२०

(अथ पञ्चमाष्टके षष्ठप्रपाठके विंशोऽनुवाकः।
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒
त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्र
यो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒
पृश्न॑यः सर्वदे॒वत्या॑ ऐन्द्रासू॒राः श्येत॑ललामा-
स्तूप॒राः (१)॥
(वा॒रु॒णा विँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके विंशोऽनुवाकः॥२०॥

[[2496]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(द्वंद्विपश्वभिधानम्)
दशमं संघमाह —
वारुणास्त्रय इति। रिशानां लोकहिंसकानां नाशयित्रे।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
विंशोऽनुवाकः॥२०॥