०७

(अथ पञ्चमाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः)।
यदाकू॑तात्स॒मसु॑स्रोध्दृ॒दो वा॒ मन॑सो वा॒
संभृतं॒ चक्षु॑षो वा। तमनु॒ प्रेहि॑ सुकृ॒तस्य॑
लो॒कं यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः। ए॒तँ
स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं
जा॒तवे॑दाः। अ॒न्वा॒ग॒न्ता य॒ज्ञपतिर्वो॒ अत्र॒
तँ स्म॑ जानीत पर॒मे व्यो॑मन्। जा॒नी॒ता–
दे॑नं पर॒मे व्यो॑म॒न्देवाः॑ सधस्था वि॒द रू॒प

[[2529]]

प्रपा. ७ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आकूतिमन्त्राभिधानम्)
म॑स्य। यदा॒गच्छा॑त् (१) प॒थिभि॑र्देव॒या
नै॑रिष्टापूर्ते कृ॑णुतादा॒विर॑स्मै। सं प्र च्य॑व–
ध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑न्कृणु
ध्वम। अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रमि॒न्विश्वे॑
देवा॒ यज॑मानश्च सीदत। प्रस्त॒रेण॑ परि॒–
धिना॑ स्रु॒चा वेद्या॑ च ब॒र्हिषा॑। ऋ॒चेमं य॒ज्ञं
नो॑ वह॒ सुव॑र्दे॒वेषु॒ गन्तवे। यदि॒ष्टं यत्प॑रा॒दानं॒
यद्द॒त्तं या च॒ दक्षिणा। तत् (२) अ॒ग्नि
र्वैश्व॑कर्म॒णः सुव॑र्दे॒वेषु॑ नो दधत्। येना॑ स॒–
हस्रं॒ वह॑सि॒ येनाग्ने सर्ववेदसम्। तेने॒मं य॒ज्ञं
नो॑ वह॒ सुव॑र्दे॒वेष॒ गन्त॑वे। येना॑ग्ने॒ दक्षि॑णा
यु॒क्ता य॒ज्ञं वह॑न्त त्विजः॑। तेने॒मं य॒ज्ञं नो॑
वह॒ सुव॑र्दे॒वेषु गन्त॑वे। येना॑ग्ने सु॒कृतः॑ प॒था
मधो॒र्धारा॑ व्यान॒शुः। तेने॒मं य॒ज्ञं नो॑ वह॒
सुव॑र्दे॒वेषु॒ गन्त॑वे। यत्र॒ धारा॒ अन ता॒ म
धो॑र्घृ॒तस्य॑ च॒ याः। तद॒ग्निर्वैश्वकर्म॒णः सुव॑
र्दे॒वेषु॑ नो दधत् (३)॥
(आ॒गच्छा॒त्तद्व्या॑न॒शुस्तेने॒मं य॒ज्ञं नो॑ वह
सुव॑र्दे॒वेषु॒ गन्त॑वे॒ चतु॑र्दश च)।
इतिकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके सप्तमोऽनुवाक॥ ७॥
—–––

[[2530]]

श्रीमत्सयणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(आकूतिमन्त्राभिधानम्)
(अथ पञ्चमकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः)।
व्रतेष्टकाप्रशंसा हि सर्वाः षष्ठे समीरिताः॥
अथ सप्तम आकूतिमन्त्रा उच्यन्ते।
यदुक्तं सूत्रकारेण – “यदाकूतादिति दशाऽऽकूतीर्हुत्वा” तत्र प्रथमामाह–
यदाकूतादिति। आकूतादिभिः संभृत संपादितं यत्फल पूर्वो यजमानसंघः समसूस्त्रोत्सम्यक्प्रप्तवान्, हे यजमान त्वं सुकृतस्य लोकं त्वदीयस्य कर्मणः फलभूतं तं भोगमनप्रेहि अनुक्रमेण प्राप्नुहि। आकूतं संकल्पोऽक्षयं सुखं प्राप्नोतीत्येवंरूपः। ह्रदयं चित्तं श्रुतिस्मृत्युदितसाधनोपायचिन्तनम्। मनोऽन्तःकरणं तदनुकूलप्रतिकूलप्रवृत्तिनिवृत्त्यात्मकम्। चक्षुःशब्देन दशेन्द्रियाणि लक्ष्यन्ते। यानि सम्यगनुष्ठानेनाभिमतं फलं साधयन्ति। एतैः सर्वैः संपादितं प्राप्नुहीत्यन्वयः। यत्र यस्मिन्सुकृतस्य लोके प्रथमजाऋ स्वयंभूप्रभृतय ऋषयः सर्वज्ञा आसते। ये च पुराणाः पूर्वे यजमानाः सन्ति तेऽपि यत्राऽऽसते तमनुप्रेहि। अथ द्वितीयमाह–
एतँ सधस्थेति। हे सधस्थ ऋत्विग्यजमानैरस्माभिः सहास्यां यज्ञभूमापवस्थित हेऽग्ने ते तुभ्यमेतं यजमानं परिददामि रक्षार्थं त्वद्धस्ते ददामीत्यर्थः। जातवेदा उत्पन्नानां प्राणिनां योगक्षेमाभिज्ञस्त्वं शेवधिं निधिवद्रक्षणीयं यं यजमानमावहादावहसि मदीयोऽयामिति स्वीकरोषि, तं यजमानं परिददामीति पूर्वत्रान्वयः। हे देवा यज्ञपतिरयं यजमानो वो युष्मानन्वागन्ता युष्माकं पृष्ठ आगमिष्यति। अत्रास्मिन रमे व्योमन्नुत्कृष्टविशिष्टरक्षणयोग्ये स्थाने भवदीये लोके तं यजमानं जानीत स्म सर्वथा रक्षणीयोऽयमिति स्मरत। अथ तृतीयामाह—–
जानीतादेनमिति। हे देवाः परमे स्थाने भवदीये लोक एनं जानीताद्यजमानमविस्मृत्य सर्वदा रक्षार्थं स्मरत। हे सधस्था यजमानेन सह तस्मिन्पुण्यलोके स्थिता देवा अस्य यजमानस्य रूपमग्निचयनाद्यनुष्ठानयुक्तं स्वरूपं विद
———-–
१ क. ध. ङ. च. यंभुप्र।

