(अथ पञ्चमाष्टके षष्ठप्रपाठके द्वाविंशोऽनुवाकः)।
एकाद॑श प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते
छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते
त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑
भवन्त्याग्ने॒य ऐ॑न्द्रा॒ग्न आ॑श्वि॒नस्ते वि॑शाल॒-
यू॒प आ ल॑भ्यन्ते (१)॥
(एका॑दश॒ पञ्च॑विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके सप्तमोऽनुवाकः॥७॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके द्वाविंशोऽनुवाकः)।
अथोत्तमेऽह्नि अतिरात्रेऽनुष्ठेयान्कांश्चित्पशूनाह —
एकादश प्रातर्गव्या इति। तृतीयेऽह्नि प्रातःकाले गोजातीय एकादश पशवः। ते च देवताविशेषस्यानुक्तत्वात्प्राजापत्याः। छगलादयस्त्रयस्त्वाष्ट्राः छगलश्छागार्भकः। स च कल्माषः कृष्णवर्णमिश्रः। किकिदीविस्तित्तिरिः विदीगयः कुक्कटविशेषः। एते च तस्मिन्नेवाहन्यालब्धव्याः। सौरीः सूर्यदेवता-
[[2498]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(ऋतुपश्वभिधानम्)
काः। अनूबन्ध्याश्चरमकालीनाः पशवः। ताश्च वशा बन्ध्याः श्वेताः श्वेतवर्णा नवसंख्याकाश्च भवन्ति। पुनरप्याग्नेयादयस्त्रयः पशव आलभ्यन्ते। ते च त्रयो मध्यमे यूपेऽतिविस्तृताग्निष्ठाख्ये यूप आलभ्यन्ते॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे- दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
द्वाविंशोऽनुवाकः॥२२॥