(अथ पञ्चमाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वं वा ए॒व
म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्यं॑
कु॒र्याद्वि च्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒त्स
ए॒व पुनः॑ प॒रीध्यः॒ स्वादे॒वैनं॒ योने॑र्जनयति॒
नास्मै॒ भ्रातृ॑व्यं जनयति॒ तमो॒ वा ए॒तं गृ॑–
ह्णाति॒ यस्या॒ग्निरुख्य॑ उद्वा॑यति मृ॒त्युस्तमः॑
कृ॒ष्णं वासः॑ कृ॒ष्णा धे॒नुर्दक्षि॑णा॒ तम॑सा (१)
ए॒व तमो॑ मृ॒त्यमप॑ हते॒ हिर॑ण्यं ददाति॒ ज्यो–
ति॒र्वै हिर॑ण्यं॒ ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒
तेजो॒ वै हि॑रण्यं॒ तेज॑ ए॒वाऽऽत्मन्ध॑त्ते॒ सुव॒र्न
ध॒र्मः स्वाहा॒ सुव॒र्नार्कः स्वाहा॒ सुव॒र्न शु॒क्रः
स्वाहा॒ सुव॒र्न ज्योतिः॒ स्वाहा॒ सुव॒र्न सूर्यः॒
स्वाहा॒ऽर्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यः (२)
अ॒श्व॒मे॒धो यदे॒ता आहु॑तीर्जु॒होत्य॑र्काश्व॒मेध–
यो॑र॒व ज्योतिँ॑षि॒ सं द॑धात्ये॒ष ह॒ त्वा अ॑
र्काश्वमे॒धीयस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा
इद॒मग्ने॑ सलि॒लमा॑सी॒त्स ए॒तां प्र॒जाप॑तिः प्र
[[2519]]
प्रपा० ७ अनु० ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पुनःपरीन्धनाद्यभिधानम्)
थ॒मां चिति॑मपश्य॒त्तामुपा॑धत्त॒ तदि॒यम॑भव॒त्तं
वि॒श्वकर्माऽब्रवी॒दुप॒ त्वाऽया॒नीति॒ नेह लो॒ —
को॑ऽस्तीति॑ (३) अब्र॒वी॒त्स ए॒तां द्वि॒तीयां॒
चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒न्तरि॑क्षमभव॒त्स
य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाऽया॒नीति॒ नेह
लो॒को॑ऽस्तीत्य॑ब्रवी॒त्स वि॒श्वक॑र्माणब्रवी॒दुप॒
त्वाऽया॒नीति॒ केन॑ नो॒पैष्य॒तीति॒ दिश्या॑भि॒रि —
त्य॑ब्रवी॒त्तं दिश्या॑भिरु॒पैत्ता उपा॑धत्त॒ ता
दिशः॑ (४) अ॒भ॒व॒न्त्स पर॑मे॒ष्ठी प्र॒जा॑पति —
मब्र॑वीदुप॒ त्वाऽया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑
ब्रवी॒त्स वि॒श्वक॑र्माण च य॒ज्ञं चा॑ब्रवी॒दुप॑
वा॒माऽया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ स
ए॒तां तृ॒तीयां॒ चिति॑मपश्य॒त्तामुपा॑धत्त॒ तद॒सा
व॑भ॒वत्स आ॑दि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वा
(५) आऽया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्र–
वी॒त्स वि॒श्वक॑र्माणं च य॒ज्ञं चा॑ब्रवी॒दुप॑ वा॒–
माऽया॒नीति॒ नेह लो॒को॑ऽस्तीत्य॑ब्रूताँ॒ स
प॑रमे॒ष्ठिन॑मब्रवी॒दुपं त्वाऽया॒नीति॒ केन॑ मो॒पै
प्य॒सीति॑ लोकंपृ॒णयेत्यब्रवी॒त्तं लोकंपृ॒णयो॒–
यै॑त्तस्मा॒दया॑तयाम्नी लोकंपृ॒णाऽयातयामा
ह्य॑सौ (६) आ॒दि॒त्यस्तानृष॑योऽब्रुव॒न्नुप॑ व॒
[[2520]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(पुनःपरीन्धनाद्यभिधानम्)
आऽया॒मेति॒ कन न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒–
न्तान्द्वाभ्यां॒ चिती॑भ्यामु॒पाय॒न्त्स पञ्च॑चिती–
कः॒ सम॑पद्यत॒ य ए॒वं वि॒द्वान॒र्ग्नि चि॑नु॒ते भू–
याने॒व भ॑वत्य॒भीमाल्लोँ॒काञ्ज॑यति वि॒दुरेनं॑ दे॒वा
