११

(अथ पञ्चमाष्टके सप्तमप्रपाठके एकादशोऽनुवाकः)।
स्ते॒गान्दँष्ट्रा॑भ्यां म॒ण्डूकान्जम्भ्यो॑भि॒राद॑कां
खा॒देनोर्जँ सँसूदेना॑रण्यं॒ जाम्बी॑ले॒न मृदं॑
ब॒र्त्स्वे॑भिः॒ शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑–
रामुत्सा॒देन॑ जि॒ह्वाम॑वक॒न्देन॒ तालुँ॒ सर॑–
स्वतीं जिह्वा॒ग्रेण॑ (१)॥
(स्तेगान्द्वाविँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके एकादशोऽनुवाकः॥ ११॥
(अथ पञ्चमाष्टके सप्तमप्रपाठक एकादशोऽनुवाकः)।
विशेषः पशुशीर्षेषु दशमे समुदीरितः।

[[2543]]

प्रपा० ७ अनु० १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पूर्वोक्ताद्वितीयानुवाकगतमन्त्र्याभिधानम्)
समाप्तं चेतावताऽभिब्राह्मणम्। अथाश्वमेधाङ्गमन्त्राः केचिदत्रोच्यन्ते।
यदुक्तं सूत्रकारेण —‘ हविषा प्रचर्याऽऽज्यमवदानं कृत्वा स्तेगाब्दँष्ट्राभ्यां मण्डूकाञ्जमभ्येभिरित्येतैश्चतुर्दशभिरनुवाकैः प्रतिमन्त्रं शरीरहोमाञ्जुहोति’ इति, तत्र प्रथमानुवाकगतान्मन्त्रानाह —
स्तेगान्दँष्ट्राभ्यामिति। अत्र द्वितीयान्तनिर्दिष्टा देवताः। तृतीयान्तनिर्दिष्टान्यश्वस्याङ्गानि। इमां देवतामनेनाङ्गेन प्रीणयामीति होमकाल उभयं स्वर्तव्यामिति मन्त्राभिप्रायः। स्तेगाः क्षुद्रजन्तुविशेषा गोकर्णगा इति लोके प्रसिद्धाः। तदधिष्ठात्री काचिद्देवतेह लक्ष्यते। दंष्ट्रे उन्नते (तौ) (दन्तौ)। स्तेगाभिमानिनींदेवता दंष्ट्राभ्यां यजामि। स एको मन्त्रः। एवमुत्तरत्रापि द्रष्टव्यम्। मण्डूकाः प्रसिद्धाः। दन्तमूलं जम्भस्तत्र भवा जम्भ्याः पार्श्वदन्ताः। आदका भक्षयित्री प्राणभिमानिनी देवता। खादो भक्षणहेतुर्दन्तविशेषः। ऊर्ग्रसाभिमानिनी देवता। संसूदं (दः) संततक्षरणो नासिकादिः। अरण्यं प्रसिद्धम्। जाम्बीलमामाशयः, यत्र भक्षितं तृणं निधीयते तत्। मृत्प्रसिद्धः। वर्त्स्वा दन्तमूलमांसादीनि। शर्करास्तत्सदृशानि कठिनास्थीनि। अवकाः शैवालसदृशानि मांसानि। शर्करा प्रसिद्धा। उत्साद उच्चप्रदेशः। जिह्वा प्रसिद्धा। अवकन्दआन्तरं काधि (दि) कशब्दाभिव्यक्तिस्थानम्। तालुं जिह्वामूलम्। सरस्वतीजिह्वाग्रं चेत्युभयं प्रसिद्धम्।
इति श्रीमत्सयाणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय–
तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
एकादशोऽनुवाकः॥ ११॥