१२

(अथ पञ्चमाष्टके सप्तमप्रपाठके द्वादशोनुवाकः)।
वाजँ॒ हनू॑भ्याम॒प आ॒स्ये॑नाऽऽदि॒त्याञ्छ्म–
श्रु॑मिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्तेर॒णान्त॑रेणा–

[[2544]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पूर्वोक्तचतुर्थानुवाकगतमन्त्राभिधानम्)
नूका॒शं प्र॑का॒शेन॒ बाह्यँ॑ स्तनयि॒त्नुं नि॑र्बा॒–
धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्यां वि॒द्युतौ॑ क॒नान॑का–
भ्याम॒शनिं॑ म॒स्तिष्के॑ण॒ बलं॑ म॒ज्जाभिः
(१)॥
(वाजं पश्चविँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके द्वादशोऽनुवाकः॥ १२॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाकः)।
विहितेषु चतुर्दशस द्वितीयानुवाकगतान्मन्त्रानाह —
वाजँ हनूभ्यामप इति। वाजोऽन्नम्। हन्वादीनां पञ्चानां पदानामर्थाप्रसिद्धाः। उपयामः पृथिवी, इयं वा उपग्राम इति श्रुत्यन्तराय। अधरोष्ठ प्रसिश्रः। सच्छब्देन द्यौरुच्यते। सीदन्त्यस्यां पुण्यकृत इति व्युत्पत्तेः। उत्तरेणेत्यत्रौष्ठेनेत्यनुवर्तते। अन्तरमोष्ठयोर्मध्यम्। अनूकाशो द्यावापृथिव्योर्मध्यम्। अनुक्रमेण काशन्ते भासन्ते ज्योतींष्यस्मिन्निति व्युत्पत्तेः। प्रकाशोऽभ्यन्तरं प्रकाशस्थानम्। बाह्यं ब्राह्माण्डाद्वहिस्थानम् स्तनीयत्नुः प्रसिद्धः। निर्बाधो गमनकालीनः शब्दः। सूर्याग्नी चक्षुषी चेत्युभयं प्रसिद्धम्। विद्युतौ वृष्टिकालीनेतरः कालीने। कनानके अक्षिस्थे कृष्णमण्डले। अशनिः प्रसिद्धः। मस्तिष्कः शिरोः मांसम्। बलं मज्जेत्युभयं प्रसिद्धम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण–
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
द्वादशोऽनुवाकः॥ १२॥

[[2545]]

प्रपा० ७ अनु० १४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्तचतुर्थानुवाकगतमन्त्राभिधानम्)