अथो॑ ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यं ग–
च्छति (७)॥
(तम॑साऽऽदि॒त्यो॑ऽस्तीति॒ दिश॑ आदि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॑ त्वाऽसौ
पञ्च॑चत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके सप्तम–
प्रपाठके पञ्चमोऽनुवाकः॥ ५॥
—––––
(अथ पञ्चमकाण्डे सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
तिस्र आहुतयो राष्ट्रभृतस्तुर्ये समीरिताः।
अथ पञ्चमे पुनःपरीन्धनादयो विधीयन्ते॥
यदुक्तं सूत्रकारेण – ‘यस्याग्निरुख्य उद्वायेद्रार्हपत्यादन्यं प्रणयेत्स एव पुनः परीध्यः’ इति, तदिदं विधत्ते —
यथा वै पुत्रो जात इति। यस्य यजमानस्योख्याग्निः शाम्यति तस्य पुत्रमरणवदग्निनाशनिमित्तं दुःखं जायते। तस्य निर्मन्थ्येनाग्न्यन्तरोत्पादने सति पूर्वोऽ(र्वम) ग्निं विच्छिन्द्यात्। स च विच्छिन्नोऽस्य यजमानस्य वैरिणं जनयेत्। अतस्तत्परिहाराय गार्हपत्यनिष्ठः सोऽग्निरेव पुनरप्यानीय परितः काष्ठ प्रक्षेपेणेन्धनीयः। तथा सति स्वकारणादेवोत्पन्नत्वाद्वैरिणं न जनयति।
अत्रैव प्रायश्चित्तरूपां दक्षिणां विधत्ते —–
तमो वा एतमिति। यस्य यजमानस्योख्याग्निर्नश्येदेतं यजमानं तमो गृह्णाति, तच्च मृत्युरूपम्। अतस्तत्परिहाराय कृष्णवर्णमकं वस्त्रं कृष्णवर्णा च
[[2521]]
प्रपा० ७ अनु० ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(पुनःपरीन्धनाथभिधानम्)
धेनुर्दक्षिणाऽनेन दातव्या। एवं सति तमोरूपत्वाद्दक्षिणायास्तयाः मृत्युरूपं तयो विनाशयति। अथ तत्रैव दानान्तरं विधत्ते –––
हिरण्यं ददातीति। हिरण्यरूपेण ज्योतिषा मृत्युरूपस्य तमसो विनाशयं युक्तम्। अपि च हिरण्यस्य तेजस्त्वादात्मनि तेजः संपादयति। तदेतद्ब्राह्मणं सर्वान्ते द्रष्टव्यम्।
यदुक्तं सूत्रकारेण – “सुवर्न घर्मः स्वाहेति पञ्चार्काहुतीर्हुत्वा” इति तदिदं विधातुं मन्त्रानुत्पादयति–
सुवर्न घर्म इति। सुवर्न स्वर्ग इव, यथा स्वर्गेऽवस्थिता देवा दीप्यमाना एवं घर्मो दीप्यमानो योऽग्निस्तस्मै स्वाहा हुतमस्तु। एवमुत्तरत्रापि योज्यम्। अर्कोऽर्चनीयः। शुक्रोऽतिनिर्मलः। ज्योतिः प्रकाशरूपः। सूर्यः सूर्यवर्ण आदित्यरूपः। एतैर्मन्त्रैर्होमं विधत्ते –
अर्को वा एष इति।योऽयं चीयमानोऽग्निः ऋतुसाधनभूत एषाऽर्चनीयत्वादर्क इत्युच्यते। योऽयमादित्यः स एष ऋतुफलरूपत्वादश्वमेध इत्युच्यत। सुवर्न इत्येन्मन्त्रहोमेनार्काश्वमेधयोरग्न्यादित्ययोर्यनि ज्योतींषि तानि संपादयति। यस्य यजमानस्याऽग्निचयने तदेतदाहुतिपञ्चकं क्रियते स एष एव यजमानोऽर्काश्वमेधी ऋतुसाधनतत्फलाभ्यामुपेतः। एतच्च ब्राह्मणामग्निर्देवेभ्य इत्यनुवाकान्ते द्रष्टव्यम्। अथ चितीनां पञ्चानां प्रशंसा। तत्र प्रथमां चितिं प्रशंसति–
आपो वा इदामिति। यदिदं भूम्यन्तरिक्षादिरूपं जगत्तदिदं सृष्टेः प्रागनेनरूपेण विभूतं नाऽऽसीत्, किं त्वाप एवाऽऽसीत्। तास्वप्सु भूतान्तरं न मिलितं, किं तु नैरन्तर्येण सलिलमेवाऽऽसीत्। तदानीं प्रजापतिरवस्थातुमाधारः को वा भविष्यतीति विचार्यैतां प्रथमां चितिं दृष्ट्वोपाधत्त। तदानीं सा चितिरियं भूमिरूपाऽभवत्। तत्रायं प्रजापतिरवस्थितः। अथ द्वितीयां चितिं प्रशंसति–––
