०८

(अथ पञ्चमाष्टके सप्तमप्रपाठकेऽष्टमोऽनुवाकः)।
यास्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा
जा॑तवेदो॒ यो अ॒र्चिः। ये ते अग्ने मे॒डयो य
इन्द॑व॒स्तेभि॑रा॒त्मानं॑ चिनुहि प्रजा॒नन्
उ॒त्म॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किं वाऽहै॒तस्य॑
क्रि॒यते॒ किं वा॒ न यद्वा अ॑ध्य॒र्युर॒ग्नेश्चि॒न्वन्न॑–
न्तरेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒–
मिधो॒ यानि॑ (१) धामेत्या॑है॒षा वा अ॒ग्नेः
स्व॑यंचि॒तिर॒ग्निरे॒व तद॒ग्निं चि॒नोति नाघ्व॒ —
र्युरा॒त्मनो॒ऽन्तरेति॒चत॑स्त्र॒ आशाः॒ प्र च॑रन्त्व॒
ग्नय॑ इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्। घृ॒तं पि —
न्व॑न्न॒जरँ॑ सुवी॒रं॒ ब्रह्म॑ समिद्भ॑वत्याहु॑तिना
म्रू। सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते य —

[[2533]]

प्रपा. ७ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्वधचित्याद्यभिधानम)
त्कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑–
ह (२) दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मं नो॑
य॒ज्ञं न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒क–
स्या॒भिनी॑त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मि
त्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गं लो॒कमा॑य॒न्य
दब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानः
सुव॒र्गं लो॒कमे॑ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्नि
स्तस्य प्र॒जाः प॒शव॒श्छन्दा सि रू॒पँ सर्वा॒–
न्वर्ण॒निष्ट॑कानां कुर्याद्रू॒पेणै॒व प्र॒जां प॒शून्छ
न्दाँ॒स्यव॑ रु॒न्धेऽथो॑ प्र॒जाभ्यं॑ ए॒वैनं॑ प॒शुभ्य॒
श्छन्दो॑भ्योऽव॒रुध्य॑ चिनुते (३)
(ए॒ति॒ यास्ते॑ अग्ने स॒मिधो॒ यान्य॒ग्नय॒ इत्या॒हे–
ष्ट॑कानाँ॒ षोड॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥
—––
(अथ पञ्चमकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः)।
आकूत्याहुतिमन्त्रा ये ते सप्तम उदीरिता।
अथाष्टमे स्वयंचित्यादिकमभिधीयते।
यदुक्तं सूत्रकारेण–‘यास्ते अग्ने समिध इति स्वयंचित्याऽभिमृशति’ इति, तदेतद्विधातुं मन्त्रमुत्पादयति —
यास्ते अग्न इति। हे जातवेदोऽग्ने ते त्वदीयाः सामेधः समिन्धनक्रियायाः सन्ति, यानि च धाम त्वदीयानि स्थानानि गार्हपत्यादीनि, या च जिह्वा

[[2534]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(स्वयंचित्याद्यभिधानम्)
त्वदीया काली कसलीत्यादिका, योऽप्यर्पिः प्रकाशनसामर्थ्यं, हेऽग्ने ते त्वदीया ये मेडयः शब्दविशेषा ये चेन्दव इन्दुसदृशा विस्फुलिङ्गास्तेभिः तः सर्वै प्रजानंश्चयनप्रकाराभिज्ञस्त्वमात्मानं चिनुहि स्वकीयस्वरूपमुपचितं कुरु।
अनेन मन्त्रेण साध्यस्य क्षेत्राभिमर्शनस्य विघिमुन्नयति —
उत्सन्नयज्ञो वा एष इति। यो॥यं चीययानोऽग्निः सोऽयमुन्सन्नयज्ञः। बहुष्वङ्गेषु यस्य किस्यचिद्विस्मृतिसंभवेन विनष्टयज्ञत्वम्। अतोऽस्य यज्ञस्य किमङ्गमनुष्ठितं किं वा नेति ज्ञातुमशक्यम्। एवं च सति चिन्वानोऽयमध्यर्युरग्नेः संबन्धि यदङ्गमन्तरितं करोति तदात्मन एवाङ्गमन्तरितं कुर्यात्। अतस्तत्परिहाराय क्षेत्राभिमर्शनकाले यास्ते अग्न इत्येतामृचं ब्रूयात्। येयं यास्ते अग्न इत्पक्सैषा स्वयंचितिरित्यभिधीते। आत्मानं चिनुहीत्येवं स्वेन स्वस्यैव चीयमानत्वाभिधानात्। तत्तेन मन्त्रपाठेनाग्निरेव स्वयमग्निं स्वात्मानं चिनोति। तताऽध्वर्युः स्वसंबन्धि किंचिदप्यङ्गं नान्तरेति। एतदप्यग्ने तव श्रयो वय इत्यनुवाके द्रष्टव्यम्।
यदुक्तं सूत्रकारेण–‘मधु वाता ऋतायत इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यज्य मही द्यौः पृथिवी च न इति पुरस्तात्स्वयमातृण याः प्रत्यञ्चं जीवन्तं प्राङ्मुख उपदधाति चतस्र आशाः प्रचरन्त्वग्नय इति बोपधाय’ इति,
तत्र कूर्मोपधाने विकल्पितं मन्त्रमुत्पादयति —
चतस्र आशा इति। येऽग्नय आहवनीयादयः सन्ति ते चतस्रश्चतुसंख्याका दिशः पूर्वाद्याः प्रचरन्तु, कूर्मस्य स्वर्गमार्गभिज्ञानाय सर्वासु दिक्षु प्रकाशं कुर्वन्तु। अयं च कूर्मः प्रजानन्नस्मदीयं कर्म प्रकर्षेणावगच्छन्नेऽस्मदीयमिमं यज्ञं नयतु स्वर्गं प्रापयतु। किं कुर्यन, अज विनाशरहितं सुवीरं शोभनवीर्यप्रदं घृतं मधुमिश्रमाज्यं पिन्वन्पिबन्। आहुतिप्रदानां यजमानानां ब्रह्म समिद्भवति मन्त्र एव स्वर्गमार्गप्रकाशको भवति।
———-–
१ क. नोऽभय। २ ख. च. न्तं कूर्मं प्रा। ख. च. ख्मुप। २ क. ख. घ. ङ. च धातीति।

