०६

(अथ पञ्चमाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः)।
वयो॒ वा अ॒ग्निर्यद॑ग्नि॒चित्प॒क्षिणो॑ऽश्नी॒–
यात्तमे॒वाग्निम॑द्या॒दार्ति॒मार्छे॑त्संवत्स॒रं व्र॒तं च॑–
तेत्संवत्स॒रँ हि व्र॒तं नाति॑ प॒शुर्वा ए॒ष यद॒–
ग्निहि॒नस्ति॒ खलु वै तं प॒शुर्य ए॑नं पु॒रस्ता॑
त्प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मात्प॒श्चात्प्राङु॑प॒चर्य॑
आ॒त्मनोऽहिँ॑सायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ
पृथि॒वीं य॑च्छ (१) पृ॒थि॒व्यै मा॑ पाहि॒
ज्योति॑रसि॒ ज्योति॑र्मे यच्छा॒न्तरिक्षं॑ यच्छा॒–
न्तरि॑क्षान्मा पाहि॒ सुव॑रसि॒ सुव॑र्मेयच्छ॒ दिवं॑
यच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र्बा इ॒मे लो॒–
का विधृ॑ता॒ यदे॒ता उ॑प॒दधा॑त्ये॒षां लो॒कानां॒
विधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्यष्ट॒का
उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा
ज्योति॒र्हिर॑ण्यं॒ यत्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑
(२) हि॒र॒ण्ये॒ष्ट॒का उ॑प॒दधा॑ती॒माने॒वैतोभि॑–

[[2524]]

श्रीमत्सयणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(व्रतचरणाद्यभिधानम्)
र्लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वा–
स्मा इ॒मे लो॒काः प्र भा॑न्ति॒ यास्ते॑ अग्ने॒
सूर्ये॒ रुच॑ उद्य॒तो दि॑वमात॒न्वन्ति॑ र॒श्मिभिः॑।
ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि। या
वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑।
इन्द्रा॑ग्नी॒ तामिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृह —
स्पते। रुचं॑ नो धेहि (३) ब्रा॒ह्म॒णेषु॒ रु
चँ॒ राज॑सु नस्कृधि। रुचं॑ वि॒श्ये॑षु शू॒द्रेषु॒
मयि॑ धेहि रु॒चा रुच॑म्। द्वे॒धा वा अ॒ग्निं
चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यं ग॑च्छत्य॒ग्निं वा॑
चि॒तभी॑जा॒नं वा॒ यो॒ता आहू॑तीर्जुहोत्या॒त्म —
न्ने॒व यश॑ इन्द्रि॒यं ध॑त्त ईश्व॒रो वा ए॒ष आ —
र्ति॒मार्तो॒र्यो॑ऽग्निं चि॒न्वन्न॑धि॒क्राम॑ति॒ तत्त्वां॑
यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा
(४) जुहुया॒च्छान्ति॑रे॒वैषाऽग्नेर्गुप्ति॑रा॒त्मनो॑
ह॒विष्कृ॑तो॒ वा ए॒ष यो॑ऽग्निं चिनु॒ते यथा॒
वै ह॒विः स्कन्द॑त्य॒वं वा ए॒ष स्क॑न्दति॒ यो॑ऽ
ग्नि चि॒त्वा स्त्रियमु॒पैति॑ मैत्रावरुण्या॒ऽऽभि–
क्ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपै॑त्या॒त्मनोऽ
स्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थां वेद॒र्तुऋ॑तु
रस्मै॒ कल्प॑मान एति॒ प्रत्य॒व ति॑ष्ठति संवत्स॒रो

[[2525]]

