११

(अथ पञ्चमाष्टके षष्ठप्रपाठक एकादशोऽनुवाकः)
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑
जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः
श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या॑-
स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॒स्ति॒स्रः श्वे॒ता


१ क. घ. ङ. ञ्चौ प्रा० न।

[[2488]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अष्टादशिपशुद्वितीयसंघाभिधानम्)
व॒शाः सौ॒र्यो॑ मैत्राबार्हस्प॒त्या धू॒म्रल॑लामा-
स्तू॒पराः (१)॥
(रोहि॑तः॒ षड्विँ॑शतिः)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके एकादशोनुवाकः॥११॥


(अथ पञ्चमकाण्डे षष्ठप्रपाठक एकादशोऽनुवाकः)।
चयनस्य प्रशंसाऽत्र दशमे बहुधेरिता।
अथाष्टादशिनामानः पशवो ह्याश्वमेधिकाः॥
अष्टादशसंख्याकानां पशूनामेकैकः संघातः। तत्रास्मिन्नेकादशेऽनुवाके प्रथमं संघमाह —
रोहितो धूम्ररोहित इति। पूर्वप्रपाठक इन्द्राय राज्ञे सूकर इत्यादौ जातिभेदा उक्ता इह तु वर्णभेदा उच्यन्ते। रोहितो लोहितवर्णः। धूम्ररोहितोऽस्पृष्टलोहितः। कर्कन्धुरोहितः सौवीरवर्णः। त एते त्रयः प्राजापत्याः प्रजापतिदेवताकाः। एवमुत्तरत्राप्येकैकस्य देवस्य त्रयस्त्रयो विज्ञेया। बभ्रुः पाण्डुरकपिलः। अरुणबभ्रू रक्तकपिलः। शुकबभ्रुर्हरितशुकसमानवर्णः। श्येतोऽरक्तकवर्णः, शुक्लरक्त इत्येके। श्येताक्षोऽरक्तदृष्टिः। श्येतग्रीवः प्रसिद्धः। तिस्र इत्यादिकं स्पष्टम्। धूम्रललामा धूम्रवर्णपुण्ड्राः। तूपराः शृङ्गहीनाः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-
र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठक
एकादशोऽनुवाकः॥११॥