०१

(तत्र प्रथमोऽनुवाकः)।
ह॒रिः ॐ।
यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वता॑ —
भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒ —
य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत्त्रि —
ष्टुभा॑ द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑
चतु॒र्थीं प॒ङ्क्त्या प॑ञ्च॒मीं य॑थादेव॒तमे॒वाग्निं
चि॑नुते॒ न दे॒वता॒भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भ —
व॒तीडा॑यै वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒ —
शुभि॑रेनम् (१) चि॒नु॒ते॒ यो वै प्र॒जाप॑तये
प्रति॒प्रोच्या॒ग्निं चि॒नोति॒ नाऽऽर्ति॒मार्छ॒त्यश्वा॑ —
व॒भित॑स्तिष्ठेतां कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दक्षि॑ —
ण॒स्तावालभ्येष्ट॑का॒ उ॑प दध्यादे॒तद्वै प्र॒जाप॑ते
रू॒पं प्रा॑जाप॒त्योऽश्वः॑ सा॒क्षादे॒व प्र॒जाप॑तये
प्रति॒प्रोच्या॒ग्निं चि॑नोति॒ नाऽऽर्ति॒मार्छ॑त्ये॒तद्वा
अह्नो॑ रू॒पं यच्छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒त —
दह्नः॑ (२) रू॒पं यदिष्टका॒ रात्रि॑यै॒ पुरी॑ —
ष॒मिष्ट॑का उपधा॒रस्यञ्छ्वे॒तमश्व॑म॒भिमृ॑शे॒त्पु —
री॑षमुपधा॒स्यन्कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैनं॑ चि —
नुते हिरण्यपा॒त्रं मधोः॑ पू॒र्णं द॑दाति मध॒

[[2501]]

प्रपा. ६ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(चितिस्पर्शाद्याभिधानम्)
व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्याऽवे॑क्षते चि॒त्र-
मे॒व भ॑वति म॒ध्यंदि॒नेश्व॒मव॑ घ्रापयत्य॒सौ
वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒
त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑ध्नोति (३)॥
(ए॒न॒मे॒तदह्नो॒ऽष्टाच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
सप्तमप्रपाठके प्रथमोऽनुवाकः॥१॥


(अथ पञ्चमकाण्डे सप्तमः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वासितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥१॥
उपानुवाक्यं यत्प्रोक्तं द्वयोः पञ्चमषष्ठयोः।
ततोऽवशिष्टं तत्सर्वं सप्तमेऽत्राभिधीयते॥२॥
तत्राऽऽदौ तावन्मन्त्रविशेषैश्चितीनामभिमर्शनं विधत्ते —
यो वा अयथेति। यस्याश्चितेर्या देवता तामतिक्रम्य चयनमयथादेवतम-नतिक्रमणं यथादेवतम्। अतो यथादेवतमनुष्ठानायाऽऽग्नेयगायत्र्यादिभिस्तां तां चितिमभिमृशेत्। अग्ने देवाँ इहाऽऽ वहेत्याग्नेयी गायत्री। अगन्म महा मनसायविष्ठमिति त्रिष्टुप्। मेधाकारमिति जगती। मनुष्यत्वा निधीमहत्यिनुष्टुप् अग्निर्हि वाजिनमिति पङ्क्तिः। ता एता नाचिकेतचयनप्रकरणे यत्ते चितमित्यनुवाके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यन्ते। एवमभिमदर्शने सति नोक्तदोषः कश्चिदप्यस्ति।
एकैकचितिस्पर्शने योऽयं मन्त्रविभागस्तमिमं प्रशंसति —
इडायै वा इति। विभक्तिर्गायत्र्यादिमन्त्रविभागः। स चात्रेडार्थं क्रियते। इडा हि नाम पशवः, पशवो वा इडेति श्रुत्यन्तरात्। गायत्र्यादिच्छन्दांसि च।

[[2502]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५पञ्चमकाण्डे —
(चितिस्पर्शाद्यभिधानम्)
पशुस्वरूपाणि। पशवो वै छन्दाँसीति श्रुत्यन्तरात्। अतो गायत्र्यादिरूपैः पशुभिरेनमग्निं चितवान्भवति। एतच्च ब्राह्मणं पशुर्वा एष यदग्निरित्यनुवाके प्रथमचित्यवसाने द्रष्टव्यम्। अथोपधानेऽश्वस्पर्शनं विधत्ते —
यो वै प्रजापतय इति। प्रजापतिरग्निं प्रति स्रष्टृत्वात्प्रथमं चेतृत्वाच्चाग्नेः स्वामी। अतस्तस्मै कथयित्वा तदनुज्ञया चयने कृते सति न विनाशं प्राप्नोति। अतः कथनीयम्। पार्श्वयोर्द्वावश्वाववस्थाप्य तौ स्पृष्ट्वा पश्चादुपदध्यात्। एतदश्वाख्यं शरीरं प्रजापतेः स्वरूपं, प्रजापत्यक्षिजन्यत्वेन तस्य प्राजापत्यत्वात् अतोऽश्वस्पर्शनमेव प्रजापतये कथनं तेनासौ न विनश्यति।
तत्र स्पर्शने विषव्यवस्थां विधत्ते —
एतद्वा अह्नो रूपमिति। श्वेतोऽश्व इष्टकाश्चेत्युभयमह्नो रूपम्। अत इष्टका उपधास्यञ्श्वेतमभिमृशेत्। कृष्णोऽश्वः पुरीषं चेत्युभयं रात्रेः स्वरूपम् तत्स्वरूपे वर्णसाम्यं हेतुः। यदा पुरषिमुपधास्यति तदा कृष्णमभिमृशेत्। एवं सत्यहोरात्राभ्यामेवैनमग्निं चितवान्भवति। एतच्च ब्राह्मणमग्ने तव श्रवो वय इत्यानुवाके द्रष्टव्यम्।
यदुक्तं सूत्रकारेण — “दक्षिणाकाले हिरण्यापात्रं मघोः पूर्णं शतमानस्य कृतं चित्रं देवानामित्यवेक्ष्याश्वेनावघ्राप्य ब्रह्मणे ददाति” इति, तत्र दानं विधत्ते —
हिरण्यपात्रमिति। परलोके मधुरभोग्यद्रव्ययुक्तो भविष्यामीत्यभिप्रेत्य मधुना पूर्णं सुवर्णपात्रं दद्यात्। दात्रा च दानात्पूर्वकालीनमवेक्षणं विधत्ते —
सौर्या चित्त्रवत्येति। महाह्नस्य दक्षिणाकालत्वात्तदानीं दातुमादौ मधुपूर्णं पात्रं मन्त्रेणावेक्षेत। चित्रं देवानामित्येषा सौरी चित्रशब्दयुक्ता च। तयाऽवेक्षणे सति चित्रमेवैश्वर्यं प्राप्नोति। अवेक्षणादूर्ध्वं घ्रापणं विधत्ते —
अश्वमव घ्रायतीति। योऽयं चित्रवत्या प्रतिपाद्य आदित्यः स एव परमैश्वर्योपेतत्वादिन्द्रः, प्रजानां परिपालकत्वात्प्रजापतिः। अवघ्राताऽश्वः प्राजापत्यः। अतोऽश्वावघ्रापणेन तं प्रजापतिमिन्द्रमादित्यमेव साक्षात्समृद्धं करोति। तदिदं ब्राह्मणमन्ते द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्तमप्रपाठके
प्रथमोऽनुवकः॥१॥


[[2503]]

प्रपा. ७ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋषभेष्टकाद्यभिधानम्)