(अथ पञ्चमाष्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः)।
कू॒र्माञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्त्साम॒
कुष्ठि॑कभिर्ज॒वं जङघा॑भिरग॒दं जानुभ्यां
वीर्ये कु॒हाभ्यां॑ भ॒यं प्र॑चा॒लाभ्यां गुहो॑पप॒
क्षाभ्या॑म॒श्निना॒वँ सा॑भ्या॒मदि॑तिँ शी॒र्ष्णा
निऋ॑तिं॒ निर्जा॑ल्मकेन शी॒र्ष्णा (१)॥
(कूर्मान्त्रयोविँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके त्रयोदशोऽनुवाकः॥ १३॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः)।
अथ तृतीयानुवाकगतान्मन्त्रानाह —
कुर्माञ्छफैरिति। कुर्माः शफाश्च प्रसिद्धाः। अच्छलाः शफलमांसानि। कपिञ्जलाः प्रसिद्धाः। साम गीतिः। कुष्ठिका जङ्वाभ्यामधः प्रदेशः। जवो वेगः। जङ्गा संधिभ्योऽधः प्रदेशः। अगद आरोग्यम्। प्रचालौ पादयोरुपरिप्रदेशौ। गुहा गुहनी। उपपक्षौ पार्श्वे। अश्व्यंसशब्दौ प्रसिद्धौ। अदीतिर्भूमिः। शीर्ष्णा शिरसा। निऋतिः प्रसिद्धा। निर्जाल्पकेन केशरहितेन शीर्ष्णा शिरसा।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
त्रयोदशोऽनुवाकः॥ १३॥
———-–––
[[2546]]
श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—–––(५ पञ्चमकाण्डे—–
(पूर्वोक्तपञ्चमानुवाकगतमन्त्राभिधानम्)