०७

(अथ पञ्चमाष्टके षष्ठप्रपाठके सप्तमोऽनुवाकः)।
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन्ति॒स्रो
रात्री॑र्दीक्षि॒तः स्या॑त्त्रि॒पदा॑ वि॒राड्वि॒राज॑मा-
प्नोति॒ षड्रात्री॑र्दीक्षि॒तः स्या॒त्षड्वा ऋ॒तवः॑
संवत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒
दश॒ रात्री॑र्दीक्षि॒त स्या॒द्दशा॑क्षरा वि॒राड्वि॒
राज॑माप्नोति॒ द्वाद॑श॒ रात्री॑र्दीक्षि॒तः स्या॒द् —
द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रो वि॒राड्
वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री॑र्दीक्षि॒तः
स्या॒त्त्रयो॑दश (१) मासाः॑ संवत्स॒रः सं॑व-
त्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री॑-
र्दीक्षि॒तः स्या॒त्पञ्च॑दश॒ वा अ॑र्धमा॒सस्य॒ रा-
त्र॑योऽधेमास॒शः सं॑वत्स॒र आ॑प्यते संवत्स॒रो
वि॒राड्वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री॑र्दीक्षि॒-
तः स्या॒द्द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑व —
त्स॒रः सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति॒ चतु॑
र्विँशतिँ॒रात्री॑र्दीक्षि॒तः स्या॒च्चतु॑र्विँश —
तिरर्धमा॒सा सं॑वत्स॒रः सं॑वत्स॒रो वि॒राड्वि॒रा —

[[2474]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(दीक्षाविकल्पविधिः)
ज॑माप्नोति त्रिँ॒शतँ रात्री॑र्दीक्षि॒तः स्या॑त्
(२) त्रिँ॒शदक्षरा वि॒राड्वि॒राज॑माप्नोति॒
मासं॑ दीक्षि॒तः स्या॒द्यो मासः॒ स सं॑वत्स॒रः
सं॑वत्स॒रो वि॒राड्वि॒राज॑माप्नोति च॒तुरो॑
मा॒सो र्दी॑क्षि॒तः स्या॑च्च॒तुरो॒ वा ए॒तं मा॒सो
वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाऽज॑यन्गाय॒त्रीं
छन्दो॒ऽष्टौ रु॒द्रास्ते॑ऽन्तरि॑क्ष॒माऽज॑यन्त्रि॒ष्टुभं॒
छन्दो॒ द्वाद॑शाऽऽदि॒त्यास्ते दिव॒माऽज॑य॒ञ्ज-
ग॑तीं॒ छन्द॒स्ततो॒ वै ते व्या॒वृत॑मगच्छ॒ञ्छ्रैष्ठ्यं॑
दे॒वानां॒ तस्मा॒द्द्वाद॑श मा॒सो भृ॒त्वाऽग्निं चि॑-
न्वीत॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रो॑ऽ
ग्निश्चित्य॒स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑क
मेनं चिनु॒तेऽथो॑ व्या॒वृतमे॒व ग॑च्छति॒ श्रै
ष्ठ्यँ॑ समा॒नाना॑म् (३)॥
(स्या॒त्त्रयो॑दश त्रिँ॒शतँ॒ रात्री॑र्दिक्षि॒तः स्या॒द्वै ते॑ऽष्टाविँ॑शतिश्च)।
इति कृष्णयजुर्वेदीतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके सप्तमोऽनुवाकः॥७॥


(अथ पञ्चमकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः)।
षष्ठे प्रशंसाः कथितास्तत्तद्विध्यनुवादतः।
अथ सप्तमे दीक्षाविकल्पान्विधातुं प्रस्तौति —
अग्नेर्वै दीक्षयेति। मौण्ड्यमौनादिनियमस्वीकारूपा दीक्षा। चीयमानस्याग्नेः संबन्धिन्या तादृश्या दीक्षया देवा विराजं प्राप्ताः। विराट्शब्दः प्रशस्तं

