(अथ पञ्चमाष्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः)
चिन्तिं जहोमि॒ मन॑सा घृतेनेत्या॒हादाभ्या॒
वै नामै॒षाऽऽहुतिर्वैश्वकर्म॒णी नैनं॑ चिक्या॒नं
भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्धेऽग्ने॒
————————-–––
१ क. र्मन्यून।
[[2514]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—––(५ पञ्चमकाण्डे —
(होमविशेषाणां राष्ट्रभृदिष्टकानां चाभिधानम्)
तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याऽऽहुत्या
यज्ञमु॒खया र॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त
जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्धे॒ऽग्नि॒र्देवे–
भ्योऽपा॑क्रामद्भाग॒धेय॑म् (१) इ॒च्छमा॑न॒स्त–
स्मा॑ ए॒तद्भा॑ग॒धेयं॒ प्राय॑च्छन्ने॒तद्वा अ॒ग्नेर॑ग्नि–
हो॒त्रमे॒तर्हि॒ खलु॒ वा ए॒ष जा॒तो यर्हि॒ सर्वे–
श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स
ए॑नं प्री॒तः प्री॑णति॒ वसी॑यान्भवति ब्रह्मवा॒–
दिनो॑ वदन्ति॒ यदे॒ष गार्ह॑पत्यश्ची॒यतेऽथ॒ कां॑ —
स्याऽऽह॒वनीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूया —
दे॒तस्मि॒न्हि सर्वा॑भ्यो दे॒वता॑भ्यो॒ जुह्व॑ति (२)
य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते सा॒क्षादे॒व दे॒वता॑
ऋध्नो॒त्यग्ने॑ यशस्वि॒न्यश॑से॒मम॑र्प॒येन्द्रा॑वती॒ —
मप॑चितीमि॒हाऽऽव॑ह। अ॒यं मू॒र्धा परमे॒ष्ठी
सु॒वर्चाः॑ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु। भ॒द्रं
पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒
र्वि॑दः। ततः॑ क्ष॒त्र्त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै
दे॒वा अ॒भि सं नमन्तु। धा॒ता वि॑धा॒ता प॑र —
मा (३) उ॒त सं॒दृक्प्र॒जाप॑तिः परमे॒ष्ठी वि॒ —
राजा॑। स्तोमा॒श्छन्दाँ॑सि नि॒विदो॑ म
आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम। अ॒भ्याव॑ —
र्तध्व॒मुप॒ भेत॑ सा॒कम॒यँ शा॒स्ताऽधि॑पतिर्वो
[[2515]]
प्रपा० ७ अनु० ४) कृष्णजुर्वेदीयतैत्तिरीयसंहिता।
(होमविशेषाणां राष्ट्रभृदिष्टकानां चाभिधानम्)
अस्तु। अ॒स्य वि॒ज्ञान॒मनु॒ सँ र॑मध्वमि॒मं
प॒श्चादनु॑ जीवाथ॒ सर्वे॑। राष्ट्र॒भृत॑ ए॒ता उप॑
दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत्तयै॒वास्मि॑ —
न्रा॒ष्ट्रं द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा॑द्रा॒ष्ट्रं
भ्रँ॑शते (४)॥
(भा॒ग॒धेयं॒ जुह्व॑ति पर॒मा रा॒ष्ट्र द॑धाति स॒प्त च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके चतुर्थोऽनुवाकः॥ ४॥
(अथ पञ्चमकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः)।
चित्रिण्यश्च वसोर्धारास्तृतीये समुदीरिताः॥
अथ चतुर्थे होमविशेषा राष्ट्रभृदारव्या इष्टकाश्चाभिधीयन्ते।
