(अथ पञ्चमाष्टके सप्तमप्रपाठके द्वितीयोऽनुवाकः)।
त्वाम॑ग्ने वृष॒भं चेकि॑तानं॒ पुन॒र्युवा॑नं ज॒नय॑-
न्नु॒पागा॑म्। अ॒स्थू॒रिणो॒ गार्ह॑पत्यानि सन्तु
ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सँ शि॑शाधि। प॒शवो॒
वा ए॒ते यदिष्ट॑का॒श्चित्यां॑चित्यामृ॒षभमुप॑ द-
धाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑-
नाय॒ तस्मा॑द्यू॒थेयू॑थ ऋष॒भः। सं॒व॒त्स॒रस्य॑
प्रति॒मां यां त्वा॑ रात्र्यु॒पास॑ते। प्र॒जाँ सु॒वी-
रां॑ कृ॒त्वा विश्व॒मायु॒र्व्य॑श्नवत्। प्रा॒जा॒प॒त्याम्
(१) ए॒तामुप॑ दधाती॒यं वावैषैका॑ष्ट॒का य-
दे॒वैका॑ष्ट॒काया॒मन्नं॑ क्रि॒यते॒ तदे॒वैतयाऽव॑
रुन्ध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व य-
ज॑मानो॒ऽमुष्मिल्ँ॑ लो॒के॑ऽग्निं दु॑हे॒ येन॑ दे॒वा ज्यो-
ति॑षो॒र्ध्वा उ॒दाय॒न्येना॑ऽऽदि॒त्या वस॑वो॒ रु॒द्राः।
येनाङ्गि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मा-
नः स्व॒ति। सु॒व॒र्गाय वा ए॒ष लो॒काय॑ (२)
ची॒य॒ते॒ यद॒ग्निर्येन॑ दे॒वा ज्योति॑षो॒र्ध्वा उ॒दा-
य॒न्नित्युख्यँ॒ समि॑न्ध॒ इष्ट॑का ए॒वैता उप॑
धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑-
ष्ट्यै श॒तायु॑धाय श॒तवी॑र्याय श॒तोत॑येऽभि-
माति॒षाहे॑। श॒तं यो नः॑ श॒रदो॒ अजी॑ता॒नि-
न्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा॑। ये च॒त्वारः॑
[[2504]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५पञ्चमकाण्डे —
(ऋषभेष्टकाद्यभिधानम्)
प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒-
यन्ति॑। तेषां॒ यो अज्या॑नि॒मजी॑तिमा॒वहा॒त्त-
स्मै॑ नो देवाः (३) परि॑ दत्ते॒ह सर्वे॑। ग्री॒ष्मो
हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद्व॒र्षाः सु॑वि॒तं नो॑
अस्तु। तेषा॑मृतू॒नाँ श॒तशा॑रदानां निवा॒त
ए॑षा॒मभ॑ये स्याम। इ॒दुव॒त्स॒राय॑ परिवत्स॒राय॑
संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑। तेषां॑ व॒यँ
सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑ताः स्या-
म। भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट दे॑वा॒स्त्वया॑ऽव॒-
सेन॒ सम॑शीमहि त्वा। स नो॑ मयो॒भू पि॑तो
(४) आ वि॑शस्व॒ शं तो॒काय॑ तनुवे॑ स्यो॒नः।
अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑-
राजिता॒स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्र-
ह्मवा॒दिनो॑ वदन्ति॒ यद॑र्धमा॒सा मासा॑ ऋ॒तवः॑
संवत्स॒र ओष॑धीः॒ पच॒न्त्य॒थ कस्मा॑द॒न्याभ्यो॑
दे॒वता॑भ्य आग्रय॒णं निरु॑प्यत॒ इत्ये॒ता हि
तद्दे॒वता॑ उ॒दज॑य॒न्यदृ॒तुभ्यो॑ नि॒र्वपे॑द्दे॒वता॑भ्यः
स॒मदं॑ दध्यादाग्रय॒णं नि॒रुप्यै॒ता आहु॑तीर्जु
होत्यर्धमा॒साने॒व मा॒सा॑नृ॒तून्त्सं॑वत्स॒रं प्री॑णा
ति॒ न दे॒वता॑भ्यः स॒मदं॑ दधाति भ॒द्रान्नः॒
श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॒ह हु॒ताद्या॑य॒ यज॑ —
