(अथ पञ्चमाष्टके षष्ठप्रपाठके सप्तदशोऽनुवाकः)।
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शिति॑पृ॒ष्ठा इन्द्रा॑याधि-
रा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒
त्रयः॒ शिति॑भसदस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒ध्यानां॑
ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वानामाग्ने॒न्द्राः
कृ॒ष्णल॑लामास्तूप॒राः (१)॥
(इन्द्रा॑य॒ राज्ञे॒ द्वाविँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिताया पञ्चमाष्टके
षष्ठप्रपाठके सप्तदशोऽनुवाकः॥१७॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके सप्तदशोऽनुवाकः)।
सप्तमं संघमाह
इन्द्राय राज्ञ इति। शितिपृष्ठशितिककुच्छितिभसच्छब्दा व्याख्याताः। तुर्यौह्यः सार्धचतुर्वर्षाः। साध्यानां दवविशेषाणाम्। पष्ठौह्यश्चतुर्वर्षाः।
[[2494]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अष्टादशिपशुनवमसंघाभिधानम्)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
सप्तदशोऽनुवाकः॥१७॥