तं विश्वकर्मेति। विश्वकर्माख्यः कश्चिदन्योऽवस्थातुधारमलभमानस्तं भूमाववस्थितं प्रजापतिभिदमब्रवीत् — अहमपि त्वामुपागच्छानि त्वत्समीप उपविशानीति। स च प्रजापतिरिह भूमौ तवावकाशो नास्तीत्यब्रवीत्। ततः स विश्व —
१ ख च. णा तेन।
[[2522]]
श्रीमत्सयणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(पुन परीन्धनाद्यभिधानम्)
कर्मा स्वस्याऽऽधारः को भविष्यतीति विचार्यैतां द्वितीयां चितिं दृष्ट्वा तामुपाधत्त। तदानीं सा द्वितीया चितिरन्तरिक्षमभवत्। तत्रायं विश्वकर्माऽवस्थितः।
अथ दिश्याख्या इष्टकाः प्रशंसति—–
स यज्ञाः प्रजापतिमिति। यज्ञाख्येन पुरुषेण स्थाने पृष्टे सति प्रजापतिः परिजहार। विश्वकर्मा तु केनोत्कोचरूपेण साधनेन सह मां प्रत्यादमिष्यसीति प्रपच्छ। स च यज्ञो दिश्याभिरिष्टकाभिः सहाऽऽगमिष्यामीत्युक्त्वा तथैवः गतवान्। राज्ञ्यासि प्राची दिगित्यादिभिर्मन्त्रैर्दिक्षूपधेया दिश्याः। ताश्चोपहिता सत्यो दिग्रूपा अभवन्। ततो यज्ञस्यावक शोऽभूत्। अथ तृतीयां चितिं प्रशंसति–––
स परमेष्ठीति। प्रजापतिर्विश्वकर्मा परमेष्ठीत्येते त्रयोऽप्येता (क) स्यैव मूर्तिभेदाः। तत्र परमेष्ठिना प्रार्थितः प्रजापतिर्भूमाववकाशमदत्त्वा परिजहार। विश्वकर्मा यज्ञश्चेत्येतावप्यन्तरिक्षे दिक्षु चावकाशमदत्त्वा परिजह्रतुः। ततः परमेष्ठी विचार्य तृतीयां चितिं दृष्ट्वोपाधत्त। साऽपि चितिर्द्यौरभवत्। तत्रायं परमेष्ठी स्वयमवस्थितः॥
अथ लोकंपृणेष्टकां प्रशंसति–
स आदित्यः प्रजापतिमिति। स आदित्यो लोकंपृणामानीतवान्। तस्यामुपहितायामादित्यस्यावकाशोऽभूत्। यस्मादियमादित्येनाऽऽनीता तस्मादगतस्तारालोकंपृणा। आदित्योऽप्यगतसारः, पुनः पुनरावर्तमानोऽपि तस्मिञ्जगदुपकारकत्य प्रकाशरूपस्य सारस्याक्षीयमाणत्वात्। आदित्यवल्लोकंपृणा पुन पुन प्रयुज्यमानाऽप्यक्षीयमाणसारा। यत्र यत्र चितौ छिद्रमस्ति तत्र तत्र लोकपृणा प्रयुज्यते। अथ चतुर्थपञ्चमचिती प्रशंसति–
तानृषयोऽब्रूवन्निति। तान्प्रजापतिविश्वकर्मयज्ञपरमेष्ठ्यादित्यानन्ये केचिदृषयः स्थानं प्रार्थितवन्तः। ततः प्रजापत्यादिभिरुकोचे याचिते सति उत्कोचबाहुल्यं प्रतिज्ञाय चितिद्वयमानीतवन्तः। अतस्तेषामवकाशोऽभूत्। तदेवं प्रशस्ताभिश्चितिभिरयमग्निः पञ्चचितीकोऽभूत्। एतद्वेदनपूर्वक्मनुष्ठानं प्रशंसति—––
—–––
१ ख. घ. ङ. च. त्र कुत्र।
[[2523]]
प्रपा० ७ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(व्रतचरणाद्यभिधानम्)
य एवं विद्वानिति। विद्यादिगुणसमृद्धिर्भूयस्त्वं, लोकत्रयस्य स्वाधीनत्वं जय, देवैर्वेदनं नामैतदीया कीर्तिः। अपि चैतासां देवतानां सहभावं प्राप्नोति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णजुर्वे–
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
पञ्चमोऽनुवाकः॥ ५॥
—–––