यदुक्तं सूत्रकारेण–––“चित्तिं जुहोम्यग्ने तमद्याश्वमिति द्वे आहुती हुत्वा” इति, तत्र प्रथमाहुतोर्विधिं मन्त्रव्याख्यानेनोन्नयति–––
चित्तिं जुहोमीति। अयं मन्त्रः पूर्वमापो वरुणस्य पत्नय इत्यनुवाके समाम्नातो व्याख्यातश्च। तमिमं होमसाधनत्वेन पठेत्। अस्या आहुतेरदाभ्येति नाम, रक्षोभिः कैरपि विनाशयितुमशक्यत्वात्। सा च विश्वकर्मदेवताका, तस्मिन्मन्त्रे विश्वकर्मण इत्याम्नानात्। अस्यामाहुतौ हुतायां चितवन्तमेनं यजमानं भ्रातृव्यो न हिनस्ति। तस्मादेतां जुहुयात्। अपि चैतां जुह्वत्पुरुषो देवताः प्राप्नोत्येव। अथ द्वितीयामाहुतिं विधत्ते —–
अग्ने तमद्येतीति। अयं मन्त्रश्चतुर्थकाण्डे ऽग्निर्मूर्धेत्यनुवाके पठितो व्याख्यातश्च। पङ्क्तिच्छन्दसा हूयमाना येयमाहुतिस्तया यज्ञप्रारम्भं प्राप्नोति।
प्राचीमनु प्रदिशामित्यस्मिन्ब्राह्मणानुवाके पूर्णया जुहोतीति यद्विहितं तदेवानूज्ञ प्रशंसति –
सप्त ते अग्न इति। अयं च मन्त्रश्चतुर्थकाण्डे प्राचीमित्यनुवाके समा —
[[2516]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(होमविशेषणां राष्ट्रभृदिष्टकानां चाभिधानम्)
म्नातो व्याख्यातश्च। तस्मिन्मन्त्रे सप्त होत्रा इत्यभिधानादनयाऽऽहुत्या होत्रकान्प्रशास्त्रादीनधीनान्करोति। किं च – देवैर्दत्तो योऽयमग्नर्भागस्तद्रूपत्वादियमाहुतिरस्याचीयमानस्याग्नेरग्निहोत्रमित्युच्यते। यस्मिन्काले साकल्येनायमग्निश्चितस्तदैवायमुत्पन्नो भवति। उत्पन्नाय च तस्मै तदाहुतिरूपमन्नं संपादितं भवति। तेन च तृप्तोऽग्निर्यजमानं प्रीणयति। स च यजमानो धनपतिर्भवति। एतदुक्तं सर्वं प्राचीमित्यनुवाक एव द्रष्टव्यम्। अथात्र चीयमानमग्निं प्रश्नोत्तराभ्यामादित्यरूपेण प्रशंसति–––
ब्रह्मवादिनो वदन्तीति। अन्यत्राग्निर्होता गृहपतिरित्यादिषु मन्त्रेष्वग्नेर्गृहपतित्वमुक्तम्। गृहपतिस्वामिकः कश्चित्प्रदेशो गार्हपत्यः। एवं सति पूर्वस्मिन्वाक्य एतद्वा अग्नेरग्निहोत्रमिति चितेऽग्नौ हूयमानायाः पूर्णाहुतेरग्निनस्वामिकत्वाभिधानात्सर्वोऽप्ययं चीयमानो गार्हपत्यः संपन्नः। तस्यादाहवनीयो न लभ्यते। आ समन्तात्सर्वे देवा यत्र हूयन्ते सोऽयमाहवनीयः। सर्वस्यापि चितप्रदेशस्याग्न्यर्थहोमाधारत्वेन गार्हपत्यत्वे सति देवान्तरहोमार्थ आहवनीयोऽस्य यजमानस्य कुत्र संभवोदित्येवं ब्रह्मवादिनां प्रश्नः। तत्राभिज्ञः कश्चिदुत्तरमेवं ब्रूयात् — असावादित्य एव यजमानस्याऽऽहवनीय इति। आदित्ये हि सर्वदेवार्थो होमः क्रियते।
“अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते” इति स्मृतेः।
एवं सति यो यजमानश्चीयमानस्याग्नेरादित्यरूपत्वं ज्ञात्वा चयनं करोति सोऽयं साक्षादेवाव्यवधानेन देवतास्तोषयति।
यदुक्तं सूत्रकारेण — “अग्ने यशस्विन्निति चतस्त्रो राष्ट्रभृतः पुरस्तादुपधाय” इति, तदेतद्विधातुमुत्पादनीयेषु मन्त्रेषु प्रथमामृचमाह—–
