(अथ पञ्चमाष्टके सप्तमप्रपाठके नवमोऽनुवाकः)।
मयि॑ गृह्वा॒म्यग्रे॑ अ॒ग्निँ रा॒यस्पोषा॑य सुप्र–
जा॒स्त्वाय॑ सु॒वीर्या॑य। मयि॑ प्र॒जां मयि॒ वर्चो॑
दधा॒म्यरि॑ष्टाः स्याम तनु। सु॒बीराः॑। यो
नो॑ अ॒ग्निः पि॑तरो ह्र॒त्स्व॑न्तरम॑र्त्यो॒ मर्त्याँ॑
आवि॒वेश॑। तमा॒त्मन्परि॑ गृह्वीमहे व॒यं मा
सो अ॒स्माँ अ॑वहाय॒ परा॑ गात्। यद॑ध्व॒
युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ऽग्निं चि॑नु॒याद्यो॑ऽस्य॒
स्वो॑ऽग्निस्तमपि॑ (१) यज॑मानाय चिनु–
याद॒ग्निं खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽष॒का–
मु॑का अस्मात्प॒शवः॑ स्यु॒र्मयि गृहणा॒म्यग्रे॑
अ॒ग्निमित्याहा॒ऽऽत्मन्ने॒व स्वम॒ग्निं दा॑धार
नास्मा॑त्प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ व
दन्ति॒ यन्मृच्चाऽऽप॑श्चा॒ग्ने॑ ना॒द्यमथ॒कस्मा॑
न्मृ॒दा चा॒द्भिश्चा॒ग्निश्ची॑यता॒ इति॒ य द्भिः
सं॒यौति (२) आपो॒ वै सर्वा॑ दे॒वता॑ दे॒व–
ता॑भिरे॒वैनँ॒ सँसृ॑जति॒ यन्मृ॒दा चि॒तोती॒यं
वा अ॒ग्निर्वै॑श्वान॒रो॑ऽग्निनै॒वतद॒ग्निं चि॑नोति
ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भिश्चा॒
ग्निश्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ य–
च्छन्दोभिश्चि॒नोत्य॒ग्नयो॒ वै छन्दाँ॑सि॒ त–
स्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यं वा अ॒ग्निर्वैश्वा॑न॒रो
[[2537]]
प्रपा. ७ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्नीग्रहणाद्यभिधानम्)
यत् (३) मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑
च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र्वै
हिर॑ण्यं॒ ज्योतिरे॒वास्मि॑न्दधा॒त्यथो॒ तेजो॒ वै
हिर॑ण्यं॒ तेज॑ ए॒वाऽऽत्मन्ध॑त्ते॒ यो वा अ॒ग्निँ
स॒र्वतो॑मुखं चिनु॒ते सर्वा॑सु प्रजास्वन्न॑मत्ति॒
सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीं पु॒रस्ता॒दुप॑
दघाति त्रि॒ष्टुभं॑ दक्षिण॒तो जग॑तीं प॒श्चाद॑नु॒–
ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिं मध्य॑ ए॒ष वा अ॒ग्निः स॒
र्वतो॑मुख॒स्तं य ए॒वं वि॒द्वाँश्चि॑नु॒ते सर्वा॑सु
प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑
दि॒श्ये॑व दिशं॒ प्र व॑यति॒ तस्मा॑द्दि॒शि दिक्प्रो–
ता॑ (४)॥
(अपि॑ सं॒यौति॑ वैश्वान॒रो यदे॒ष वै पञ्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके नवमोऽनुवाकः॥ ९॥
—––––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके नवमोऽनुवाकः)।
स्वयंचितिश्च कूर्मादिराष्ट्ये समुदीरितः॥
अथ नवमेऽग्निग्रहणादिकमभिधीयते।
यदुक्तं सूत्रकारेण – “मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मान्नग्निं गृहीत्वा” इति, तत्र प्रथमामाह —
[[2538]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अग्निग्रहणाद्यभिधानम)
मयि गृह्णाम्यग्र इति। अग्ने परकीयस्याग्नेश्चयनात्पूर्वमाग्ने स्वकीयं पूर्वासिद्धं वह्निं मयि गृह्णामि स्वात्मन्येव यथा स्थिरो भवति तथा स्वीकरोमि। किमर्थं, धनपुष्टिशोभनापत्यशोभनभृत्या (वीर्या) र्थमस्य गृहीतस्याग्नेः प्रसादात्प्रजामुत्पत्स्थमानां पुत्रादिकां मयि स्थापयामि। वर्चः शारीरं वलं च मयि स्थापयामि। सुवीराः शोभनपुत्रभृत्योपेता वयं तनवा मदीयेन शरीरेण सहारिष्टाहिंसारहिताः स्याम। अथ द्वितीयमाह —
यो ना अग्निरिति। हे पितरः पालका अस्मच्छरीरगता भूतेन्द्रियविशेषा अपर्त्यो मरणरहितो योऽग्निर्हृत्स्वन्तर्हदयाद्यवययेषु मध्ये मर्त्यान्मरणयोग्यानस्मानाविवश सर्वतः प्रविष्टस्तमग्निं वयमात्मन्परिगृह्णीमहे स्वशरीर एव स्थिरं धारयामः। सोऽग्निरस्मानवहाय परित्यज्य मा परागादन्यत्र मा गच्छतु। एतन्मन्त्रद्वयसाध्यमग्निग्रहणं विधत्ते —