मान॒स्याप॑राभावाय(५)॥
[[2505]]
प्रपा. ७ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋषभेष्टकाद्यभिधानम्)
(प्रा॒जा॒प॒त्यां लो॒काय॑ देवाः पितो दध्यादाग्रय॒णं पञ्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके द्वितीयोऽनुवाकः॥२॥
अथ पञ्चमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः)।
चितिस्पर्शादिकं त्वाद्येऽनुवाकेऽत्र समीरितम्।
अथ द्वितीय ऋषभेष्टकादिकमभिधीयते। यदुक्तं सूत्रकारेण — “त्वामग्ने वृषभमित्यृषभमुपधाय” इति, तदिदं विधातुं मन्त्रमुत्पादयति —
त्वामग्ने वृषभमिति। हेऽग्ने वृषभं कामानां वर्षितारं चेकितानं सवज्ञं युवानं नित्यतरुणं त्वां जनयन्प्रजोत्पादकं कुर्वन्नहं पुनरुपागां भूयो भूयः प्राप्नोमि। नोऽस्माकं गार्हपत्यानि गृहपतिकर्माण्यस्थूरि सन्तु। स्थूरिशब्दः सारवाची। अस्थूरीणि साररहितानि सन्तु। निग्मेनोज्ज्वलेन ब्रह्मणा ब्रह्मवर्चसेन नाऽस्मान्संशिशाधि सम्यगनुशिष्टान्कुरु। एतन्मन्त्रसाध्यमुपधानं विधत्ते -
पशवो वा इति। या एता अन्या इष्टकास्ताः सर्वा गोरूपाः। अतो यज्ञे तासां मिथुनभावायैतामृषभाख्यामिष्टकामुपदध्यात्। यस्मादत्रै (कै) कस्यां चित्यामृषभमु (उ) पधीयते तस्माल्लोकेऽप्येकैकस्मिन्गोयूथ एकैक ऋषभस्तिष्ठति। सर्वचितिष्वपेक्षितत्वादिदं ब्राह्मणं प्रथमचित्यन्ते द्रष्टव्यम्।
यदुक्तं सूत्रकारेण - ‘संवत्सरस्य प्रतिमामिति प्राजापत्याम्’ इति, तदिदं विधातुं मन्त्रमुत्पादयति —
संवत्सरस्येति। हे रात्रि एकाष्टकारूपे यां त्वा प्रतिमां प्रतिनिधिरूपां सर्वे यजमाना उपासते सेवन्ते, ‘एषा वै संवत्सरस्य पत्नी यदेकाष्टकैतस्यां वा एष एताँ रात्रिं वसति’ इति ह्यन्यत्राऽऽम्नातम्। तां त्वां कृत्वेहोपधाय सुवीरां शोभनभृत्योपेतां प्रजां पुत्रादिरूपां विश्वमायुः कृत्स्नमप्यायुष्मं व्यश्नवद्विशेषेण व्याप्नोति। एतन्मन्त्रसाध्यमुपधानं विधत्ते -
प्राजापत्यमिति। एकाष्टकायाः संवत्सररूपप्रजापतिपत्नीत्वात्तद्रूपेयमि
[[2506]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५पञ्चमकाण्डे —
(ऋषभेष्टकाद्यभिधानम्)
ष्टका प्राजापत्या, तामेतामुपदध्यात्। एषा चैकाष्टकेयमेव भूमिस्वरूपा। तथा सति भूमिरूपायामेतस्यामेकाष्टकायां यदन्नं संपाद्यते तत्सर्वं प्राप्नोति। किंचेयमेकाष्टका संवत्सररूपस्य प्रजापतेः कामधेनुः। अतस्तयैव यजमानोऽमुष्मिल्ँ लोके (अग्निं) कामान्दुहे दुग्धे। एतच्च नक्षत्रेष्टकाब्राह्मणादूर्ध्वं द्रष्टव्यम्।
यदुक्तं सूत्रकारेण - “येन देवा ज्योतिषोर्ध्वा उदायन्निति प्रादेशमात्रैः काष्ठैरुख्यमुपसमिन्धे” इति, तदिदं विधातुं मन्त्रमुत्पादयति —
येन देवा ज्योतिषेति। देवाः सर्वे येन ज्योतिषाऽग्निनोर्ध्वा उपरितनलोकवर्तिन उदायन्नुत्कर्षं प्राप्ताः। तथाऽऽदित्याः वसवश्च येनोदायन्रुद्राश्च येनाग्निनोदायन्, अङ्गिरसो महर्षयो येनाग्निना महिमानमानशुः स्वकीयं सामर्थ्यं प्राप्तास्तेनाग्निना यजमानोऽयं स्वस्ति क्षेममेतु प्राप्नोतु।
