(अथ पञ्चमाष्टके षष्ठप्रपाठके दशमोऽनुवाकः)।
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभिः॑ संवत्स॒रं व॑स॒न्ते-
नै॒वास्य॑ पूर्वा॒र्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णं
प॒क्षं व॒र्षाभिः॒ पुच्छँ॑श॒रदोत्त॑रं प॒क्षँ हे॑म॒
न्तेन॒ मध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒ तत्पू॑र्वा॒र्धम॑चि-
नुत क्ष॒त्रेण॒ दक्षि॑णं प॒क्षं प॒शुभिः॒ पुच्छं॑ वि॒-
[[2485]]
प्रपा. ६ अनु.१०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(बहुधा चयनप्रशंसा)
शोत्त॑रं प॒क्षमा॒शया॒ मध्यं॒ य ए॒वं वि॒द्वान॒ग्निं
चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व स-
र्व॒मव॑ (१) रु॒न्धे॒ शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑-
क्या॒नमत्त्यन्नँ॒ रोच॑त इ॒यं वाव प्र॑थ॒मा
चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं
द्वितीया॒ वयाँ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑
त्राणि॒ पुरी॑षं य॒ज्ञश्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒ य-
ज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒ यत्त्रिचि॑तीकं
चिन्वी॒त य॒ज्ञं दक्षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑
या॒त्तस्मा॒त्पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वँ॑
स्पृणोति॒ यत्ति॒स्रश्चित॑यः (२) त्रि॒वृद्ध्य॑ग्नि
र्यद्द्वे द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चि-
त॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व
स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पु-
री॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒ दशा॑क्षरो॒ वै
पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तँ स्पृ॑णो॒त्यथो॒ द-
शा॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒
प्रति॑तिष्ठति संवत्स॒रो वै ष॒ष्ठी चिति॑तवः॒
पुरी॑षँ॒ षट्चित॑यो भवन्ति॒ षट्पुरी॑षाणि॒
द्वाद॑श॒ संप॑द्यन्ते॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः
संवत्स॒र ए॒व प्रति॑ तिष्ठति(३)॥
[[2486]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(बहुधा चयनप्रशंसा)
(अव॒ चित॑यः॒ पुरी॑षं॒ पञ्च॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके षष्ठ-
प्रपाठके दशमोऽनुवाकः॥१०॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः)।
आसन्द्युद्याममुख्यानि नवमे वर्णितानि हि॥
अथ दशमे चयनं बहुधा प्रशंस्यते। तत्र वसन्ताद्यृतुद्वारा प्रशंसामाह—-
प्रजापतिरग्निमिति। अत्र संवत्सरो दृष्टान्तः। ऋतुभिर्यथा संवत्सरो निष्पाद्यते तथाऽग्निमप्यृतुभिः प्रजापतिरचिनुत। ऋतुमयोऽयं यज्ञ इति संकल्प एव चयनम्। तत्र वसन्तः शिरोभागः। एवं दक्षिणपक्षादयो योज्याः॥
अथ ब्राह्मणादिरूपत्वं संकल्पेन प्रशंसति —
ब्राह्मणा वा इति। आशा मानसी तृष्णादिः। अथ वेदनं प्रशंसति—-
य एवं विद्वानिति। यो यजमान एवं वसन्ताद्यात्मकत्वं ब्राह्मणात्मकत्वं च विद्वांस्तथैव सर्वदा भावयन्नग्निं चिनुते स प्रजापतिवदृतुभिर्ब्राह्मणादिभिश्च चितवान्भवति। अपि चैतदृतूनां ब्राह्मणादीनां च स्वरूपं सर्वमधीनं करोति। किंचाग्निं चितवन्तमेनं यजमानं सर्वे जनाः शृण्वन्ति, अग्निचित्कपिला सत्रीत्यादिस्मृतिविषयत्वेन सर्वत्र प्रसिद्धो भवतीत्यर्थः। किं चान्नं समृद्धं स्वादु च सर्वदाऽत्ति। अपि च सर्वेभ्यो रोचते प्रीतिविषयो भवति॥
अथ चितिपञ्चकं पुरीषपञ्चकं च भूम्यादिरूपेण प्रशंसति -
इयं वाव प्रथमेति। येयं प्रथमा चितिः सा भूमिरेव। यच्च तस्या उपरि प्रसारितं पुरीषं तदोषधिवनस्पतिस्वरूपम्। एवमुत्तरत्रापि द्रष्टव्यम्॥
अत्र शाखान्तरगतं चितित्रयपक्षं निराकृत्य स्वकीयं चितिपञ्चकपक्षं स्थापयति-
यत्त्रिचितीकमिति। चतुर्थचितितत्पुरीषयोर्यज्ञदक्षिणारूपत्वमुक्तम्। पञ्चमचितितत्पुरीषयोर्यजमानप्रजारूपत्वम्। एवं सति त्रिचितिपक्षे यज्ञादीनामन्तरायः
१ क. ध. ङ. च. तृष्णादि।
[[2487]]
प्रपा. ६ अनु.११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अष्टादशिपशुप्रथमसंघाभिधानम्)
स्यात्। तस्मात्पञ्चचितियुक्त एवाग्निश्चेतव्यः। तथा सत्येतद्भूम्यादिकं यज्ञादिकं च सर्वमपि प्रीणयत्येव॥
आद्यं चितित्रयमुत्तरद्वयं च विभज्य प्रशंसति —
यत्तिस्रश्चितय इति। या एता आद्यास्तिस्रश्चितयस्ताभिरग्नेस्त्रैगुण्यं संपादितं भवति। त्रैगुण्यं च प्राजापत्यादिभिरिष्टकाभिः पूर्वमुक्तम्। ये चोत्तरे द्वे चिती ताभ्यां द्विपाद्यजमानः प्रतिष्ठितो भवति॥ अथ समूहरूपेण प्रशंसति —
पञ्च चितय इति। पुरुषस्य दशाक्षरत्वं छिद्राभिप्रायेण द्रष्टव्यम्। यानि शिरसि सप्त च्छिद्राणि ये चाधो द्वे छिद्रे या च नाभिस्तानि सर्वाणि यावज्जीवमविनाशादक्षराणीत्युच्यन्ते। एतदेवाभिप्रेत्य तत्र तत्राऽऽम्नायते - “सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ। नव वै पुरुषे प्राणा नाभिर्दशमी” इति। अतो दशसंख्यया पुरुषं साकल्येन प्रीणयति। किंच विराड्द्वाराऽन्ने प्रतितिष्ठति।
अथ षष्ठचितिं तत्पुरीषं च प्रशंसति —
संवत्सरो वा इति। अत्र सर्वत्र प्रशंसारूपात्वात्संवत्सरादिरूपतायां न विस्मेतव्यम्॥
अथ सर्वं मिलित्वा प्रशंसति —
षट्चितय इति। तदेतद्ब्राह्मणं सर्वान्ते द्रष्टव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
दशमोऽनुवाकः॥१०॥