०८

(अथ पञ्चमाष्टके षष्ठप्रपाठकेऽष्टमोऽनुवाकः)।
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं
यन्नान्वा॒रोहे॑त्सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत
पृथि॒वीमाऽक्र॑मिषं प्रा॒णो मा॒ मा हा॑सीद॒न्त-
रि॑क्ष॒माऽक्र॑मिषं प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माऽ-
क्र॑मिषँ॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒-
हस्तेनै॒वैन॑म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒
सम॑ष्ट्यै॒ यत्प॒क्षसं॑मितां मिनु॒यात् (१) क-
नी॑याँसं यज्ञक्र॒तुमुपे॑या॒त्पापी॑यस्यस्या॒ऽऽ
त्मना॑ प्र॒जा स्या॒द्वेदि॑संमितां मिनोति॒ ज्या-
याँ॑समे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒ऽऽत्मनः॒ पा
पी॑यसी प्र॒जा भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं
चि॑न्वा॒नः स॒हस्र॑संमितो॒ वा अ॒यं लो॒क इ॒म-
मे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत
द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्रं॑ वा अ॒न्तरि॑क्षम॒-
न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत
तृ॒तीयं॑ चिन्वा॒नः (२) त्रिषा॑हस्रो॒ वा अ॒सौ
लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं
चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं
लो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒-
तीयं॑ चिन्वा॒स्त्रि॒ष्टुभै॒वान्तरि॑क्षम॒भ्यारो॑हति
ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑

[[2477]]

(प्रपा. ६ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अन्वारोहणद्यभिधानम्)
त्यै॒वामुं लो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा
रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒-
तीयं॑ चि॒त्वाऽन्यस्य॒ स्त्रिय॑म् (३) उपे॑या॒न्न
तृ॒तीयं॑ चि॒त्वा कां च॒नोपे॑या॒द्रेतो॒ वा ए॒तन्नि
ध॑त्ते॒ यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्रेत॑सा॒ व्यृ॑ध्ये॒-
ताथो॒ खल्वा॑हुरप्रज॒स्यं तद्यन्नोपे॒यादिति॒ य
द्रे॑तः॒ सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒
रेतो॑ बिभृत॒स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒
त्रीणि॒ वाव रेताँ॑सि पि॒ता पु॒त्रः पौत्रः॑
(४) यद्द्वे रे॑तः॒सिचा॑वुपद॒ध्याद्रेतो॑ऽस्य॒ वि
च्छि॑न्द्यात्ति॒स्रः उप॑ दधाति॒ रेत॑सः॒ संत॑त्या
इ॒यं वाव प्र॑थ॒मा रे॑तः॒सिग्वाग्वा इ॒यं तस्मा॒-
त्पश्य॑न्ती॒मां पश्य॑न्ति॒ वाचं॒ वद॑न्तीम॒न्तरि॑क्षं
द्वि॒तीया॑ प्रा॒णो वा अ॒न्तरि॑क्षं॒ तस्मा॒न्नान्त-
रि॑क्षं॒ पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा
अ॒सौ तस्मा॒त्पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चक्षु॒र्यजु॑-
षे॒मां च॑ (५) अ॒मूं चोप॑ दधाति॒ मन॑सा
मध्य॒मामे॒षां लो॒कानां॒ कॢप्त्या॒ अथो॑ प्रा॒-
णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्त-
स्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह
स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाऽ-
च्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दाऽनु॑

