(अथ पञ्चमाष्टके षष्ठप्रपाठके त्रयोदशोऽनुवाकः)।
शि॒ति॒बा॒हु॒र॒न्यतः॑ शितिबाहुः सम॒न्तशि॑ति
बाहु॒स्त ऐ॑न्द्रवाय॒वः शि॑ति॒रन्ध्रोऽन्यतःशि
तिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै॑त्रावरु॒णाः
शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ॑-
[[2490]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे
(अष्टादशिपशुचतुर्थसंघभिधानम्)
श्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै॑श्वदे॒व्य॑स्ति॒स्रः
श्येनीः॑ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑ला —
मास्तू॒पराः (१)॥
(शि॒ति॒बा॒हुः पञ्च॑विँशतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके त्रयोदशोऽनुवाकः॥ ३॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके त्रयोदशोऽनुवाकः)।
तृतीयं संघमाह-
शितिबाहुरिति। शितिः शुक्लो बाह्वेकदेशो यस्यासौ शितिबाहुः। अन्यतःशितिबाहुर्यत्प्रथमस्य शितित्वं ततोऽन्यत्रैकदेशे शितित्वं यस्य सोऽन्यतःशितिस्तादृशो बाहुर्यस्य स तथोक्तः। समन्तशितिबाहुः सर्वशुक्लबाहुः। शितिरन्ध्रः शुक्लच्छिद्रः। अन्यतःशितिरन्ध्रसमन्तशितिरन्ध्रौ च पूर्ववत्। शुद्धवालः शुक्लपुच्छावयवः। सर्वशुक्लवालः शुक्लसर्वपुच्छः। मणिवालः शुक्लाशुक्लचितवालः। शिल्पाः नानावर्णाः। श्येन्यः शुक्लवर्णाः। श्यामललामाः श्यामवर्णपुण्ड्राः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये पञ्चमाकाण्डे षष्ठप्रपाठके
त्रयोदशोऽनुवाकः॥१३॥