(अथ पञ्चमाष्टके षष्ठप्रपाठके त्रयोविंशोऽनुवाकः)।
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒
पृष॑न्त॒स्त्रयो॒ वार्षिकाः॒ पृश्न॑य॒स्त्रयः॑ शारदाः
पृ॑श्निस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑
शैशि॒राः सं॑वत्स॒राय॒ निव॑क्षसः (१)॥
(पि॒शङ्गा॑ विँश॒तिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके त्रयोविंशऽनुवाकः॥२३॥
हि॑रण्यवर्णा अ॒पां ग्रहा॑न्भूतेष्ट॒काः स॒जूः सं॑वत्स॒रमुख्यं॑ प्रजा॒पतिः॒ स क्षु॒र-पविरग्नेर्वै दी॒क्षया॑ सुव॒र्गाय॒ तं यन्न सू॒यते॑ प्र॒जाप॑तितुभी॒ रोहि॑तः॒ पृश्निः॑ शिति बा॒हुरु॑न्न॒तः क॒र्णाः शु॒ण्ठा इन्द्रा॒यादि॑त्यै सौ॒म्या वा॑रु॒णाः सोमा॒यैका॑दश पिशङ्गा॒स्त्रयो॑विँशतिः॥२३॥
हिर॑ण्यवर्णा भूतेष्ट॒काश्छन्दो॒ यत्कनी॑याँसं त्रि॒वृद्ध्य॑ग्निर्यद्द्वे वा॑रु॒णाश्चतुः॑पञ्चा॒शत्॥५४॥
हरि ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठः प्रपाठकः॥६॥
[[2499]]
प्रपा. ६ अनु. २३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋतुपश्वभिधानम्)
(अथ पञ्चमकाण्डे षष्ठप्रपाठके त्रयोविंशोऽनुवाकः)।
अथर्तुपशूनाह-
पिशङ्गास्त्रय इति। पिशङ्गा गोरोचनवर्णाः। सारङ्गाः सारङ्गवर्णाः। पृषन्तो विजातीयबिन्दुयुक्ताः। पृश्नयः श्वेताः। पृश्निसक्थाः कटिभागे श्वेतवर्णाः। अवलिप्ताः संकीर्णवर्णाः वसन्ताद्यृ (द्या ऋ) तवस्तेषाम्। संवत्सरदेवतायास्तु निवक्षसो निम्नेन वक्षसा युक्तः॥
अत्रास्य प्रपाठकस्य विनियोगसंग्रहः -
कुम्भेष्टकामन्त्रणार्था हिरण्येति त्रयोदश।
दिवीति चरुमादध्याद्देवस्येत्यभिषेचनम्॥१॥
सजूराहुतयः पञ्च घृतेनेत्यनुषज्यते।
पृष्टो वैश्वानरी याऽत्र पुरीषं स्थापयेत्तया॥२॥
अन्वारोहेच्चितिं स्वामी पृथिवीमाक्रमीत्यतः।
इष्टो यज्ञस्तस्य ते द्वे समिष्ठयजुषी मते॥३॥
पिता मातेतिमन्त्रेण चित्यग्निमनुशंसति।
अश्वमेधस्य पशवो रोहिताद्या उदीरिताः॥४॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
त्रयोविंशोऽनुवकः॥२३॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
पञ्चमकाण्डे षष्ठः प्रपाठकः॥६॥
१ क. यक्ता. २ ख. ङ. च याज्ञे। घ याजे। ३ क. घ. ङ. तथा। अ।
[[2500]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता——(५ पञ्चमकाण्डे—-
(चितिस्पर्शाद्यभिधानम्)