१९

(अथ पञ्चमाष्टक एकोनविंशोऽनुवाकः)।
सौ॒म्यास्त्रयः॑ पि॒शङ्गाः सोमा॑य॒ राज्ञे॒ त्रयः॑
सा॒रङ्गाः॑ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा

[[2495]]

प्रपा. ६ अनु. २०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अष्टादशिपशुदशमसंघाभिधानम्)
म॒ल्हा इ॑न्द्रा॒ण्यै ति॒स्रो मेष्य॑ आदि॒त्या द्या॑-
वापृथि॒व्या॑ मा॒लङ्गा॑स्तूप॒राः (१)॥
(सौ॒म्या एका॒न्नविँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके एकोनविंशोऽनुवाकः॥१९॥


(अथ पञ्चमकाण्डे षष्ठप्रपाठके एकोनविंशोऽनुवाकः)।
नवमं संघमाह —
सौम्यास्त्रयः पिशङ्गा इति। पिशङ्गा गोरोचनवर्णाः। सारङ्गाः सारङ्गवर्णाः। पार्जन्याः पर्जन्यदेवताः। नभोरूपा अञ्जनवर्णाः। मल्हा गलस्तनाः मालङ्गा महाकायाः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
एकोनविंशोऽनुवाकः॥१९॥