[[2531]]

प्रपा. ७ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आकूतिमन्त्राभिधानम्)
जानीत तस्मिल्लोँके पुनः पुनः स्मरत। देवयानैर्भवदीयगमनयोग्यैः पथिभिमार्मैयेंदागच्छाद्यो यजमान आगच्छति अस्मा एतद्यजमानार्थमिष्टापूर्ते श्रौतस्मार्तकर्मफले आविष्कृणुतात्प्रकटी कुरुत, हे यजमान तवेदं श्रौतकर्मफलमिदं च स्मार्तकर्मफलमित्येवं सावधाना अनृगृह्णीतेत्यर्थः अथ चतुर्थीमाह–––
सं प्र च्यवध्वमिति। हेऽग्ने त्वं विश्वे देवा सर्वेऽपि देवा यजमानश्चयेते यूयं सर्वेऽपि संप्रच्यध्वमस्माद्भूलोकस्थानात्सम्यक्यच(लत, च) लित्वा चानुसंप्रयातानन्तरं यजमानेन संगता एव गच्छत। गमनकाले च दवयानन्पथः कृणुध्वं न तु नरकलोकमनुष्यलोकमार्गः कर्तव्यः। सधस्ये यजमानेन सहावस्थानयोग्यऽ,स्मिन्यज्ञभूमिरूषे। भूलोकेऽध्युत्तरस्मिन्फलभोगस्थाने स्वर्गलोके च सीदत यजमनो यूयं च सह तिष्ठत। अथ पञ्चमीमाह—–
प्रस्तरेण परिधिनेति। हेऽग्ने प्रस्तारादिभिः सर्वैस्यज्ञसाधनैः सहितं नोऽस्मदीयमिमं यज्ञं सुवः स्वर्गलोके वह प्रापय। किमर्थम्, देवेषु गन्तवे देवानां मध्ये गन्तुं तेषां प्रदर्शनार्थमित्यर्थः। अथ षष्ठीमाह—–
यदिष्टं यत्परादानमिति। दर्शपूर्णमासादिरूपं यत्कर्मेष्चमनुष्ठितं, यच्च परादानं दीनान्धकृपणादिभ्यः स्वल्पदानं, यदपि दत्तं बहिर्वेदि पात्रभूतेभ्योऽनूचानेभ्यो बहु द्रव्यं समर्पितं, या चान्या दक्षिणा यज्ञमध्ये गवादिरूपा दत्ता, नोऽस्मदीयं तत्सर्वं वैश्वकर्मणः कृत्स्नकर्मस्वामिभूतोऽयमग्निः सुवर्देवेषु स्वर्गलोकनिवासिषु देवेषु मध्ये दधत्स्तापयतु।
अथ सप्तमीमाह—–
येना सहस्रमिति। हेऽग्ने त्वं येन मार्गेण सहस्रं वहसि सहस्रदक्षिणाकं यज्ञं नयसि, येन च सर्ववेदसं सर्वस्वदक्षिणाकं यज्ञं नयसि, तेन मार्गेण नोऽस्मदीयमिमं यज्ञं वह नय। सुवरित्यादि पूर्ववत्। अथाष्टमीमाह —
येनाग्ने दक्षिणा इति। हेऽग्न ऋत्विजः सर्वे युक्ता योग्याः शास्त्रीया दक्षिणा यज्ञं चेमं येन शास्त्रीयेण मार्गेण वहन्ति निर्वहन्त्यनुतिष्ठन्तीत्यर्थः। तेनैव शास्त्रीयेण मार्गेणेमं यज्ञमित्यादि पूर्ववत्। अथ नवमीमाह —
येनाग्ने सुकृत इति। हेऽग्ने सकृतः पूर्वे पुण्यकृतो यजमाना येन (पथा)

[[2532]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(स्वयंचित्याद्यभिधानम्)
मार्गेण गत्वा मधोर्मधुरर्स्य पीयूषस्य धारा व्यानशुर्व्याप्तवन्तस्तनेत्यादि पूर्ववत्।
अथ दशमीमाह —
यत्र धारा इति। यत्र यस्मिल्लोँको मधोर्माक्षिकस्य घृतस्य च (या) धारा अनपेता अविच्छिन्ना (स्ता) स्तत्र लोकेऽग्निरित्यादि पूर्ववत्। एते च दश मन्त्राः पूर्वस्मिन्मन्त्रकाण्डे ममाग्न इत्यानुवाकादूर्ध्वं द्रष्टव्याः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण–
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
सप्तमोऽनुवाकः॥ ७॥