(अथ पञ्चमाष्टके षष्ठप्रपाठकेऽष्टादशोऽनुवाकः)।
आदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑
कृष्णै॒ताः कु॒ह्वै॑ त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑
रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आ॑ग्ना-
वैष्ण॒वा रोहि॑तललामास्तू॒पराः (१)॥
(आदि॑त्या अ॒ष्टाद॑श)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठकेऽष्टादशोऽनुवाकः॥१८॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठकेऽष्टादशोऽनुवाकः)।
अष्टमं संघमाह —
अदित्यै त्रय इति। एता हरिता हरितवर्णास्ते च रोहितेनात्यन्तरक्तेन युक्ता रोहितैताः। कृष्णेन युक्ताः कृष्णैताः। ईषद्रक्तेन युक्ता अरुणैताः। धेन्वादयः प्रसिद्धाः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्तप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
ष्टादशोऽनुवाकः॥१८॥