनगते मांसे। शिखण्डे ततोऽप्यधस्तने। ऊरु ततोऽप्यधस्तने। अष्ठीवती जङ्वयोः पृष्टभागगते मांसे। पोत्रा (त्र) स्थूरकुष्ठशब्दैः पायुसमीपवर्तिन एव मांसविशेषा उच्प्रन्ते। देवतानामानि तु स्पष्टानि।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
पञ्चदशोऽनुवाकः॥ १५॥