[[2478]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अन्वारोहणाद्यभिधानम्)
तक्षुः॒ सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्बृह॒स्पति॑रु-
क्थाम॒दानि॑ शँसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थं
तेनै॒वैन॒मनु॑ शँसति (६)॥
(मि॒नु॒यात्तृ॒तीयं॑ चिन्वा॒नः स्त्रियं॒ पौत्र॑श्च॒ वै स॒प्त च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठकेऽष्टमोऽनुवाकः॥८॥
(अथ पञ्चमाष्टके षष्ठप्रपाठकेऽष्टमोऽनुवाकः)।
दीक्षाकालविकल्पा ये ते सप्तम उदीरिताः।
अथाष्टेमेऽन्वारोहणादिकमुच्यते।
यदुक्तं सूत्रकारेण — “नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमधिरोहति पृथिवीमाक्रमिषमित्येतैर्यजमानः” इति, तद्विधिमिहोन्नयति —
सुवर्गाय वा इति। योऽयं चीयमानोऽग्निरेष सुवर्गलोकार्थं चीयतेऽतस्त-स्यान्वारोहाभावे सुवर्गाद्धीयेत तन्मा भूदिति पृथिवीमित्यादिभिन्वारोहेदिति विधिरुन्नेयः। मन्त्रार्थस्तु — यजमानोऽहं पृथिवीं पादेनाऽऽक्रमिषमतः प्राणो मां मा परित्यजतु। अन्तरिक्षाक्रमणेन पुत्रादिप्रजा मा परित्यजतु। दिव आकमणेन स्वर्गं प्राप्नुमः। एतन्मन्त्रपाठ एवाग्नेरन्वारोहहेतुः। अतस्तेनैवान्वारोहति। तच्च स्वर्गप्राप्त्यै भवति। अथ यूपैकादशिन्यां कंचिद्विशेषं विधत्ते —
यत्पक्षसंमितामिति। पक्षदैर्ध्यपरिमित एव देशे यद्येकादशिनीमवस्थाप-येत्तदानीमत्यल्पं यज्ञऋतुं प्राप्नुयात्। अस्य यजमानस्य स्वकीया प्रजा पापीयसी च भवेत्। अतः पक्षपरिमाणादधिके वेदिप्रमाणयुक्तदेशे यूपान्तरालानि विलिख्यैकादशिनीं मिनुयात्। तथा सति प्रभूतमेव यज्ञऋतुं प्राप्नोति। अस्य प्रजा च पापीयसी न भवति। पूर्वस्मिन्प्रपाठके वज्र एकादशिनीत्यत्र प्रकृतिभूते चयने पश्वेकादशिनीपक्षेऽप्येक एव यूपो न तु यूपैकादशिनीत्युक्तम्। इह तु चयनविकृतिषु यपैकादशिन्यभ्युपगम्यत इत्यविरोधः।

[[2479]]

प्रपा. ६ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अन्वारोहणाद्यभिधानम्)
अथ पञ्चस्वपि चितिषु संभूयेष्टकासंख्यां विधत्ते —
साहस्रं चिन्वीतेति। सहस्रसंख्याकानामिष्टकाना समूहः साहस्रम्। अथवा सहस्रसंख्याकाभिरिष्टकाभिर्निष्पाद्योऽग्निः साहस्रः। यः प्राथमिकमग्निं चिन्वीत स तु साहस्रं कुर्यात्। द्वितीयवारं चिन्वानो द्विगुणम्। तृतीयवारं चिन्वानस्त्रिगुणम्। पृथिव्यन्तरिक्षद्युलोकाश्चोत्तरोत्तरभूयस्त्वात्ततच्चितिसंमिताः। अतस्तैश्चयनैस्तत्प्राप्तिः। पक्षत्रयेऽपि क्रमेणोर्ध्वपरिमाणं विधत्ते —
जानुदध्नं चिन्वीतेति। तथा प्रथमद्वितीयतृतीयचितीनामुत्तरोत्तरमौन्नत्यम्। अत एव गायत्रीत्रिष्टुब्जगतीनामुत्तरोत्तरमक्षराधिक्यम्। अतः क्रमेण गायत्र्यादिद्वारा लोकत्रयमधिरोहति। त्रिविधचयने क्रमेण नियमविशेषान्विधत्ते —
नाग्निं चित्वेति। यः प्राथमिकमग्निचयनं करोति स रामां नोपेयात्। स्वकीयासु भार्यासु मध्ये रमणीयेयमिति मत्वा कामुको न प्रवर्तेत। पुत्रार्थं तस्यामीप्सितानुज्ञा। रामोपगमनाभावेऽयं हेतुः- अयोनौ पुत्रोत्पत्त्यनुपयुक्तायां वृथैव रेतः स्थापयिष्यामीति तन्मा भूदित्यनुपगमनम्। द्वितीयचयनानुष्ठायी सार्ववर्णिकविवाहोपेतोऽन्यस्य वर्णान्तरस्य दुहितरं नोपेयात्। सवर्णायामीप्सितस्यानुज्ञा। तृतीयचयनानुष्ठायी सवर्णामसवर्णां रमणीयां पुत्रार्थिनीं वा कामपि नोपेयात्। तत्रायं हेतुः- अग्निं चिनुत इति यत्तदेतद्रेतसो गुप्तत्वेन स्थापनम्। तथा सत्यपुगमने रेतसा वियुक्तो भवति।
तमिममगमनपक्षं दूषयित्वा सर्वत्र गमनमभ्यनुजानाति —
अथो खल्वाहुरिति। अभिज्ञाः खल्वेवमाहुः - अनुपगमनमप्रजस्यं प्रजो-त्पादनहेतुर्न भवति। न चोपगमने रेतोहानिः शङ्कनीया। विराड्ज्योतिरित्या-दिमन्त्राभ्यां रेतःसिचाविष्टके अनेनोपहिते। तस्मात्ते एवास्य यजमानस्य रेतः पालयतः। अतो रेतसो विनाशाभावाय प्रजोत्पत्तर्थमुपेयात्। साहस्रादिविधीनामाम्नातब्राह्मणोक्तावप्यवकाशाभावात्सर्वान्ते निवेशः। पूर्वस्य त्वन्वारोहणविधेर्नमस्ते हरस इत्याद्यधिरोहणादूर्ध्वभावित्वादश्मन्नूर्जमिति परि षिञ्चतीत्यनुवकान्ते निवेशः। पूर्वस्मिन्प्रपाठके यद्विराजादुपदधातीत्यादिना रेतःसिचो विधानमुक्तम्। तत्रैव कंचिद्विशेषं विधत्ते

