(अथ पञ्चमाष्टके षष्ठप्रपाठके षष्ठोऽनुवाकः)।
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाऽति॑
ष्ठ॒त्तं दे॒वा बिभ्य॑तो॒ नोपा॑ऽऽय॒न्ते छन्दो॑भिरा॒ —
त्मानं॑ छादयि॒त्वोपा॑ऽऽय॒न्तच्छन्द॑सां छन्द॒स्त्वं
ब्रह्म॒ वै छन्दाँ॑सि॒ ब्रह्म॑ण ए॒तद्रूपं यत्कृ॑ष्णा-
जि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑मुञ्च॒ते छन्दो॑भि-
रे॒वाऽऽत्मानं॑ छाद॒यित्वाऽग्निमुप॑ चरत्या॒त्म-
नोऽहिँ॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒
यद॒ग्निः (१) अ॒न्ये वा॒ वै नि॒धिमगु॑प्तं वि॒
न्दति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॒म-
त्या॒त्मान॑मे॒वाधि॒पां कु॑रुते॒ गुप्त्या॒ अथो॒ ख —
ल्वा॑हु॒र्नाऽऽक्रम्यति॑ नैत्यु॑खा यदा॒क्रामे॒न्नि —
र्ऋ॑त्या आ॒त्मान॒मपि॑ दध्या॒त्तस्मा॒न्नाऽऽक्रम्या॑
पुरुषशी॒र्षमुप॑दधाति॒ गुप्त्या॒ अथो॒ यथा॑ ब्रू॒ —
यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत्। (२) प्र॒
जाप॑ति॒र्वा अथ॑र्वा॒ऽग्नि॒रे॒व द॒ध्यङ्ङा॑थर्व॒ण-
स्तस्येष्ठ॑का अ॒स्थान्ये॒तँ ह॒ वाव तदृषि॑र॒
भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑ —
काभिर॒ग्निं चि॒नोति॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒
सात्मा॒ऽमुष्मिल्ँ लो॒के भ॑वति॒ य ए॒वं वेद॒ शरी॑रं॒
वा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै॑श्वान॒रो य
च्चि॒ते वै॑श्वान॒रं जु॒होति॒ शरी॑रमे॒व सँ॒स्कृ
[[2470]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पूर्वोक्तविधिप्रशंसा)
त्य॑ (३) अ॒भ्यारो॑हति॒ शरी॑रं॒ वा ए॒तद्यज॑
मानः॒ सँ स्कु॑रुते॒ यद॒ग्निं चि॑नु॒ते यच्चि॒ते
वै॑श्वान॒रं जु॒होति॒ शरी॑रमे॒व सँ॒ स्कृत्या॒ऽऽ
त्मना॒ऽभ्यारो॑हति॒ तस्मा॒त्तस्य॒ नाव॑ द्यन्ति॒
जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑
दधाती॒यं वा अ॒ग्निर्वैश्वा॑न॒रस्तस्यै॒षा चिति॒
र्यत्पुरी॑षमग्निमे॒व वै॑श्वान॒रं चि॑नुत ए॒षा वा
अ॒ग्नेः प्रि॒या त॒नूर्यद्वै॑श्वान॒रः प्रि॒यामे॒वास्य॑
त॒नुव॒मव॑ रुन्धे (४)॥
(अ॒ग्निस्तत्सँ॒ स्कृत्या॒ग्नेर्दश॑ च)।
इति कृष्णयजुर्वेदीतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके षष्ठोऽनुवाकः॥६॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽभिजितोऽङ्गं यच्चयने तद्विशेषितम्।
अस्य च ब्राह्मणस्य पूर्वशेषत्वाभावान्न तत्रान्तर्भावः, किं त्वन्ते निवेश। अथ षष्ठे पूर्वप्रकरणोक्तानेव विधीन्कानिचि (न्कांश्चि) दनूद्य प्रशंसति। तत्राश्मन्नूर्जमिति परिषिञ्चतीत्यनुवाके कार्ष्णी उपानहावुपमुञ्चत इति यद्विहितं तस्य प्रशंसां दर्शयति —
