२१

(अथ पञ्चमाष्टके षष्ठप्रपाठके एकविंशोऽनुवाकः)।
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒-
ग्निभ्या॑मोजो॒दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्यां॑ बल॒-
दाभ्याँ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒-
ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे
धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑
वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ
प॑रिम॒रौ (१)॥
(सोमा॑य॒ स्व॒राज्ञे॒ चतु॑स्त्रिँशत्)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके एकविंशोऽनुवाकः॥२१॥


(अथ पञ्चमकाण्डे षष्ठप्रपाठके एकविंशोऽनुवाकः)।
एवमेतैर्दशभिरनुवाकैरष्टादशिनः पशव आम्नाताः। अथैकेनानुवाकेन द्वंद्विनः पशूनाह —
सोमाय स्वराज्ञ इति। अनोवाहौ शकटवहनसमर्थावनड्वाहौ बलीवर्दौ। ओजोदाभ्यामष्टमधातुप्रदातृभ्यामुष्टारौ शकटवाहिनोः सहकारित्वेन पुरोगामियुगवोढारौ। सीरवाहौ लाङ्गलवाहिनाववी अविसदृशौ ह्रस्वावनड्वाहावित्यर्थः। भूमेर्धेनुद्वयम्। दिशां वडबाद्वयम्। पुनर्भूमेर्धनुद्वयम्। विराड्देवतायाः पुरुषी

[[2497]]

प्रपा. ६ अनु. २१) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋतुपश्वभिधानम्)
मनुष्यस्त्रियौ। पुनर्भूमेर्धेनुद्वयम्। आरोहणवाहौ मनुष्यारोहणार्थं निर्मितं शकटं वहन्तौ बलीवर्दौ। पूर्वं तु धान्यादिवाहिशकटार्थावुक्तौ। अत्र तु राजकुमारादिविनोदार्थशकटवाहिनावित्यर्थः। वरुणस्य तु कृष्णमृगजातीये स्त्रियो वन्ध्ये। द्युदेवतायास्त्वराड्यावुच्छ्रितशृङ्गौ। ऋषभौ सेचकौ। परिमरावुभयतो मरणयुक्तौ। यस्य पशोरग्रजोऽपि मृतोऽनुजोऽपि मृतस्तादृशौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
एकविंशोऽनुवाकः॥२१॥