अग्ने यशस्विन्निति। प्रभूतं यशो यस्यास्ति स यशस्वी। तादृश हेऽग्न इमं यजमानं यशसाऽर्पय संयोजय। इन्द्रावतीमिन्द्रस्य योग्यामचितीं पूजामिह कर्मण्यावह संपादय। अयं यजमानस्त्वत्प्रसादात्समानानां यजमानानां मध्ये मूर्धा शिरस्थानीयः परमेष्ठ्युत्तमस्थाननिवासी, सुवर्चाः शोभनकान्तिः, उत्तमश्लोकः सत्कीर्तियुक्तश्चास्तु। अथ द्वितीयमाह––
[[2517]]
प्रपा० ७ अनु० ४) कृष्णजुर्वेदीयतैत्तिरीयसंहिता।
(होमविशेषाणां राष्ट्रभृदिष्टकानां चाभिधानम्)
भद्रं पश्यन्त इति। अग्रे पूर्वस्मिन्काल ऋषयः केचिन्महात्मानो भद्रं कल्याणं कर्मफलं पश्यन्त शास्त्रदृष्ट्या निश्चिन्वानाः सुवर्विदः स्वर्गं लब्धुकामास्तप। कर्माङ्गभूतमनशनादिकं दीक्षां मौण्ड्यादिनियमविशेषं चोपसेदुरनुष्ठितवन्तः – ततोऽनुष्ठानात्तेषां क्षत्त्रं क्षतादनिष्टात्त्राणं रक्षणं बलं शरीरसामर्थ्यमोजो धातुपुष्टिश्चेत्येतत्सर्वं जातं संपन्नम्। तत्फलं सर्वमस्मै यजमानाय देवा अभिसंनमन्तु सर्वतः संपादयन्तु। अथ तृतीयामाह —
धाता विधातेति। परमा परम उत्तमो धाता पोषको यो देवो यश्च विधाता स्रष्टा, उतापि च संदृक्सम्यगभिज्ञः प्रजापतिः प्रजानां पालकः परम उत्कृष्टे सत्यलोकादौ तिष्ठतीति परमेष्ठी विराजा ब्रह्माण्डरूपया विराण्मूर्त्या सहितः। तादृशो यो देवो ये च स्तोमस्त्रिवृदादयः, यानि च च्छन्दांसि गायत्र्यादीनि। याश्च निविदो देवेद्धो मन्विद्ध इत्यादीनि निवित्पदानि ते सर्वे मे मदर्थमाहुर्ब्रुवन्तु। तैर्वक्तव्यं प्रदर्श्यते – एतस्मै यजमानाय राष्ट्रमभिसंनमाम देशाधिपत्यं सर्वत संपादयाम। तदिदं तैर्वक्तव्यम्। अथ चतुर्थीमाह —
अभ्यावर्तध्वमिति। हे मनुष्याः सर्वे यूयमभ्यावर्तध्वं सर्वत आगच्छत। साकं परस्परं मिलित्वा मां मदीयं यजमानमुप समीपमेताऽऽगच्छत। अयं यजमानो वो युष्मकं शास्ताऽनुशासकोऽधिपतिरधिकं पालयिता चास्तु। अस्य यजमानस्य विज्ञानं चित्तवृत्तिमनुसृत्य संरभध्वं सम्यक्प्रवर्तध्वम्। इमं यजमानमनुसृत्य पश्चाज्जीवाथ, एनं यजमानं संविज्ञा (या) नेन दत्तं जीवितं गृह्णीतेत्यर्थः।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते —
राष्ट्रभृत एता इति। राष्ट्रशब्दोपेतान्मन्त्रान्बिभ्रति तरुपधीयन्त इति राष्ट्भृतः। एतदुपधानेन निष्पन्ना या चितिः सैषाऽग्नेः संबन्धिनी राष्ट्रभृदित्युच्यते। तयैवास्मिन्यजमाने राष्ट्रं स्थापयति। तच्च राष्ट्रमस्याधीनमेव भवति। अस्माद्यजमानात्तद्राष्ट्रं कदाचिदपि न भ्रष्टं भवति। एतच्च नक्षत्रेष्टकाब्राह्मणादूर्ध्वं द्रष्टव्यम्।
१ वेद्ध मन्विद्ध इ २ ख. च नि स।
[[2518]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता–––(५ पञ्चमकाण्डे–––
(पुनःपरीन्धनाद्यभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णजुर्वे–
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
चतुर्थोऽनुवाकः॥ ४॥
—–––