प्रजापतिरग्निमिति। यदा प्रजापतिरग्निं चितवांस्तदा सोऽग्निः क्षुरपविर्भूत्वा केनाप्यगम्योऽतिष्ठत्। क्षुरधारासमानधारा यस्य वज्रस्य सोऽयं वज्र क्षुरपविः। तथाविधवज्रवदत्युग्र इत्यर्थः। तं तादृशमग्निं दृष्ट्वा देवा भीताः सन्तस्तत्समीपं न प्राप्ताः।
ततः प्रतीकारं विचार्य च्छन्दोयुक्तैर्मन्त्रैः स्वशरीरमाच्छाद्य मन्त्रजपेन रक्षां
[[2471]]
प्रपा. ६ अनु. ६) कृष्णयजुर्वेदीतैत्तिरीयसंहिता।
(पूर्वोक्तविधिप्रशंसा)
कृत्वा वह्निसमीपमागताः। छादयन्त्येभिरिति व्युत्पत्त्या छन्दस्त्वं संपन्नम्। तेषां च च्छन्दसां वेदेऽन्तर्भूतत्वाद्वेद एव तद्रूपम्। कृष्णाजिनं च वेदस्य स्वरूपम्। ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं कृत्वेत्युक्तत्वात्। तस्मात्कृष्णाजिननिर्मिते उपानहावुपमुञ्चेत। तथा सति च्छन्दोभिरेव स्वशरीरमाच्छाद्याग्नेरुपचरणात्स्वस्य हिंसा न भवति। यद्यपि मृत्युर्वा एष यदग्निर्ब्रह्मण एतद्रूपं यत्कृष्णाजिनमिति प्रशंसाऽपि तत्रैव कृता, तथाऽपि तस्या एवायं प्रपञ्च इत्यविरोधः।
एषां वा एतल्लोकानामित्यनुवाके यद्विहितं मध्ये पुरुषशीर्षमुप दधाति सवीर्यत्वायोखायामपि दधातीति, तदेतत्पूर्वोत्तरपक्षाभ्यां प्रशंसितुं पूर्वपक्षं तावद्दर्शयति —
देवनिधिर्वा इति। योऽयं चीयमानोऽग्निः सोऽयं देवानां निधिस्थानीयः। एवं सति लोके या निधिरगुप्तो भवति तं निधिमन्ये वा विरोधिनो लभन्ते। स्वयं वा कदाचित्तदीयस्थानविस्मरणेन तं निधिं न प्रजानाति। अतो दोषद्वयपरि-हाराय पूर्वमुपहितामुखां स्वपादेनाऽऽक्रामेत्। तथा सति यजमानः स्वात्मानमेव निधेरधिकं पालकं करोति। तच्च रक्षणाय भवति। आक्रमणेन स्वबुद्धौ दृढीकृतत्वान्न कदाचिद्विस्मरति। स्वेन रक्षितत्वादेव वैरणोऽपि तं निधिं न लभन्ते। अथ सिद्धान्तं दर्शयति —
अथो खल्वाहुरिति। अभिज्ञाः खलु तं पक्षमनादृत्येवमाहुः - पादेन सेय-मुखा नाऽऽक्रम्येति। तत्रायं हेतुः - इयमुखा राक्षसदेवताया नितेः संबन्धिनी अत उखाया आक्रमणे नित्यै स्वशरीरं समर्पयेत्। तस्मात्सर्वथा नाऽऽक्रमणीया। यदि निधेर्गुप्तिरपेक्षिता तर्हि पुरुषशीर्षप्रमुखायामुपरि स्थापयेत् तथा सति यथा लोके कंचित्पुरुषं रक्षकं निधिसमीपेऽवस्थाप्य मदीयमेतद्द्रव्यं गोपायेति स्वामी ब्रूयात्तादृगेव तत्पुरुषशिरःस्थापनं द्रष्टव्यम्।