यदध्वर्युरात्मन्निति। यद्ययमध्वर्युर्मयि गृह्णामीतिमन्त्राभ्यां स्वकीयमग्निं स्वस्मिन्नगृहीत्वा परार्थमग्निं चिनुयात्तदानीमस्याध्वर्योर्यः स्वकीयः पूर्वचितोऽग्निस्तमपि यजनार्थमेव चितवान्भवति। पशवश्च सर्वेऽप्यग्निमनुसेवन्ते। अतोऽपक्रामन्तमग्निमनु पशवोऽप्यस्मादध्वयोरपक्रामन्ति। अतस्तत्पस्हिर्तुमग्निग्रहणाय मयि गृह्णामीति मन्त्रद्वयं ब्रूयात्। तेन स्वकीयमग्निं स्वस्मिन्नेव धारयति। पशवोऽप्यस्मान्नापनक्रामन्ति। एतदपि पूर्वब्राह्मणेन सह द्रप्टव्यम्। अथ प्रश्नोत्तराभ्यां चयनं प्रशंसति–
ब्रह्मवादिन इति। मृत्तिका चाऽऽपश्चेति यदस्ति तदुभयमग्नेर्भक्ष्यं न भवति। अतो भक्ष्यमाज्यपुरोडाशादिकं विहाय कस्मादेताभ्यां मृज्जलाभ्यामिष्टकारूपाभ्यामग्निश्चीयत इति ब्रह्मवादिनां प्रश्नः। तत्राभिज्ञा एवमुत्तरमाहुः– यद्यप्यापो न भक्ष्यास्तथाऽप्याद्भिर्मृत्तिकां मिश्रयतीति यत्तेन देवताभिरेवाग्निं संयोजयति। अपां सर्वदेवत त्मकत्वात्। वृत्रवधादाविन्द्रस्य सहकारित्वेनापां सर्वदेवोपकारित्वार्त्सदेवताकत्वम्। अतः सर्वदेवतासंयोद्भिश्चयनं यु–
ऽ क. घ. ङ. क. र्वमेव चि।
[[2539]]
प्रपा. ७ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अग्निग्रहणाद्यभिधानम्)
क्तम्। तथा मृदा चयनं यदस्ति तदपि युक्तम्। भूमर्वैश्वानरग्निरूपात्वात्तद्रूपत्वं च तस्मादिमां वयाँसि नक्तं नाध्यासते इत्यत्रोपपादितम्। अतो मृद्रूपेणाग्निनैव तमग्निं चिनुत इत्येदुपपन्नम्।
इदानीं मृज्जलाभ्यां चयनमङ्गीकृत्य तस्याश्चितरेग्नित्वं प्रश्नोत्तराभ्यां प्रति पादयति —
ब्रह्मवादिन इति। इयमग्न्याख्या चितिर्मृज्जलाभ्यामेव निष्पाद्यते न त्व ङ्गारैर्ज्वालाभिर्वा। तथा सति कस्माकारणादग्निनाम संपन्नमिति ब्रह्मवादिनां प्रश्नः। तत्राभिज्ञा उत्तरमाहुः – न केवलं मृज्जलाभ्यामेव चयनं किंतु च्छन्दोयुक्तैर्मन्त्रैरपि। छन्दांसि चाग्निस्वरूपाणि अभि त्वा देव सवितः इत्यादिभिर्मन्त्रगतैश्छन्दोभिर्मन्थनहेतुभिरग्नेरुत्पाद्यत्वात्। अतश्छन्दोद्वारा चितेरग्नित्वम्। अपि च भूमर्वैश्वानरत्वाभिदानीमेवोदाह्रतम्। अतो मृत्कार्यत्वादग्नित्वं युक्तम्। एतद्ब्राह्मणमन्ते द्रष्टव्यम्।
यदुक्तं सूत्रकारेण — “हिरण्येष्टकाभिः सर्वतोमुखमुपदधाति गायत्रीं पुरस्तादुपदधातीत्युक्तम्” इति तदिदं विधत्ते —
हिरण्येष्टका इति। ज्योतिष्ट्वमितरप्रकाशकत्क्म्। तेजः प्रसिद्धं, कान्तिः। प्रपाठकादावाग्नेय्या गायत्र्येत्यादिना नाचिकेतचयनप्रकरणाम्नाता गायत्र्यादय उदाहृतास्तांश्च मन्त्रानत्र हिरण्येष्टकोपधाने विनियुङ्क्ते —
यो वा इति। या हिरण्यष्टका तदेवाग्नेर्मुखं, ताश्चेष्टकाः सर्वां दिशोऽभि जयतः सर्वासु दिक्षु विद्यन्त इत्यतमग्निः सर्वतामुखः। एतस्य चयने सति स्वगृवर्तिप्रजास्विव सर्वदिग्वर्तिप्रजासु स्निग्धो भूत्वाऽन्नमत्ति। अत एव सर्वादिशोऽनेन जिता भवन्ति। पुनर यन्ते फलाभिधानमुपसंहाराय। अपि च सर्वासु दिक्षु प्र (प्रा) धाने (न्ये) नैकस्यां दिश्यन्यां दिशं प्रवयति सूच्या वस्त्रमिव श्लिष्टां करोति। अत एव लोकेऽप्येकस्यां दिश्यन्या दिक्प्रोता वर्तते। आग्ने यदिविदिक्षु द्वयोर्दिगन्तयोः संश्लेषात्। इदं च ब्राह्मणं नक्षत्रेष्टाकाभ्य ऊर्ध्वं द्रष्टव्यम्॥
१ ख ता. मन्त्राद। २ ख यन्तः स।
[[2540]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पशुशीर्षाभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
नवमोऽनुवाकः॥ ९॥