१४

(अथ पञ्चमाष्टके षष्ठप्रपाठके चतुर्दशोऽनुवाकः)।
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रावरु॒णाः शि —
ति॑ककुच्छितिपू॒ष्ठः शितिभस॒त्त ऐ॑न्द्राबार्ह —
स्प॒त्याः शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐ॑-

[[2491]]

प्रपा. ६ अनु. १५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अष्टादशिपशुपञ्चसंघाभिधानम्)
न्द्रावैष्ण॒वास्ति॒स्रः सि॒घ्मा व॒शा वै॑श्वकर्म॒ —
ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ॑न्द्रापौ॒ष्णाः श्ये —
त॑ललामास्तूप॒राः (१)॥
(उ॒न्न॒तः पञ्च॑विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके चतुर्दशोऽनुवाकः॥१४॥


(अथ पञ्चमकाण्डे षष्ठप्रपाठके चतुर्दशोऽनुवाकः)।
अथ चतुर्थं संघमाह-
उन्नत ऋषभो वामन इति। उन्नत उन्नतपृष्ठः। ऋषभो युवा। वामनो ह्रस्वाङ्गः। शितिः शुक्लः ककुद्यस्य स तथोक्तः। शितिपृष्ठः श्वेतपृष्ठः। शितिभसच्छुक्लजघनः। शितिपात्स्पष्टम्। शित्योष्ठः श्वेतोष्ठः। शितिभ्रुः श्वेतभ्रुः। सिध्माः सिध्मलाङ्गाः पादे सिताः श्वैत्याङ्कितदेहाः। पृषोदराः पृषन्त्युदरे यासां ताः पृषोदराः श्येतललामाः स्पष्टाः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
चतुर्दशोऽनुवाकः॥१४॥