(अथ पञ्चमाष्टके षष्ठप्रपाठके नवमोऽनुवाकः)।
सू॒यते॒ वा ए॒षो॑ऽग्नी॒जां य उ॒खायां॑ भ्रि॒यते॒
यद॒धः सा॒दये॒द्गर्भाः॑ प्र॒पादु॑काः स्यु॒रथो॒ यथा॑
[[2482]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (४ चतुर्थकाण्डे —
(आसन्द्याद्यभिधानम्)
स॒वात्प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑द-
यति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒-
वैनं॑ करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑
शि॒क्यं॑ यच्छि॒क्या॑दु॒खां नि॒रूहे॒द्योने॒र्गर्भं॒
निर्ह॑ण्या॒त्पडु॑द्यामँ शि॒क्यं॑ भवति षोढावि-
हि॒तो वै (१) पुरु॑ष आ॒त्मा च॒ शिर॑श्च
च॒त्वार्यङ्गा॑न्या॒त्मन्ने॒वैनं॑ बिभर्ति प्र॒जाप॑ति॒र्वा
ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒
ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लू-
ख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमु-
ष्मिल्ँ॑ लो॒के॑ऽग्निं दु॑हे संवत्स॒रो वा ए॒ष यद॒ग्नि-
स्तस्य॑ त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै॑-
ष्ण॒वीः (२) वै॒श्व॒क॒र्म॒णीर॑होरा॒त्राण्ये॒-
वास्य॑ प्राजाप॒त्या यदुख्यं॑ बि॒भर्ति॑ प्राजाप॒-
त्या ए॒व तदुप॑ धत्ते॒ यत्स॒मिध॑ आ॒दधा॑ति
वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒
यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं वै वि॒श्वक॑र्मा
वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑दाहुस्त्रि॒वृद॒-
ग्निरिति॒ तं वा ए॒तं यज॑मान ए॒व चि॑न्वीत॒
यद॑स्या॒न्यश्चि॑नु॒याद्यत्तं दक्षि॒णाभि॒र्न रा॒धये॑
द॒ग्निम॑स्य वृञ्जीत॒ यो॑ऽस्या॒ऽग्निं चि॑नु॒यात्तं
दक्षि॑णाभी राधयेद॒ग्निमे॒व तत्स्पृ॑णोति (३)॥
[[2483]]
प्रपा. ६ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आसन्द्याद्यभिधानम्)
(षो॒ढा॒वि॒हि॒तो वै॑ष्ण॒वीर॒न्यो विँ॑श॒तिश्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके नवमोऽनुवाकः॥९॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः)।
अन्वारोहादिविधयो ह्यष्टमे समुदीरिताः।
अथ नवम आसन्द्यादिकमभिधीयते। विष्णुमुखा वै देवा इत्यस्मिन्ननुवाके चतसृभिः सादयतीति यद्विहितं तत्र सादनाधारं विधत्ते —
सूयते वा इति। योऽयमग्निरुखायां धार्यत एषोऽग्निरन्येषामग्नीनां मध्ये सूयतेऽभिषिच्यत ईश्वरत्वं प्राप्नोतीत्यर्थः। यद्येतादृशमग्निमधो भूमौ सादयेत्तदानीं प्राणिनां गर्भा भूमौ प्रपादुकाः पतिताः स्युः। अपि च यथा लोके सवादैश्वर्यपदात्प्रत्यवरोहति भ्रश्यति तादृगेव तदधः सादनम्। तस्मादासन्दीमासादयति महत्यामासन्द्यामुख्यं स्थापयेत्। तच्च स्थापनं प्राणिगर्भघारणाय पतनराहित्याय च भवति। अपि चैनं सवमभिषिक्तमीश्वरमेव करोति। एतच्च सादनविधिसमीप एव द्रष्टव्यम्॥
न ह स्म वै पुराऽग्निरित्यनुवाके यद्विहितं षडुद्यामं शिक्यं भवतीति तदेतदनूद्य प्रशंसति —
गर्भो वा एष इति। योऽयमुख्योऽग्निः स गर्भस्थानीयः। शिक्यं च योनिस्थानीयम्। यदि शिक्यादुखां निरूहेन्निर्गमयेद्विस्तृतेनोद्यामराहित्येनाधः पातयेदित्यर्थः। तदा योनेः सकाशाद्गर्भं निःशेषेण हतवान्भवति। अतस्तत्परिहाराय शिक्यं षड्भिरुद्यामैरूर्ध्वप्रसृतरज्जुविशेषैर्युक्तं कर्तव्यम्। लोके पुरुषः षोढाविहितः षड्भिरवयवैरुपेतः। आत्मा मध्यशरीरमेकोऽवयवः शिरो द्वितीयोवयवो द्वौ हस्तौ द्वौ पादाविति चत्वार्यङ्गानि। अतः षडुद्यामे सति षडवयवयुक्तस्वशरीर एवैनमग्निं धारयति। एतच्च वाक्यं षडुद्यामविधिसमीपे द्रष्टव्यम्॥
एषां वा एतल्लोकानामित्यनुवाके यदुखामुपदधातीति विहितं यच्च स्वयमातृण्णामित्यनुवाक उलूखलमुपदधातीति विहितं तदुभयमत्र सह प्रशंसति —
[[2484]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(बहुधा चयनप्रशंसा)
प्रजापतिर्वा एष इति। यश्चीयमानोऽग्निरेष प्रजापतिस्वरूपस्तेन चितत्वात्। उखोलूखलयोः फलसाधनत्वात्स्तनसादृश्यम्। एतदनुष्ठानजन्यं फलं प्रजाः उपजीवन्ति। एतदुपधानेन यजमानोऽपि स्वर्गे तत्फलं दुहे। एतच्चोदाहृतयोरनुवाकयोरेकत्र द्रष्टव्यम्॥ अथोख्यधारणसमिदाधानेष्टकोपधानानि प्रशंसति —
संवत्सरो वा इति। योऽयं चीयमानोऽग्निः स एव संवत्सरधारणात्संवत्स-रात्मकः तस्य च संवत्सररूपस्याग्नेः संबन्धिन्य इष्टकास्त्रेधा विहितस्त्रिप्रकाराः संपादिताः। कास्ता इति ता उच्यन्ते- प्राजापत्या वैष्णव्यो वैश्वकर्मण्यश्च। यान्येतान्यहोरात्राणि तान्येवास्य संवत्सररूपस्याग्नेः प्रजापतिनिर्मितत्वात्प्रजा-पत्या द्रष्टव्याः। अत्रोख्यधारणेन प्राजापत्या उपहिता भवन्ति। तदेवं प्राजापत्यादिभिस्तिसृभिर्निष्पादितत्वादग्निस्त्रिगुण इत्यभिज्ञा आहुः॥
अथोपधानकर्तारं विधत्ते —
तं वा एतमिति। यजमान एव चयनस्य कर्ता नाध्वर्युः। यद्यध्वर्युः कुर्यात्तदानीमध्वर्योर्दक्षिणाभिः परितोषाभावे सत्यग्निं नाशयेत्। अथ स्वयमशक्तोऽध्वर्युणा कारयेत्तदा तं दक्षिणाभिस्तोषयेत्तेनाग्निमेव तोषयति। तदिदं ब्राह्मणद्वयं मन्त्रव्याख्यान्ते मध्येऽवकाशाभावेन निवेशनीयम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
नवमोऽनुवाकः॥९॥