(अथ पञ्चमाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः)।
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रति
स्प॒शः। यो नः॑ पु॒रस्ता॑द्दक्षिण॒तः प॒श्चादु॑त्त
र॒तो॑ऽघायुर॑भि॒दास॑त्ये॒तँ सोऽश्मा॑नमृच्छतु।
दे॒वा॒सु॒राः संय॑त्ता आस॒न्तेऽसुरा॑ दि॒ग्भ्य आ —
ऽबा॑धन्त॒ तान्दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नु —
दन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण
च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुद॒ते दि॒क्षूप॑
(१) द॒धा॒ति॒ दे॒व॒पु॒रा ए॒वैतास्त॑नू॒पानीः प-
र्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒ मा व॑र्धन्तु वां॒
गिरः॑। द्यु॒म्नैर्वाजे॑भि॒रा ग॑तम्। ब्र॒ह्म॒वा॒दिनो॑
वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किंदेव॒त्या॑
वसो॒र्धारेत्य॒ग्निर्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒
र्वसु॒स्तस्यै॒षा धारा॑ऽऽग्नावैष्ण॒व्यर्चा व॒सो
र्धारां॑ जुहोति भाग॒धेये॑नैवैनौ॒ सम॑र्धय॒त्यथो॑
ए॒ताम् (२) ए॒वाऽऽहु॑तिमा॒यत॑नवतीं करो
ति॒ यत्का॑म एनां जु॒होति॒ तदे॒वाव रुन्धे रु॒द्रो
वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒राऽन्या
शि॒वाऽन्य यच्छ॑तरु॒द्रीयं॑ जु॒होति॒ यैवास्य॑
घो॒रा त॒नूस्तां ते॑न शमयति॒ यद्वसो॒र्धारां॑
जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तां तेन॑ प्रीणति॒
यो वै वसो॒र्धारा॑यै (३) प्र॒ति॒ष्ठां वेद॒ प्र
[[2510]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(५ पञ्चमकाण्डे —
(वज्रिणीष्टकोपधानविधिः)
त्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न्ब्र
ह्मौद॒नं प॑चे॒त्तं ब्रा॑ह्म॒णाश्च॒त्वार॒ प्राश्नी॑युरे॒ष
वा अ॒ग्निर्वै॑श्वान॒रो यद्ब्रा॑ह्म॒ण ए॒षा खलु॒
वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै॑श्वान॒रः प्रि॒याया॑मे॒ —
वैनां॑ त॒नुवां॒ प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नुर्द॑
द्या॒त्ताभि॑रेव॒ यज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निं दु॑हे
(४)॥
(उपै॒तां धारा॑यै॒ षट्च॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके सप्तम
प्रपाठके तृतीयोऽनुवाकः॥३॥
(अथ सप्तमकाण्डे सप्तमप्रपाठके तृतीयोऽनुवाकः)।
द्वितीय ऋषभादीनामुपधानादिकं श्रुतम्।
अथ तृतीये वज्रिणीष्टकोपधानं विधातुं मन्त्रानुत्पादयति-
इन्द्रस्य वज्रोऽसीति। इष्टकास्थानीय हेऽश्मंस्त्वमिन्द्रस्य वज्रोऽसि वज्रसमानोऽसि। कीदृशस्त्वं, वार्त्रघ्नो वैरिघाती, नोऽस्माकं तनूपाः शरीरस्य पालकः, प्रतिस्पशो रोगाद्यनिष्टस्य विनाशयिता। किंच यः शत्रुरघं पापमस्मदुपद्रवमिच्छतीत्यघायुस्तथाविधः सन्पुरस्तात्पूर्वस्यां दिशि नोऽस्मानभिदासति हिनस्ति स शत्रुरेतमश्मानमुपधीयमानं पाषाणमृच्छतु प्राप्नोतु, पाषाणं प्राप्य स्वयमेव व्याधितो भवत्वित्यर्थः। दक्षिणत इत्यादिभिस्त्रिभिः पदैस्त्रयो मन्त्रा भिद्यन्ते। तेषु त्रिष्वप्यवशिष्टमनुषञ्जनीयम्। तैरेतैश्चतुर्भिर्मन्त्रैः साध्यमुपधानं विधत्ते -