[[2535]]

प्रपा. ७ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्वयांचेत्याद्यभिधानम्)
अनेन मन्त्रेण साध्यं कूर्मोपधानं पूर्वमेव विहितं “यज्जीवन्तं कूर्ममुपदधाति” इति। अत्र तु मन्त्रमेतं विनियोक्तुमादौ तदर्थः प्रकाश्यते तत्र प्रथमपादस्य तात्पर्यं दर्शयति –
सुवर्गाय वा इति। स्वर्गलोके नेतुमयं कूर्म उपधीयते। अतो मार्गाभिज्ञायैतेन पादेन दिक्प्रकाशनं प्रार्थ्यते। द्वितीयपादस्य तात्पर्यं दर्शयति–
इमं नो यज्ञमिति। नयत्विति सामात्येनोक्तेऽपि स्वर्गं प्रत्येव गमनमत्र विवक्षितम्। चतुर्थपादस्य तात्पर्यं दर्शयति–
ब्रह्म समिदिति। आहुतिप्रदाः पूर्वे देवा मन्त्रसामर्थ्येनैव स्वर्गं प्राप्ताः। अतो मन्त्र एव प्रकाशसाधनम्। व्याख्यातमेतं मन्त्र विनियुङ्क्ते–––
यद्ब्रह्मण्वत्येति। ब्रह्मशब्दो यस्यामृच्यस्ति सेयं ब्रह्मण्वती। तदीदं ब्राह्मणं स्वयमातृण्णामुपदयातीत्यनुवाके द्रष्टव्यम।
यदुक्तं सूत्रकारेण – “सर्वन्वाणानिष्टकानां कुर्वाल्लेखाधिकारो भवतीति विज्ञायते च या दक्षिणावुतस्ता दक्षिणा उपदध्यात्सव्यावृत उत्तरत ऋजुलेखाः पश्चात्पुरस्ताच्च व्यालिखिता मध्ये” इति, तदेतत्सर्वं विधत्ते –
प्रजापतिवा एष इति। चीयमानोऽमिः प्रजापतिजन्यत्वात्प्रजापतिरेव। तस्य च प्रजापतेः प्रजापशुच्छन्दांसि परस्परविलक्षणानि स्वरूपम्। अतस्तद्रूपप्रत्यभिज्ञानायेष्टकानां सर्वान्वर्णान्बहुविधरेखाविशेषान्कुर्यात्। एवं सति प्रजापतिरूपेणैव =प्रजापतिं प्राप्नोति।

  • अथो प्रजाभ्य इति। अपि च प्रजादिभिरेवनैमग्निं स्वाधीनं कृत्वा चितवान्भवति। एतदपि स्वयमातृण्णामुपदधातीत्यनुवाके द्रष्टव्यम्।
    इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु
    र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः॥ ८॥
    ———-–––

=अत्र प्रजादीन इति भवतुं युक्तम्। * अस्यावतरणिका त्रुटितेति प्रतिभाति।
—–––
१ क. ध. ङ वति।

[[2536]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अग्निग्रहणाद्यभिधानम)