१४

(अथ पञ्चमाष्टके सप्तमप्रपाठके चतुर्दशोऽनुवाकः)
योक्त्रं॒ गृध्रा॑भिर्यु॒गमान॑तेन चि॒त्तं मन्या॑भिः
संक्रो॒शान्प्रा॒णैः प्र॑का॒शेन॒ त्वचं॑ पराका॒शे —
नान्त॑रां म॒शका॒न्केशै॒रिन्द्रँ॒ स्वष॑सा॒ वहे॑न॒
बृह॒स्पतिँ॑ शकुनिसा॒दे॒न रथ॑मु॒ष्णिहा॑भिः
(१)॥
(योत्र॒क्मेक॑विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके चतुर्दशोऽनुवाकः॥ १४॥


(अथ पञ्चमकाण्डे सप्तमप्रपाठके चतुर्दशोऽनुवाकः)।
अथ चतुर्थवाकगतान्मन्त्रानाह—–
योक्त्रं गृध्राभिरिति। योक्त्रं दर्भमयं बन्धनसाधनम्। गृध्राः कक्षाः। युग कृतत्रेतादि। आनतं ग्रीवाप्रदेशः। चित्तं प्रसिद्धम्। मन्या ग्रीवारेखाः। संक्रोशाः घोषाः। प्राणाश्चक्षुरादयः। प्रकाशो बाह्यं रूपम्। त्वक्त्वगिन्द्रियाभिमानिनी। पराकोशोऽभ्यन्तरं रूपम् अन्तराऽभ्यन्तरप्रदेशाभिमानिनी। मशककेशेन्द्रशब्दाः प्रसिद्धाः। स्वपसा वहेन शोभनव्यापारेणाङ्गबलेन।बृहस्पतिःप्रसिद्धः। शकुनिसादः पृंष्ठ, यत्र शकुनयः शक्ता वीराः सीदन्ति। रथः प्रसिद्धः। उष्णिहा रथवाहनदेशः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
चतुर्दशोऽनुवाकः॥ १४॥
———-–