[[2475]]

प्रपा. ६ अनु. ७) कृष्णयजुर्वेदीतैत्तिरीयसंहिता।
(दीक्षाविकल्पविधिः)
छन्दोविशेषं ब्रूते। तेन च विशिष्टं राज्यमुपलक्ष्यते। तद्राज्यं प्राप्ता इत्यर्थः। अतो विधास्यमानेषु दीक्षाकालविकल्पेषु सर्वत्र विराट्प्राप्तिरुपन्यस्यते।
तानेतान्विकल्पितपक्षान्विधत्ते —
तिस्रो रात्रीर्दीक्षित इति। त्रिरात्रषड्रात्रदशरात्रद्वादशरात्रत्रयोदशरात्रप-ञ्चदशरात्रसप्तदशरात्रचतुर्विशतिरात्रत्रिंशद्रात्रमासचतुर्मासाष्टमासद्वादशमासरूपास्त्रयोदश पक्षा विकल्पताः। दशाक्षरैस्त्रिभिः पादैरुपेतं विराडाख्यं छन्दः। अतस्त्रित्वसंख्यया तत्प्राप्तिः। षट्संख्यानामृतूनां संवत्सरावयवत्वेन संवत्सरस्वरूपत्वात्संवत्सरस्य च षटविंशद्भिर्दिनदशकैर्निष्पाद्यत्वाद्दशसंख्यायाश्च विराट्पादाक्षरगतत्वात्संवत्सरद्वारा तत्प्राप्तिः। एवं सर्वत्र योज्यम्। अधिकमासेन सह त्रयोदश मासाः। सावनमासस्य त्रिंशद्रात्रनियमेऽपि चान्द्रमासस्य तन्नियमाभावात्तदपेक्षया पृथङ्मासोपन्यासः। वसवो मासचतुष्टयमुख्याग्निं भृत्वा पृथिवीं गायत्रीछन्दोदेवतां च वशीकृतवन्तः। रुद्रास्तु मासाष्टकं भृत्वाऽन्तरिक्षं त्रिष्टुब्छन्दोदेवतां च वशीकृतवन्तः। आदित्यास्तु मासद्वादशकं भृत्वा द्युलोकं जगतीछन्दोदेवतां च वशीकृतवन्तः। एतेषु पक्षेषु संवत्सरपक्षस्यात्यन्तप्रशस्तत्वादादित्या इतरेभ्यो व्यावृत्तिं प्राप्य देवानां मध्ये श्रेष्ट्यं प्राप्ताः।
अत एतमेव पक्षमादरेण पुनः प्रशंसति —
तस्माद्द्वादशेति। द्वादश मासानुपस्थानकाले नैरन्तर्येणोख्याग्निं भृत्वाऽग्निं चिनुयात्। मासद्वादशकस्य संवत्सररूपत्वाच्चित्याग्निरपि धारणद्वारा संवत्सरात्मकः। तस्य संवत्सरात्मनोऽग्नेरिष्टका एवाहोरात्राणि। ततः संवत्सरधारणेन संपूर्णत्वेन प्राप्तेष्टकमिममग्निं चितवान्भवति। अपि चेतरेभ्योऽग्निचिद्भयो व्यावृत्तः समानानां मध्ये श्रैष्ठ्यं प्राप्नोति। यद्यपि तस्मात्संवत्सरं भार्य इत्यादौ संवत्सरत्रिरात्रषड्रात्रद्वादशरात्रापेक्षा विहितास्तथाऽप्यर्थवादसंबन्धार्थमत्र पुनरुपन्यासः। एतच्च ब्राह्मणमाग्नावैष्णवविधिवत्षड्भिर्दीक्षयतीत्यनुवाकसमीपे द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
सप्तमोऽनुवाकः॥७॥

[[2476]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(अन्वरोहणाद्यभिधानम्)