१५

(अथ पञ्चमाष्टके पञ्चदशोऽनुवाकः)।
क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा
अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑ —
णी॒स्त्र्यव्य॒स्ता वसू॑नां ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ —
ह्य॑स्ता रु॒द्राणाँ॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तू-
प॒राः (१)॥

[[2492]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता——(५ पञ्चमकाण्डे—
(अष्टादशिपशुषष्ठसंघाभिधानम्)
(क॒र्णास्त्रयो॑विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके पञ्चदशोऽनुवाकः॥१५॥


(अथ पञ्चमकाण्डे षष्ठप्रपाठके पञ्चदशोऽनुवाकः)।
पञ्चमं संघमाह-
कर्णास्त्रयो यामा इति। कर्णाश्छिन्नकर्णाः यामा यमदेवत्याः। श्वितिंगाः श्वेतपादाः। यविष्ठाय युवतमाय। नकुला नकुलवराणाः। त्र्यव्यः सार्धवर्षाः। रोहिणीर्लोहितवर्णाः। दित्यौह्यो द्विवर्षाः। अरुणा अरुणवर्णाः। बभ्रुललामाः पिङ्गलपुण्ड्राः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
पञ्चदशोऽनुवाकः॥१५॥