१६

(अथ पञ्चमकाण्डे षष्ठप्रपाठके षोडशोऽनुवाकः)।
शु॒ण्ठस्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒
विष्ण॑व उरुक्र॒माय॑ लप्सु॒दिन॒स्त्रयो॒ विष्ण॑व
उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आदि॒त्यानां॑ त्रि —
व॒त्सास्ति॒स्रोऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑
लामास्तूप॒राः(१)॥
(शु॒ण्ठा विँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिताया पञ्चमाष्टके
षष्ठप्रपाठके षोडशोऽनुवाकः॥१६॥


[[2493]]

प्रपा. ६ अनु. १७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अष्टादशिपशुषष्ठसंघाभिधानम्)
(अथ पञ्चमकाण्डे षष्ठप्रपाठके षोडशोऽनुवाकः)।
षष्ठं संघमाह —
शुण्ठास्त्रयो वैष्णवा इति। शुण्ठा अवेष्टितकर्णाः। कल्पकाया इत्येके। अधीलोधकर्णाः कर्णोपरिप्ररूढकर्णाः उरुक्रमाय विस्तीर्णपादाय। लप्सुदिनो लम्बमानपुच्छः उरुगायायोरुभिर्महर्षिभिर्गातव्याय। पञ्चाव्योऽर्धतृतीयवर्षाः। त्रिवत्सास्त्रिवत्सराः। गौरललामाः स्पष्टा।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
षोडशोऽनुवाकः॥१६॥