पञ्चमप्रपाठके य एवं विद्वानग्निं चिनुत ऋध्नोत्येवेति यश्चयनविधिरुक्तस्तं पुनः प्रशंसति —
१ ख. च. मुञ्चते। त।
[[2472]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(पूर्वोक्तविधिप्रशंसा)
प्रजापतिर्वा इति। अत्र किंचिद्रूपकं परिकल्प्यते। अस्ति कश्चिदथर्वाख्य ऋषिः। तस्य च पुत्रो दध्यङ्नामा। दधीचोऽस्थीनि क्वचिच्छत्रुहननायाऽऽयुधत्वं प्राप्तानि। तत्सर्वमत्र संपाद्यते। योऽयमग्नेश्चेता प्रजापतिः स एवाथर्वा। चीयमानश्चाग्निस्तत्पुत्रो दध्यङ्। इष्टकाश्चास्थीनि। तमेतमेवार्थमभिप्रेत्य कश्चिदृषिर्मन्त्रस्तत्सर्वमनुवदति। मन्त्रस्य च प्रतीकमिदमिन्द्रो दधीचो अस्थभिरिति। स च मन्त्रोऽन्यत्रैवमाम्नातः - “इन्द्रो दधीचो अस्थभिः। वृत्राण्यप्रतिष्कुतः। जघान नवतीर्नव” इति। तदेवमिष्टकानामस्थित्वात्ताभिश्चयने सति सशरीरोऽग्निश्चितो भवति। वेदनं प्रशंसति —
सात्माऽमुष्मिन्निति। प्राचीमनु प्रदिशं प्रेहि विद्वानित्याहेत्यनुवाके यद्विहितं द्वादशकपालो वैश्वानरो भवतीति तत्प्रशंसति —
शरीरं वा इति। यश्चितिनिष्पाद्योऽग्निस्तदिदमग्निदेवतायाः शरीरम्। वैश्वानरश्च शरीरावस्थितो जीवात्मा। तथा सति चितेऽग्नौ वैश्वानरं पुरोडाशं जुहोतीति यत्तेनाग्निदैवतायाः शरीरमेव संस्कृत्य पश्चादारूढो भवति।
तस्यैतस्य वैश्वानरपुरोडाशस्य चोदकप्राप्तमवदानं निषेधति —
शरीरं वा इति। यजमानोऽग्निं चिनुत इति यत्तेनासौ स्वशरीरमेव संस्करोति। एवं सति चितेऽग्नौ वैश्वानरपुरोडाशं जुहोतीति यत्तेन स्वशरीरमेव संस्कृत्य तस्मिञ्शरीरे जीवरूपेणाऽऽरूढो भवति। तस्मात्तस्य जीवात्मस्थानीयस्य पुरोडाशस्यावदानं न कुर्यात्। तदकरणे च स्वयं जीवन्नेव देवान्प्राप्नोति।
यावती वै पृथिवीत्यनुवाके पुरीषेणाभ्यूहतीति यद्विहितं तत्र पृष्टो दिवीत्येतामृचमन्यत्राऽऽम्नातां विनियुङ्क्ते —
वैश्वानर्यर्चेति। पृष्टो दिवीतिमन्त्रप्रतिपाद्यो यो वैश्वानरोऽग्निः स भूमिस्वरूप एव। पुरीषं च चितिस्वरूपम्। अतः पुरीषोपधानेन भूमिरूपं वैश्वानराग्निमेव चितवान्भवति। किंच, वैश्वानरशब्दोदितः सर्वपुरुषहितकारी यो विग्रह एषैवाग्नेः प्रिया तनूः। ततो वैश्वानरमन्त्रेणोपधाने सत्यग्नेः प्रियामेव तनुवं प्राप्नोति। एतानि च ब्राह्मणवाक्यानि विधिशेषत्वात्तद्विधिसमीप एव द्रष्टव्यानि।
[[2473]]
प्रपा. ६ अनु. ७) कृष्णयजुर्वेदीतैत्तिरीयसंहिता।
(दीक्षाविकल्पविधिः)
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय- तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
षष्ठोऽनुवाकः॥६॥