प्रपा० ७ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(व्रतचरणाद्यभिधानम्)
वा अ॒ग्निः (५) ऋ॒तु॒स्थास्तस्य॑ वम॒न्तः
शिरो॑ ग्री॒ष्मो दक्षि॑णः प॒क्षो व॒र्षाः पुच्छँ॑
श॒रदुत्त॑रः प॒क्षो हे॑मन्तो मध्यं॑ पूर्वप॒क्षाश्चि–
त॑थाऽपरप॒क्षाः पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष
वा अ॒ग्निऋ॑तु॒स्था य ए॒वं वेद॒र्तुऋ॑तुरस्मै॒
कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र्वा
ए॒तं ज्यैष्ठ्यकामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यै
ष्ठ्य॑मगच्छद्य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते ज्यै–
ष्ठ्य॑मे॒व ग॑च्छति (६)॥
(पृ॒थि॒वीं य॑च्छ॒ यत्स्व॑यमातृ॒ण्णा उ॑प॒धाय॑
धेह्य॒चाऽग्निश्चि॑नु॒ते त्रीणि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके सप्तम–
प्रपाठके षष्ठोऽनुवाकः॥ ६॥
—–––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः)।
पुनःपरीन्धनाद्यत्र पञ्चमे समुदीरितम्।
अथ षष्ठे व्रतचरणादिकमभिधायते।
यदुक्तं सूत्रकारेण — ‘संवत्सरं न कंचन प्रत्यवरोहेन्न च रामामुपेयान्न पक्षिणोऽश्नीयात्’ इत्यादि, तत्र पक्ष्यशननिषेधरूपं संवत्सरव्रतं विधत्ते —
वयो वा अग्निरिति। योऽयं चीयमानोऽग्निः स पक्षिस्वरूप एव। ‘वयसां वा एष प्रतिमया चीयते’ इति पूर्वमुक्तम्। एवं सत्ययमग्निचिद्यदिपक्षिणा भक्षयेत्तह्येग्निमेव भक्षितवान्भवति। ततो म्रियेत। अतस्तत्परिहाराय
१ ख घ. ङ. च. किञ्चन।

[[2526]]

श्रीमत्सयणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(व्रतचरणाद्यभिधानम्)
संवत्सरमात्रं पक्षिभक्षणवर्जनरूपं व्रतं चरेत्। त (य) स्मात्संवत्सरमतीत्य व्रतचरणं न क्वापि दृष्टं तस्मात्तद्व्रत (तं) पर्याप्तम्। एतद्ब्राह्मणं पूर्वोक्तं च चितिप्रशंसारूपं ब्राह्मणं सर्वान्ते द्रष्टव्यम्। अथ चित्यारोहणस्य पश्चिमदिङनियमं विधत्ते —
पशुर्वा एष इति। अतेः पशुरूपत्वात्पुरस्तादारोहणे यथा पशुःशङ्गाम्यहिनस्ति तद्वदयमपि हिंस्यात्। तस्मात्पश्चिमायां दिशि प्राङ्मुखेनोपचर्य आरोहणीयः। तच्चाऽऽत्मन आरोढुरहिंसार्थं भवति। एतच्चाग्ने तव श्रयो वय इत्यनुवाके द्रष्टव्यम्।
यदुक्तं सूत्रकारेण ‘तेजोऽसि तेजो मे यच्छेति हिरण्येष्टकाम्’ इति, ‘ज्योतिरसि ज्योतिर्मे यच्छेति हिरण्येष्टकाम्’ इति च, ‘सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम्’ इति च, तदेतद्विधातुं मन्त्रानुत्यादयति —
तेजोऽसि तेजो म इति प्रथमचितावुपधातव्य हे हिरण्येष्टके त्वं तेजोरूपाऽसि, मे मदर्थं तेजो देहि। तथा पृथिवीं देहि। यद्वा मदुपकारित्वेन नियामय। तस्याः पृथिव्याः सकाशान्मां पाहि। तथा पृथिवी नोपद्रवं करोति तथा कुरु। एवं तृतीयपञ्चमचितिविषययोरुत्तरयोर्मन्त्रयोर्योज्यम्। सुवः स्वर्गसुखम्। दिवं द्यलोकम्॥ एतैर्मन्त्रैः साध्यमुपधानं विधत्ते —
इत्याहैताभिरिति। एत्युक्तान्मन्त्र नुपधा काले पठेत्। एताभिर्हिरण्येष्टकाभिरिभे त्रयो लोका विधृता। अत एतदुपधानं लोकधृत्यै भवति॥
अस्योपधानस्य तत्तच्चितिगतस्ववमातृण्णाभ्य ऊर्ध्वं कालं विधत्ते –
स्वयमातृण्णा इति। एतच्च स्वयमातृण्णाभित्यनुवाके द्रष्टव्यम्॥
यदुक्तं सूत्रकारेण – “यास्ते अग्ने सूर्ये रुच इति तिस्रो रुच” इति, रुगाख्या आहुतीर्जुहुयादित्यर्थः। तत्र प्रथमामाह —
यास्ते अग्ने सूर्य इति। हेऽग्ने सूर्ये सूर्यमण्डले स्थितस ते तवोद्यत उदयं गच्छतो या रुचो दीप्तयो दिवं द्युलोकमातन्वन्ति सर्वतो व्याप्नुवनि ताभिः
१ ख. ङ. च. उवंका।

[[2527]]