तमिमं मन्त्रं विनियुङ्क्ते —
सुवर्गाय वा एष इति। अस्याग्नेः स्वर्गार्थं चीयमानत्वात्स्वर्गस्थसर्वदेवप्रतिपादकेन मन्त्रेणेन्धने सति याभिः समिद्भिरिध्यते ताः सर्वा वानस्पत्या इष्टका एवोपहिता भवन्ति। तच्च स्वर्गप्राप्त्यै संपद्यते। एतच्च “विष्णुमुखा वै देवाः” इत्यनुवाके द्रष्टव्यम्।
यदुक्तं सूत्रकारेण — “शतायुधाय शतवीर्यायेति पञ्चाज्यानीः प्रतिदिशमेकां मध्ये” इति, तत्र प्रथमामाह —
शतायुधायेति। य इन्द्रो नोऽस्माञ्शतं शरदः शतसंख्याकान्संवत्सरान-जीतान्नेषत्केनापि व्याधितस्करादिना यथा जिताः पीडिता न भवामस्तथा नेतुं समर्थः। किं कृत्वा, विश्वा दुरितान्यति सर्वाणि पापान्यतिक्रम्य यानि पापान्यस्माभिः कृतानि तानि सर्वाणि विनाश्य। सर्वस्मिन्नप्यायुष्यस्मान्केनाप्यनुपद्रुतान्करोतीत्यर्थः। तस्मा इन्द्राय नमोऽस्त्वित्यध्याहारः। कीदृशाय, शतसंख्याकान्यायुधानि वज्रधनुरादीनि यस्यासौ शतायुधस्तस्मै। शतसंख्याकानि वीर्याणि युद्धेषु विजयरूपाणि यस्यासौ शतवीर्यस्तस्मै। शतसंख्याका ऊतयोऽस्मद्रक्षणानि यस्यासौ शतोतिस्तस्मै। अभिमातिषाहे (अभिमातिं) पाप्मानं सहतेऽभिभवतीत्यभिमातिषाट् तस्मै। अथ द्वितीयामाह —
[[2507]]
प्रपा. ७ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋषभेष्टकाद्यभिधानम्)
ये चत्वारः पथय इति। द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये ये चत्वारः पथयो मार्गा वियन्ति विविधं गच्छन्ति प्रवर्तन्ते। कीदृशा मार्गाः, देवयाना देवानां यानं गमनं येषु ते देवयानाः। देवा हि देवलोकपितृलोकब्रह्मलोकमनुष्यलोकविषयेषु मार्गेषु विस्रम्भेण संचरन्ति। तेषां मार्गाणां य इन्द्रोऽज्यानिमजीतिमावहात्, रक्षःप्रभृतिभिरनुपद्रवोऽजीतिः। सा चाजीतिरज्यानिः कदाचिदपि हानिरहिता, तादृशीमजीतिमावहति तेषु मार्गेषु गच्छतामस्माकं नित्यमनुपद्रवं संपादयतीत्यर्थः। तस्मा इन्द्राय हे सर्वे देवा इह कर्मेणि नोऽस्मान्परिदत्तायं यजमानः सर्वेषु मार्गेषु रक्षणीय इत्येवमस्मानिन्द्राय समर्पयत। अथ तृतीयामाह
ग्रीष्मो हेमन्त इति। यो ग्रीष्माख्य ऋतुः स नोऽस्मान्प्रति सुवितमस्तु शोभनगतिं प्राप्नोतु। स्वकालोचितभोग्यद्रव्यप्रदोऽस्त्वित्यर्थः। एवं हेमन्तादिषु योज्यम्। शतशारदानामस्मदायुषि शतसंवत्सरसंबन्धिनां तेषामेषां ग्रीष्मादीनामृतूनामनुग्रहाद्वयं निवाते वाताद्युपद्रवरहितेऽभये भयरहिते स्थाने स्याम सुखेनावस्थिता भवेम। अथ चतुर्थीमाह —
इदुवत्सरायेति। प्रभवादिसंवत्सराणां पञ्चके चतुर्थ इदुवत्सरः। द्वितीयः परिवत्सरः। प्रथमः संवत्सर एतच्च कृत्स्नकालस्याप्युपलक्षणम्। हे ऋत्विग्यजमाना इदुवत्सरादिरूपाय कालाय बृहन्नमः कृणुतात्यन्तभक्तिपुरःसरं नमस्कारं कुरुत। यज्ञियानां यज्ञनिष्पादकानां तेषां संवत्सरविशेषाणां सुमतावनुग्रहबुद्धौ सत्यां वयं सर्वे ज्योक्चिरमजीताः केनाप्यवशीकृता अहता अमारिताश्च स्याम भवेम्।
