१२

(अथ पञ्चमाष्टके षष्ठप्रपाठके द्वादशोऽनुवाकः)।
पृश्नि॑स्तिर॒श्चीन॑पृश्निरू॒र्ध्वपृ॑श्नि॒स्ते मा॑रु॒ताः
फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ताः सारस्व॒त्यः॑

[[2489]]

प्रपा. ६ अनु. १३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अष्टादशिपशुतृतीयसंघायभिधानम्)
पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै॑श्वदे॒व्य॑
स्ति॒त्रः श्यामा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रो-
हि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्हस्प॒त्या अ॑रु॒ण
ललामास्तूप॒राः (१)॥
(पृश्निः॒ षड्विँ॑शतिः।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके द्वादशोऽनुवाकः॥१२॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके द्वादशोऽनुवाकः)
अथ द्वितीयं संघमाह —
पृश्निस्तिश्चीनपृश्निरिति। पृश्निः शुक्लबिन्दुचितश्चित्रवर्णः। तिरश्चीनपृश्निस्तिर्यक्प्रवृत्तपृश्निवर्णः। एतेनोर्ध्वपृश्निर्व्याख्यातः। फल्गूर्लवणवर्णः। लोहितोर्णी लोहितलोमा। वलक्षी शुक्लावयवा। पृषती शुक्लबिन्दुभिश्चिता। स्थूलपृषती स्थूलशुक्लबिन्दुभिश्चिता। क्षुद्रपृषती सूक्ष्मशुक्लबिन्दुभिरुपेता। श्यामाश्यामवर्णाः। रोहिणी रोहितवर्णाः। अरुणलालमाः संध्यावर्णपुण्ड्राः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
द्वादशोऽनुवाकः॥१२॥