[[2480]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अन्त्रारोहणाद्यभिधानम्)
त्रीणि वावेति। योऽयं पितेदानीं वर्तते सोऽतीतस्य कस्यचिद्रेतः। अस्य पितुः पुत्रो रेतः। पौत्रस्तु पुत्रस्य रेतः। एवं पितृपौत्राणां त्रीणि रेतांसि। तथा सति द्वयोरेव रेतःसिचोरुपधाने सत्यवशिष्टं रेतो विच्छिन्द्यात्। तस्मात्तिस्त्रो रेतःसिच उपध्यात्। तच्च रेतःसंपत्यै संपद्यते। तिस्त्रोऽपि रेतःसिद्धः क्रमेण प्रशंसति-
इयं वाव प्रथमेति। या प्रथमा रेतःसिक्सा भूमिरेव प्राथम्यसाम्यात्। भूमिश्च वाग्रूपिण्यधोवृत्तित्वसाम्यात्। आस्ये हि वाग्वृत्तित्वे नासिकायां प्राणस्तत उपरि चक्षुस्ततो वाचोऽधोवृत्तित्वम्। यस्माद्भूमिवाचावधोवृत्तित्वेन समानरूपे तस्माल्लोकेऽपि नानाविधसस्यादिपूर्णामिमां भूमिं मातृरूपेण पश्यन्ति। तथा विद्वत्सभायां सम्यग्वदन्तीं वाचं पश्यन्त्याद्रियन्ते। येयं द्वितीया रेतःसिक्सा चान्तरिक्षरूपा मध्यमत्वसाम्यात्। तच्चान्तरिक्षं प्राणस्वरूपं प्राणस्यापि वाक्चक्षुषोर्मध्यवर्तित्वात्। यस्मादन्तरिक्षप्राणयोः साम्यं तस्मादमूर्तमन्तरिक्षं चक्षुषा न पश्यन्ति। प्राणं च नासिकासंचारिणं चक्षुषा न पश्यन्ति। येयं तृतीया रेतःसिगिष्टका सा द्युलोकस्वरूपोपरिवर्तित्वसाम्यात्। सा च द्यौश्चक्षुःस्वरूपा चक्षुरपि हि वाक्प्राणाभ्यामूर्ध्वं वर्तते। यस्माद्द्युचक्षुषोः साम्यं तस्माल्लोके जनाः सूर्यचन्द्रनक्षत्राद्यङ्किताममूं दिवं प्रत्यक्षेण पश्यन्ति। चक्षुरपि शुक्लकृष्णकनीनिकोपेतं परकीयमुखस्थं प्रत्यक्षतः पश्यन्ति।
तदेवं तिस्रः प्रशस्य तासु कंचिद्विशेषं विधत्ते -
यजुषेमां चामूमिति। विराट्ज्योतिरधारयदिति यजुषोच्चारितेनेमां प्रथमां रेतःसिचमुपदध्यात्। तथा सम्राड्ज्योतिरधारयदिति यजुषोच्चारितेनामूं तृतीयां रेतःसिचमुपदध्यात्। स्वराड्ज्योतिरधारयदित्येतद्यजुरनुच्चार्य मनसा स्मृत्वा मध्यमां रेतःसिचमुपदध्यात्। अयं च प्रकार एषां पृथिव्यादिलोकानां स्वस्वव्यापारसामर्थ्याय संपद्यते। अपि च वाक्प्राणचक्षुराख्यानां प्राणानामपि स्वस्वव्यापारसामर्थ्याय संपद्यते। तदिदं रेतःसिचां ब्राह्मणं यद्विराजावुपदधातीत्यनेन सह स्वयमातृण्णामुप दधातीत्यनुवाके द्रष्टव्यम्।
यदुक्तं सूत्रकारेण - “एकादश समिष्टयजूंषि जुहोति नवाऽऽध्वरिकाणि