अथ पञ्चमीमाह —
भद्रान्नः श्रेय इति। हे देवा भद्रात्कल्याणादस्मात्कर्मसाधनभूताच्छ्रेयोऽधिकं प्रशस्तं फलं नोऽस्मान्समनैष्ट सम्यक्प्रापयत। तथा चित्याग्नौ हूयमान हे सोम त्वयाऽवसेन त्वदीयेन रक्षणेन वयं त्वां समशीमहि सम्यग्व्याप्नुयाम। हे पितो अन्नभूत सोम स त्वं मयोभूः सुखस्य भावयिता सन्नोऽस्मानाविशस्व प्रविश तोकायास्मदपत्याय शं सुखं कुरु, तनूवे शरीराय स्योन सुखप्रदो भव।
[[2508]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(ऋषभेष्टकाद्यभिधानम्)
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते
अज्यानीरेता इति। अज्यानिशब्दोपेतैर्मन्त्रैरुपधेया इष्टका अज्यानयस्ता (एता) उपदध्यात्। एतैर्मन्त्रैः प्रतिपाद्या या इन्द्रादिदेवता एताः सर्वा देवताः क्वाप्यपराजिताः। अयं यजमानस्ता एव देवताः प्रविशति, केनाप्यन्येन शत्रुणा नैव जीयते। एदपि नक्षत्रेष्टकाब्राह्मणसमीपे द्रष्टव्यम्।
अथाऽऽग्रयणप्रस्तावे यदुक्तं सूत्रकारेण — “निरुप्तं हविरुपसन्नमप्रोक्षितं भवत्यथ पञ्चाज्यानीजुहोति शतायुधाय शतवीर्यायेति” इति, तदिदं विधत्ते —
ब्रह्मवादिनो वदन्तीति। ब्रह्मवादिनः परस्परमेवं विचारयन्ति — अर्धमासमासर्तुसंवत्सररूपा देवता ओषधीनां परिपाकं संपादयन्ति। एवं सति ता देवता उपेक्ष्यान्याभ्य इन्द्राग्न्यादिभ्यो देवताभ्य आग्रयणाख्यं नूतनधान्यरूपं हविः कस्मात्कारणान्निरुप्यत इति। तत्राभिज्ञा एवमुत्तरमाहुः - यस्मादेता इन्द्राग्न्यादिभ्यो देवता इतरैदर्वैतैः सह समयं कृत्वा तत्र तत्रौषधिविषय उत्कर्षेण जयं प्राप्ताः, तस्मादिन्द्राग्न्यादिभ्यो निर्वापो युक्तः। एतच्च राजसूयप्रकरण आग्रयणविधौ स्पष्टमाम्नातम् — ‘देवा वा ओषधीष्वाजिमयुः। ता इन्द्राग्नी उदजयताम्’। इति। एव सति जेतॄनिन्द्राग्न्यादीनुपेक्ष्य यद्यृतुमासादिदेवताभ्यो निर्वपेत्तदानीमेतासां तासां च देवतानां कलहं संपादयेत्। एवं तर्ह्योषधिपरिपाकहेतूनामृतुमासादिदेवतानां परितोषः कथमिति चेच्छ्रूयताम्। इन्द्राग्न्यादिभ्य आग्रयणं निरुप्य शतायुधायेत्येता अज्यान्याहुतीर्मासादिदेवताभ्यो जुहुयात्। तेनार्धमासादिदेवता प्रीणयति। ततो देवतानां कलहं न करोति। यदपि सूत्रकारेणाऽऽग्रयणप्रस्तावे विहितं ‘भद्रान्नः श्रेयः समनैष्ट देवा इति यजमानभागं प्राश्नाति’ इति, तं विधिं मन्त्रव्याख्यानरूपार्थवादेनोन्नयति —
भद्रान्नः श्रेय इति। यजमानो भक्षणकाले भद्रादित्यादिमन्त्रं पठेत्। अयं च मन्त्रो हुतशेषस्यादनाय समर्थः। अशीमहीतिमन्त्रलिङ्गात्। हुतभक्षणेन यजमानः पराभूतो न भवति। एतच्च ब्राह्मणमाग्रयणविधिसमीपे नेतव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
द्वितीयोऽनुवाकः॥२॥
[[2509]]
पा. ७ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वज्रिणीष्टकोपधानविधिः)