प्रपा० ७ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(व्रतचरणद्यभिधानमे)
सर्वाभी रश्मिभिर्नो जनायास्पदी जनार्थं रुचे कृधि रुचं दीप्तं (प्तिं) कुरु॥
अथ द्वितीयामाह ––
या वो देवा इति। हे देवा वो युष्मांक संबन्धिन्यः सूर्यमण्डले या रुचो दीप्तयो वर्तन्त, तथा गोष्वश्वेषु च या रुचो वर्तन्ते, हे इन्द्राग्नी ताग्निः सर्वाभि दीप्तिभिर्नोऽस्मदर्थं रुचं धत्त दीप्तं (तिं) कुरुत॥ अथ तृतीयमाह ––
रुचं नो धेहीति। हेऽग्ने नोऽस्मदीयेषु ब्राह्मणेषु रुचं धेहि प्रकाशं कुरु। तथा विश्येषु वैश्येषु शूद्रेषु च रुचं प्रकाशं कुरु। तथा रुचा त्वदीमया दीप्त्या माये रुचं धोहे प्रकाशं कुरु॥
एतर्मन्त्रैः साध्यं होमं विधत्ते ––
द्वेधा वा अग्निमिति। यो यजमानोऽग्निं चितवास्तस्य यशः कीर्तिरिन्द्रियं सामर्थ्यं वाऽन्यत्र गच्छति। कुरुति चेच्छ्रूयतां योऽयमिदानीं चितोऽग्निस्तं वा प्राप्नोति। यस्त्वीज नः पूर्णं चितेऽग्नौ यागं कृतवास्तं वा प्राप्नोति। सर्वथाऽप्यस्माद्यजमानादपगच्छति। एतेर्मन्वहामे तु तद्यश इन्द्रियं च स्वात्मन्येव धारयति। एतच्चाग्निर्देवेभ्य इत्यनुवाकादूर्ध्वं द्रष्टव्यम्॥
यदुक्तं सूत्रकारेण ‘तत्वा यामि ब्रह्मणा वन्दमान इति शालामुखीये हुत्वा’ इति, तदिदं विधत्ते –
ईश्वरो वा एष इति। यो यजमानश्चयनकालेऽग्निमधिरुह्य पादेनाऽऽक्रा मति एष यजमानो विनाशं प्राप्तुं समर्थः। तत्परिहाराय तत्त्वा यामीत्यृचा जुहुयात्। सेयमृगन्द्रं वो विश्वतस्परीन्द्रं नर इत्यनुवाके व्याख्यात।एषाऽऽहुतिरग्नेः शमनहेतुरात्मना यजमानस्य च रक्षणहेतुः। तच्चाग्ने तव श्रवो वय इत्यनुवाके द्रष्टव्यम्॥
यथाऽग्निचयनादूर्द्धं तदङ्गत्वेन सौत्रामणी पूर्वं विहितेवमत्र मैत्रावरुणीं विधत्ते –


१ क. ययजमाना। २ ख च. व्यत्मद्य।

[[2528]]

श्रीमत्सयणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(आकूतिमन्त्राभिधानम्)
हविष्कृतो वा एष इति। यो यजमानोऽग्निं चिनुत एष हविःस्वरूपं प्राप्तः। तथा सति स्त्रीगमन (नेऽ) स्य स्वरूपनाशो हविर्नाशसमानः। अतस्तत्परिहारार्थं मजेत। तेन यागेन स्वयं मित्रावरुणसंबन्धितां प्राप्ये यागादूर्ध्वं हविष उपयुक्तत्वाद्धविःस्थानीयस्य स्वस्य गमनेऽपि नास्ति नाशः। अथाग्निं संवत्सररूपकल्पनथा प्रशंसति —
यो वा अग्निमिति। ऋतुषु तिष्ठतीत्यृतुस्थाः संवत्सरस्तद्रूपमग्निं यो वेद मनसा भावयेत्, अस्यै यजमानाय स स ऋतुः स्वस्वोचितभोगप्रदानसमर्थः सन्ननं प्राप्नोति। तद्भोगेन चायं प्रतितिष्ठति। संवत्सरो वा अग्निरित्यादि भावनाप्रकारः। य एवं वेदेत्यादि पूर्वोक्तफलोपसहारः॥ अथ फलान्तरेण प्रशंसति
प्रजापतिर्वा इति। न्यधत्त चितवानित्यर्थः। ज्यैष्ठ्यं वयोगुणाभ्यामाधिक्यम्। एतच्च सर्वमन्ते द्रष्टव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णजु
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
षष्ठोऽनुवाकः॥ ६॥
—–––