[[2481]]

प्रपा. ६ अनु. ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आसन्द्याद्यभिधानम्)
हुत्वेष्टो यज्ञो भृगुभिरिति दशमैकादशे जुहोति इति, तदेतद्विधातुं मन्त्रावुत्पादयति–
इष्टो यज्ञ इति। भृगुभिर्भृगुसमानैत्विग्भिर्वसुभिर्निवासहेतुभिर्देवैश्चेष्टोऽयं यज्ञ आशीर्दा यजमानस्य फलप्रदोऽसतु। सोऽयमेको मन्त्रः। हे यज्ञ तस्य तादृशस्य भृगुभिरिष्टस्य ते तव द्रविणा फलभूतानि धनानीह कर्मणि भक्षीय भजे यथाऽऽप्नुयाम्। सोऽयं द्वितीयो मन्त्रः। एतन्मत्रसाध्यं होमविधिमुन्नयति —
इत्याहेति। इत्युक्तमन्त्रद्वयं होमकाले पठेत्। तेन स्तुतशस्त्रे उभे अपि दुग्धवान्भवति। तदिदं ब्राह्मणमन्ते द्रष्टव्यम्।
यदुक्तं सूत्रकारेण — “पिता मातरिश्वेति संचितोक्थेन होताऽनुशंसति होतर्यकामयमानोऽध्वर्युः” इति, तत्र मन्त्रमुत्पाद्य विधत्ते —
पिता मातरिश्वेति। पिता पालको मातरिश्वा वायुरच्छिद्रा पदा विनाशरहितानि स्थानानि धा दधातु संपादयतु। तथोशिजः कमनीया महर्षयोऽच्छिद्राः स्वयं विनाशरहिताः सन्तः पदानि स्थानानि अनुतक्षुः सम्यक्संपादयन्तु। विश्ववित्सर्वज्ञो नेता जगतः प्रवर्तकः सोमो नेषन्नयतु तानि प्रापयतु। बृहस्पतिश्चोक्थामदानि शस्त्राणि हर्षकारणानि शंसिषच्छंसत्वित्येतादृशं मन्त्रं पठेत्। एतदेव मन्त्रस्वरूपमग्नेः प्रियमुक्थं शस्त्रम्। तेनैव मन्त्रपाठेनैनमग्निमनुक्रमेण शंसति। एतच्च ब्राह्मणं गायत्रादिसामोपस्थानेन सह विकर्षणादूर्ध्वं द्रष्टव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठकेऽ
ष्टमोऽनुवाकः॥८॥