(अथ पञ्चमाष्टके सप्तमप्रपाठके दशमोऽनुवाकः)।
प्र॒जाप॑ति॒रग्निम॑सृजत॒ सो॑ऽस्मात्सृ॒ष्टः प्राङ्
प्राद्र॑व॒त्तस्मा॒ अश्वं॒ प्रत्या॑स्य॒त्स द॑क्षि॒णाऽव॑–
र्तत॒ तस्मै॑ वृ॒ष्णि॑ प्रत्या॑स्य॒त्स प्र॒त्यङ्ङाऽव॑
र्तत॒ तस्मा॑ ऋष॒भं प्रत्या॑स्य॒त्स उद॒ङ्ङाऽव॑–
र्त॒त तस्मै॑ व॒स्तं प्रत्या॑स्य॒त्स ऊ॒ध्वो॑ऽद्रव॒त्तस्मै॒
पुरु॑षं॒ प्रत्या॑स्य॒द्यत्प॑शुशी॒र्षाण्यु॑प॒दधा॑ति स॒र्व–
त॑ ए॒वैन॑म् (१) अ॒व॒रुध्य॑ चिनुत ए॒ता वै
प्रा॑ण॒भृत॒श्चक्षु॑प्मती॒रिष्ट॑का॒ यत्प॑शुशी॒र्षाणि॒
यत्प॑शुशी॒र्षाण्य॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒–
ऽमुष्मि॑ल्लोँ॒के प्राणि॒त्यथो ताभि॑रे॒वास्मा॑ इ॒मे
लो॒काः प्र भा॑न्ति मृ॒दाऽभि॒लिप्योप॑ दधाति
मेध्य॒त्वाय॑ प॒शुर्वा ए॒ष यद॒ग्निरन्नं॑ प॒शव॑
ए॒ष खलु॒ वा अ॒ग्निर्यत्प॑शुशी॒र्षाणि॒ यं का॒म–
येत॒ कनीयो॒ऽस्यान्न॑म् (२) स्या॒दिति॑ सं
त॒रां तस्य॑ पशुशी॒र्षाण्युप॑ दध्या॒त्कनी॑य ए॒
वास्यान्नं॑ भवति॒ यं का॒मये॑त स॒माव॑द॒स्या
[[2541]]
प्रपा० ७ अनु० १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पशुशीर्षाभिधानम्)
न्नँ स्या॒दिति॑ मध्य॒तस्तस्योप॑ दध्यात्स॒मा–
व॑दे॒वास्यान्नं॑ भवति॒ यं का॒मये॑त॒ भूयो॒ऽ–
स्यान्नँ॑ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दू॒ह्योप॑ द–
ध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्धे॒ भूयो॒ऽ–
स्यान्नं॑ भवति (३)॥
(ए॒न॒म॒स्यान्नं॒ भूयो॒ऽस्यान्नं॑ भवति)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके सप्तम
प्रपाठके दशमोऽनुवाकः॥ १०॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः)।
अग्निग्रहः सर्वमुखं सप्रोतं नवमे श्रुतम् (?)।
अथ दशमे पशुशीर्षाण्युच्यन्ते।
यत्पूर्वं द्वितीयप्रपाठके विहितं पशुशीषोण्युपदधातीति तदत्रानूद्य प्रशंसति —
प्रजापतिग्निमिति। प्रजापतिना सृष्टोऽग्निर्यदा पूर्वस्यां दिशि पलायते तदा तन्निवारणायाश्वं तत्प्रातिकूल्येन स्थापितवान्। एवं दिगन्तरेष्वपि योज्यम्। अतः पशुशीर्षाणामुपधाने सत्यग्नेः पूर्वतः पलायनं निवार्य तमग्निं चिनोति।
प्रकारान्तरेण पशुशीर्षाणि प्रशंसति — एता वा इति।
पशुशीर्षाणां प्राणभृत्त्वं चक्षुष्मत्त्वं च भूतपूर्वगत्या द्रष्टव्यम्। तदुपधानेन यजमानः स्वर्गे प्राणिति चिरं जीवति। अपि च यजमानार्थमिमे सर्वे लोकाः पशुशीर्षेष्टकाभिः प्रकर्षेण भासन्ते। तदुपधाने कंचिद्विशेषं विधत्ते —
मृदाऽभिलिप्योपेति। मृतानां पशुशीर्षाणां मृल्लपेन मृन्मयत्वे सति यज्ञयोग्यं (ग्यत्वं) भवति। अथान्वयव्यतिरेकाभ्यामपरं विशेषं विधत्ते —
पशुर्वा एव यदग्निरन्नमिति। अयमग्निः पशुसाधनत्वात्पशुरूप। पश–
[[2542]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अश्वमेधाङ्गमन्त्राभिधानम्)
वश्चान्नसाधनत्वादन्नरूपाः। पशुशीर्षाणि चाग्निनिष्पादकत्वादग्निरूपाणि। एवा सत्यन्नाल्पत्वकामनायां सतरां संनिकृष्टतराणि यथा भवन्ति तथोपदध्यात् — ततोऽन्नमल्पमेव भवति। अथ नात्यल्पं नापि बहुलं किंतु समावत्समं जीवनमात्र पर्याप्तमन्नं स्यदिति कामनायां मध्यत उपदध्यात्। नात्यन्तं संनिकर्षो नाप्यतिविप्रकर्षः। तथा सति जीवनमात्रपर्याप्तमेवान्नं भवति। अथान्नभूयस्त्वकामनायां चितेरन्तेषु परस्परं व्युदूह्य (व्युदूहनं) यथा भवति तथा पशुशीर्षाण्यप सार्योपदध्यात्। तथा सति सर्वस्यादपि दिगन्ततोऽस्यान्नमधीनं भवति ततोऽति बहुलं संपद्यते। एतच्च सर्वमेषां वा एतल्लोकानामित्यनुवाके द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु–
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
दशमोऽनुवाकः॥ १०॥