देवासुराः संयत्ता इति। यदा देवासुरा युद्धोद्यतास्तदानीमसुराश्चतसृभ्यो दिग्भ्य आगत्य सर्वतो बाधितवन्तः। तान् सुरादेवा इष्वा वज्रसदृशेन पाषाणेन चापानुदन्त। ततो यजमानो भ्रातृव्यापनोदनाय वज्रिणीरुपदध्यात्।
[[2511]]
प्रपा. ७ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वज्रिणीष्टकोपधानविधि)
तस्य चोपधानस्य चितेर्बहिर्देशं विधत्ते —
दिक्षूप दधातीति। या एता वज्रिण्यस्ता देवपुरा एव देवानामिन्द्रादीनां पुरस्थानीया एव। तनूपानीरस्मच्छरीरस्य पालयित्रीः। एतादृशीः परितः स्थापयति। एतदपि नक्षत्रेष्टकाब्राह्मणादूर्ध्वं द्रष्टव्यम्।
यत्पूर्वं विहितं वसोर्धारां जुहोतीति, तदेतदनूद्य विशेषं वक्तुमाम्नातमपि मन्त्रं पुनः पठति —
अग्नाविष्णू इति। हेऽग्नाविष्णू इमा गिरोऽस्माभिः प्रयुक्ताः स्तुतिरूपा वाचः सजोषसा वां परस्परं समानप्रीतियुक्तौ युवां वर्धन्तु परितोषयन्तु। युवां च द्युम्नैर्धनैर्वाजेभिरन्नैश्च सहितावागतमिहाऽऽगच्छतम्। तमिमं मन्त्रं विनियुङ्क्ते-
ब्रह्मवादिनो वदन्तीति। अत्र ब्रह्मवादिन एवं विचारयन्ति — वसोर्धाराया मन्त्रे वाजश्च मे प्रसवश्च म इत्येवं फलप्रार्थनैव प्रतीयते, न तु काचिद्देवता प्रतिपाद्यते। विधिवाक्येऽप्याज्यधारारूपं द्रव्यमेव प्रतीयते, न तु काचिद्देवता। एवं सति होतारो देवतायै यस्मान्न जुह्वति तस्मात्किंदेवत्येयं वसोर्धारेत्येवं प्रश्नः। तत्राभिज्ञा उत्तरमेवमाहुः- विधिवाक्यगतेन वसुधा (सोर्धा) राशब्देनैव द्रव्यदेवतासंबन्धः प्रतीयते। वासयतीति व्युत्पत्त्या वसुरग्निस्तस्येयमाज्यधारा वसोर्धारा। एवं विष्णावपि योज्यम्। यद्यप्येतौ देवौ वाजश्च म इत्यादिना न प्रतीयेते तथाऽप्यनयर्चा प्रतीयेते। तस्मादेतया वसोर्धारां जुहुयात्। तथा सत्युचितेन भागेनैतौ तोषयति। अपि चैतामाहुतिं देवतारूपाधारवतीं करोति। किं च यत्फलं कामयित्वा जुहोति तत्प्राप्नोति। प्रकारान्तरेणैतां प्रशंसति —
रुद्रो वा एष इति। शतरुद्रीयहोमेनोग्रतनोः शान्तावपि शिवा (व) तनोः प्रीत्यर्थोऽयं वसोर्धाराहोम इत्यस्य प्रशंसा। यं विशेषं विधातुमयं प्रसङ्गः कृतस्तं विशेषं विधत्ते —
यो वै वसोरिति। यो यजमानो वसोर्धारायाः प्रतिष्ठाप्रकारं वेद स प्रतितिष्ठत्येव। काऽसौ तस्याः प्रतिष्ठेत्युच्यते- होमावशिष्ट आज्ये ब्रह्मौदनं पक्त्वा ब्राह्मणानां प्राशनं यत्सैव प्रतिष्ठा। ब्राह्मणस्य सर्वपुरुषप्रियत्वेन वैश्वानररूप-
[[2512]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(५ पञ्चमकाण्डे —
(वज्रिणीष्टकोपधानविधिः)
त्वाद्वैश्वानरस्य चाग्निप्रियशरीरत्वात्तस्मिन्नेव प्रियशरीरे तमग्निं प्रतिष्ठापयति। यदुक्तं सूत्रकारेण - “यदाज्यमुच्छिष्येत तस्मिन्ब्रह्मौदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेच्चतुःशरावं वौदानं पक्त्वा तद्व्यञ्जनं भोजयेत्प्राशितवद्भ्यश्चतस्रो धेनूर्दद्यात्” इति, तच्च दानं विधत्ते चतस्रो धेनूरिति।
अत्र मीमांसा।
तृतीयाध्यायस्य षष्ठपादे द्वादशाधिकरणे चिन्तितम् —
अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः।
सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते॥
प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः।
अखण्डत्वादयोऽग्न्यर्थाश्चित्रिण्यादिषु सन्ति ते
अनारभ्य श्रूयते - ‘चित्रिणीरुपदधाति” इति, ‘वज्रिणीरुपदधाति’ इति च। अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः - ‘अखण्डामकृष्णां कुर्यात्’ इति। पूर्वत्रांश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वेऽपि विनियोजकवाक्यं प्रकरणाधीतम्। तच्च चित्रिण्यादिनामकानामिष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याधीतम्। तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते। अखण्डत्वादिधर्मास्तु षण्णां चितीनं मध्ये प्रथमचितावाम्नाताः। तस्मात्ते चित्रिण्यादिषु नोचिता इति प्राप्ते ब्रूमः - यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति तथाऽपि ‘य एवं विद्वानग्निं चिनुते’ इति प्रकृतं यदेतदग्न्यपूर्वं तत्संबन्धित्वेनैव चित्रिण्यादयोऽप्यप्रकरणपठितेनापि वाक्येन विनियुज्यन्ते। अखण्डत्वादयश्चाग्निसाधनभूतेष्टकाधर्मा न तु प्रथमचितिधर्माः। तस्मादग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति।
पञ्चमाध्यायस्य तृतीयपादे सप्तमाधिकरणे चिन्तितम्
चित्रिण्यादेरुत्तमायामुपधानं पुराऽथवा।
अव्यवायादुत्तमायां मध्यमायां तु वाक्यतः॥
उत्तमायां पञ्चम्यां चितौ चित्रिण्यादेरनारभ्याधीताया इष्टकाया उपधानं
१ ख. घ. ङ. च. रावमोद।
[[2513]]
प्रपा० ६ अनु० ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(होमविशेषाणां राष्ट्रभृदिष्टकानां चाभिधानम्)
युक्तम्। तथा सति प्रकरणाधीतानां कॢप्तक्रमाणामिष्टकानां परस्परव्यवधानं न प्रसज्येतेति चेन्मैवम्। यां कांचिद्ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां चितौ’ इति वाक्येनानारभ्याधीतेन ब्राह्मणेन विहितानामिष्टकानां मध्यमचितौ निवेशः। तत्रैवान्यच्चिन्तितम् —
लोकंपृणात ऊर्ध्वं स्याच्चित्रिण्युत ततः पुरा।
बादरायणदृष्ट्योर्ध्वं पूरणोक्तेस्ततः परा॥
“चित्रिणीरुपदधाति’ ‘वज्रिणीरुपदधाति’ ‘भूतेष्टका उपदधाति’ इति विहितं चित्रिण्यादिकं मध्यमायां चितौ लोकंपृणाभिधाया इष्टकाया ऊर्ध्वमुपधेयम्। कुतः। बादरायणेन तथा दृष्टत्वात्। ‘अन्ते तु बादरायणः’ (मी. ५–२–१९) इति सूत्रेण बादरायणस्य मतमृपन्यस्तम्। स ह्यागन्तूना मन्ते निवेशमाह। लोकंपृणा च प्रकरणपठितानामन्तिमेष्टका। ततस्तस्या ऊर्ध्वं चित्रिण्यादिकमिति प्राप्ते ब्रूमः – लोकं पृण छिद्रं पृणेत्यनेन मन्त्रेणोपधीयमानेष्टका लोकंपृणा। तस्याः कर्मण्यूनत्वादिदोषपरिहारेण संपूर्तिहेतुत्वं मन्त्रलिङ्गादवगम्यते। ब्राह्मणेऽप्येवमाम्नातम् – ‘यदेवास्योनं यच्छिद्रं तदेतया परिपूरयति लोकं पृण छिद्रं पृण’ इति। यद्येतस्या इष्टकाया ऊर्ध्वं चित्रिण्यादय उपधीयेरंस्तदानीं चित्रिण्यादिगते ऊनत्वच्छिद्रत्वे न पूर्येयाताम्। तस्माल्लोकंपृणातः पूर्वं चित्रिण्याद्युपधानम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
तृतीयोऽनुवाकः॥३॥
—––